यद्युदयर्क्षाद् वक्रं करोति नवमाष्टसप्तमर्क्षेषु । तद्वक्त्रां ( तद्वक्रं) उष्णमुदये पीडाकरमग्निवार्त्तानाम् ॥१॥
द्वादशदशमैकादशनक्षत्राद् वक्रिते कुजेऽश्रुमुखम् । दूषयति रसान् उदये करोति रोगान् अवृष्टिं च ॥२॥
व्यालं त्रयोदशर्क्षागतुर्दशाद् वा विपच्यतेऽस्तमये । दंष्ट्रिव्यालमृगेभ्यः करोति पीडां सुभिक्षं च ॥३॥
रुधिराननमिति वक्त्रं पंचदशात् षोडशाग विनिवृत्ते । तत्कालं मुखरोगं सभयं च सुभिक्षमावहति ॥४॥
असिमुशलं सप्तदशादष्टादशतोऽपि वा तदनुवक्रे । दस्युगुणेभ्यः पीदां करोत्यवृष्टिं सशस्त्रभयाम् ॥५॥
भाग्यार्यमा उदिते यदि निवर्तते वैश्वदैवते भौमः । प्राजापत्येऽस्तमितः त्रीन् अपि लोकान् निपीडयति ॥६॥
श्रवणौदितस्य वक्रं पुष्ये मूर्धाभिषिक्तपीडाकृत् । यस्मिन्न् ऋक्षेऽभ्युदितः तद्दिग्व्यूहान् जनान् हन्ति ॥७॥
मध्ये न यदि मघानां गतागतं लोहितः करोति ततः । पाण्ड्यो नृपो विनश्यति शस्त्रौद्योगाद् भयमवृष्टिं ॥८॥
भित्त्वा मघा ( मघां) विशाखां भिन्दन् भौमः करोति दुर्भिक्षम् । मरकं करोति घोरं यदि भित्त्वा रोहिणीं याति ॥९॥
दक्षिणतो रोहिण्याः चरन् महीजोर्घवृष्टिनिग्रहकृत् । धूमायन् सशिखो वा विनिहन्यात् पारियात्रस्थान् ॥१०॥
प्राजापत्ये श्रवणे मूले त्रिषु चौत्तरेषु ( तिसृषूत्तरासु) शाक्रे च । विचरन् घननिवहानामुपघातकरः क्षमातनयः ॥११॥
चारोदयाः प्रशस्ताः श्रवणमघादित्यहस्तमूलेषु ( मूलहस्तेषु) । एकपदाश्विशाखाप्राजापत्येषु च कुजस्य ॥१२॥
विपुलविमलमूर्तिः किंशुकाशोकवर्णः स्फुटरुचिरमयूखः तप्तताम्रप्रभाभः । विचरति यदि मार्गं चौत्तरं मेदिनीजः शुभकृदवनिपानां हार्दिदश्च प्रजानाम् ॥१३॥