संस्कृत सूची|शास्त्रः|ज्योतिष शास्त्रः|वराहमिहीरस्य बृहत्संहिताः|
अध्याय १८

बृहत्संहिताः - अध्याय १८

’बृहत्संहिता’ ग्रंथात वास्तुविद्या, भवन निर्माण कला, वायुमंडळाची रचना, वृक्ष आयुर्वेद इ. विषय अंतर्भूत आहेत.


भानां यथासंभवमुत्तरेण यातो ग्रहाणां यदि वा शशांकः ॥ प्रदक्षिणं तत्शुभदं नृपाणां याम्येन यातो न शिवः शशांकः ॥१॥

चन्द्रमा यदि कुजस्य यात्युदक् पार्वतीयबलशालिनां जयः ॥ क्षत्रियाः प्रमुदिताः सयायिनो भूरिधान्यमुदिता वसुन्धरा ॥२॥

उत्तरतः स्वसुतस्य शशंकः पौरजयाय सुभिक्षकरश्च ॥ सस्यचयं कुरुते जनहार्दिं कोशचयं च नराधिपतीनाम् ॥३॥

बृहस्पतेरुत्तरगे शशांके पौरद्विजक्षत्रियपण्डितानाम् ॥ धर्मस्य देशस्य च मध्यमस्य वृद्धिः सुभिक्षं मुदिताः प्रजाश्च ॥४॥

भार्गवस्य यदि यात्युदक् शशी कोशयुक्तगजवाजिवृद्धिदः ॥ यायिनां च विजयो धनुष्मतां सस्यसंपदपि चोत्तमा तदा ॥५॥

रविजस्य शशी प्रदक्षिणं कुर्यागेत् पुरभूभृतां जयः ॥ शकबाह्लिकसिन्धुपह्लवा मुदभाजो यवनैः समन्विताः ॥६॥

येषामुदग्गच्च्छति भग्रहाणां प्रालेयरश्मिः निरुपद्रवश्च ॥ तद्द्रव्यपौरैतरभक्तिदेशान् पुष्णाति याम्येन निहन्ति तानि ॥७॥

शशिनि फलमुदक्स्थे ( उदकस्थे) यद् ग्रहस्यौपदिष्टं ॥ भवति तदपसव्ये सर्वमेव प्रतीपम् ॥

इति शशिसमवायाः कीर्तिता भग्रहाणां ॥ न खलु भवति युद्धं साकमिन्दोः ग्रहर्क्षैः ॥८॥

N/A

References : N/A
Last Updated : January 16, 2012

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP