एन्द्र्यां दिशि शान्तायां विरुवन् नृपसंश्रितागमं वक्ति । शकुनः ( शकुनिः) पूजालाभं मणिरत्नद्रव्यसंप्राप्तिम् ॥१॥
तदनन्तरदिशि कनकागमो भवेद् वांछितार्थसिद्धिश्च । आयुधधनपूगफलागमः तृईये भवेद् भागे ॥२॥
स्निग्धद्विजस्य सन्दर्शनं चतुर्थे तथाहिताग्नेश्च । कोणेऽनुजीविभिक्षुप्रदर्शनं कनकलोहाप्तिः ॥३॥
याम्येनाद्ये नृपपुत्रदर्शनं सिद्धिः अभिमतस्याप्तिः । परतः स्त्रीधर्माप्तिः सर्षपयवलब्धिः अपि उक्ता ॥४॥
कोणागतुर्थखण्डे लब्धिः द्रव्यस्य पूर्वनष्टस्य । यद्वा तद्वा फलमपि यात्रायां प्राप्नुयाद् याता ॥५॥
यात्रासिद्धिः समदक्षिणेन शिखिमहिषकुक्कुटाप्तिश्च । याम्याद् द्वितीयभागे चारणसंगः शुभं प्रीतिः ॥६॥
ऊर्ध्वं सिद्धिः कैवर्तसंगमो मीनतित्तिराद्याप्तिः । प्रव्रजितदर्शनं तत्परे च पक्वान्नफललब्धिः ॥७॥
नैरृत्यां स्त्रीलाभः तुरगालंकारदूतलेखाप्तिः । परतोऽस्य चर्मतत्शिल्पिदर्शनं चर्ममयलब्धिः ॥८॥
वानरभिक्षुश्रवणावलोकनं नैरृतात् तृइतीयांशे । फलकुसुमदन्तघटितागमश्च कोणागतुर्थांशे ॥९॥
वारुण्यामर्णवजातरत्नवैदूर्य ( वैडूर्य) मणिमयप्राप्तिः । परतोऽतः शबरव्याधचौरसंगः पिशितलब्धिः ॥१०॥
परतोऽपि दर्शनं वातरोगिणां चन्दनागुरुप्राप्तिः । आयुधपुस्तकलब्धिः तद्वृत्तिसमागमश्च ऊर्ध्वम् ॥११॥
वायव्ये फेनकचामर ऊर्णिकाप्तिः समेति कायस्थः । मृन्मयलाभोऽन्यस्मिन् वैतालिकडिण्डिभाण्डानाम् ॥१२॥
वायव्याग तृतीये मित्रेण स्मागमो धनप्राप्तिः । वस्त्राश्वाप्तिः अतः परमिष्टसुहृत्संप्रयोगश्च ॥१३॥
दधितण्डुललाजानां लब्धिरुदग् दर्शनं च विप्रस्य । अर्थावाप्तिः अनन्तरमुपगच्छति सार्थवाहश्च ॥१४॥
वेश्यावटुदाससमागमः परे शुक्ल ( शुष्क) पुष्पफललब्धिः । अत ऊर्ध्वं ( अतः परं) चित्रकरस्य दर्शनं चित्रवस्त्राप्तिः ( वस्त्रसंप्राप्तिः) ॥१५॥
ऐशान्यां देवलकोपसंगमो धान्यरत्नपशुलब्धिः । प्राक् प्रथमे वस्त्राप्तिः समागमश्चापि बन्धक्या ॥१६॥
रजकेन समायोगो जलजद्रव्यागमश्च परतोऽतः । हस्त्युपजीविसमाजश्चास्माद् धनहस्तिलब्धिश्च ॥१७॥
द्वात्रिंशत्प्रविभक्तं दिक्चक्रं वास्तुवत् सनेम्युक्तं ( वास्तुबन्धने अपि उक्तं) । अरनाभिस्थैः अन्तः फलानि नवधा विकल्प्यानि ॥१८॥
नाभिस्थे बन्धुसुहृत्समागमः तुष्टिरुत्तमा भवति । प्राग्रक्तपट्टवस्त्रागमः त्वरे नृपतिसंयोगः ॥१९॥
आग्नेये कौलिकतक्षपारिकर्ममाश्वसूतसंयोगः । लब्धिश्च तत्कृतानां द्रव्याणामश्वलब्धिः वा ॥२०॥
नेमीभागं बुद्ध्वा नाभीभागं च दक्षिणे योऽरः । धार्मिकजनसंयोगः तत्र भवेद् धर्मलाभश्च ॥२१॥
उस्राक्रीडककापालिकागमो नैरृते समुद्दिष्टः । वृषभस्य चात्र लब्धिः माषकुलत्थाद्यमशनम् च ॥२२॥
अपरस्यां दिशि योऽरः तत्रासक्तिः कृषीवलैः भवति । सामुद्रद्रव्यसुसारकाचफलमद्यलब्धिश्च ॥२३॥
भारवहतक्षभिक्षुकसन्दर्शनमपि च वायुदिक्संस्थे । तिलककुसुमस्य लब्धिः सनागपुन्नागकुसुमस्य ॥२४॥
कौबेर्यां दिशि योऽरः तत्रस्थो ( शकुनः शान्तायां) वित्तलाभ्माख्याति । भागवतेन समागमनं ( समागमं) आचष्टे पीतवस्त्रैश्च ॥२५॥
ऐशाने व्रतयुक्ता वनिता सन्दर्शनं समुपयाति । लब्धिश्च परिज्ञेया कृष्णायःशस्त्र ( कृष्णायोवस्त्र) घण्टानाम् ॥२६॥
याम्येऽष्टांशे पश्चाद् द्विषट्त्रिसप्ताष्टमेषु मध्यफला । सौम्येन च द्वितीये शेषेष्वतिशोभना यात्रा ॥२७॥
अभ्यन्तरे तु नाभ्यां शुभफलदा भवति षट्सु चारेषु । वायव्यानैरृतयोः अरयोः ( उभय्योः) क्लेशावहा यात्रा ॥२८॥
शान्तासु दिक्षु फलमिदमुक्तं दीप्तास्वतोऽभिधास्यामि । एन्द्र्यां भयं नरेन्द्रात् सस्मागमश्चैव शात्रूणाम् ॥२९॥
तदनन्तरदिशि नाशः कनकस्य भयं सुवर्णकाराणाम् । अर्थक्षयः तृतीये कलहः शस्त्रप्रकोपश्च ॥३०॥
अग्निभयं च चतुर्थे भयमाग्नेये च भवति चौरेभ्यः । कोणादपि द्वितीये धनक्षयो नृपसुतविनाशः ॥३१॥
प्रमदागर्भविनाशः तृतीयभागे भवेगतुर्थे च । हैरण्यककारुकयोः प्रध्वंसः शस्त्रकोपश्च ॥३२॥
अथ पंचमे नृपभयं मारीमृतदर्शनं च वक्तव्यम् । षष्ठे तु भयं ज्ञेयं गन्धर्वाणां सडोंबानाम् ॥३३॥
धीवरशाकुनिकानां सप्तमभागाद् ( भागे) भयं भवति पीप्ते । भोजनविघात उक्तो निर्ग्रन्थभयं च तत्परतः ॥३४॥
कलहो नैरृतभागे रक्तस्रावोऽथ चर्मकारभयं ( शस्त्रकोपश्च) । अपराद्ये चर्मकृतं विनश्यते चर्मकारभयम् ॥३५॥
तदनन्तरं ( तदनन्तरे) परिव्राट्श्रवणभयं तत्परे त्वनशनभयम् । वृष्टिभयं वारुण्ये श्वतस्कराणां भयं परतः ॥३६॥
वायुग्रस्तविनाशः परे परे शस्त्रपुस्तवार्तानां ( वार्त्तानां) । कोणे पुस्तकनाशः परे विषस्तेनवायुभयम् ॥३७॥
परतो वित्तविनाशो मित्रैः सह विग्रहश्च विज्ञेयः । तस्यासन्नेऽश्ववधो भयमपि च पुरोधसः प्रोक्तम् ॥३८॥
गोहरणशस्त्रघातावुदक् परे सार्थघातधननाशौ । आसन्ने च श्वभयं व्रात्यद्विजदासगणिकानाम् ॥३९॥
ऐशानस्यासन्ने चित्रांबरचित्रकृद्भयं प्रोक्तम् । ऐशाने त्वग्निभयं दूषणमपि उत्तमस्त्रीणाम् ॥४०॥
प्राक् तस्यैवासन्ने दुःखोत्पत्तिः स्त्रिया विनाशश्च । भयमूर्ध्वं रजकानां विज्ञेयं काच्च्छिकानां च ॥४१॥
हस्त्यारोहभयं स्याद् द्विरदविनाशश्च मण्डलसमाप्तौ । अभ्यन्तरे तु दीप्ते पत्नीमरणं ध्रुवं पूर्वे ॥४२॥
शस्त्रानलप्रकोपाग्नेये वाजिमरणशिल्पिभयम् । याम्ये धर्मविनाशोऽपरे ( विनाशः परे) ऽग्न्यवस्कन्दचोक्षवधाः ॥४३॥
अपरे तु कर्मिणां भयमथ कोणे चानिले खरौष्ट्रवधः । अत्रैव मनुष्याणां विसूचिका ( विक्स्क्षूचिका) विषभयं भवति ॥४४॥
उदगर्थविप्रपीडा दिश्यैशान्यां तु चित्तसन्तापः । ग्रामीणगोपपीडा च तत्र नाभ्यां तथात्मवधः ॥४५॥