यद् रोहिणीयोगफलं तदेव स्वातावषाढासहिते च चन्द्रे । आषाढशुक्ले निखिलं विचिन्त्यं योऽस्मिन् विशेषः तमहं प्रवक्ष्ये ॥१॥
स्वातौ निशांशे प्रथमेऽभिवृष्टे । सस्यानि सर्वाणि उपयान्ति वृद्धिम् । भागे द्वितीये तिलमुद्गमाषा । ग्रैष्मं तृतीयेऽस्ति न शारदानि ॥२॥
वृष्टेऽह्निभागे प्रथमे सुवृष्टिः तद्वद् द्वितीये तु सकीटसर्पा । वृष्टिः तु मध्यापरभागवृष्टे निश्छिद्रवृष्टिः द्युनिशं प्रवृष्टे ॥३॥
सममुत्तरेण तारा चित्रायाः कीर्त्यते ह्यपांवत्सः । तस्यासन्ने चन्द्रे स्वातेः योगः शिवो भवति ॥४॥
सप्तम्यां स्वातियोगे यदि पतति हिमं माघमासान्धकारे । वायुः वा चण्डवेगः सजलजलधरो वापि गर्जत्यजस्रम् । विद्युन्मालाकुलं वा यदि भवति नभो नष्टचन्द्रार्कतारं । विज्ञेया प्रावृड् एषा मुदितजनपदा सर्वसस्यैरुपेता ॥५॥
तथैव फाल्गुने चैत्रे वैशाखस्यासितेऽपि वा । स्वातियोगं विजानीयादाषाढे च विशेषतः ॥६॥seprte