पादौ मूलं जंघे च रोहिणी जानुनी तथाश्विन्यः । ऊरू च आषाढद्वयमथ गुह्यं फल्गुनीद्वितयं ( युग्मं) ॥१॥
कटिः अपि च कृत्तिका पार्श्वयोश्च यमला भवन्ति भद्रपदाः । कुक्षिस्था रेवत्यो विज्ञेयमुरोऽनुराधा च ॥२॥
पृष्ठं विद्धि धनिष्ठां ( धनिष्ठा) भुजौ विशाखा ( विशाखां) स्मृतौ करौ हस्तः । अंगुल्यश्च पुनर्वसुः आश्लेषासंज्ञिताश्च नखाः ॥३॥
ग्रीवा ज्येष्ठा श्रवणं श्रवणौ ( श्रवणौ श्रवनः) पुष्यो मुखं द्विजाः स्वातिः । हसितं शतभिषग् अथ नासिका मघा मृगशिरो नेत्रे ॥४॥
चित्रा ललाटसंस्था शिरो भरण्यः शिरोरुहाश्चार्द्रा । नक्षत्रपुरुषकोऽयं कर्तव्यो रूपमिच्छद्भिः ॥५॥
चैत्रस्य बहुलपक्षे ह्यष्टम्यां मूलसंयुते चन्द्रे । ह्युपवासः कर्तव्यो विष्णुं संपूज्य धिष्ण्यं च ॥६॥
दद्याद् व्रते समाप्ते घृतपूर्णं भाजनं सुवर्णयुतम् । विप्राय कालविदुषे सरत्नवस्त्रं स्वशक्त्या च ॥७॥
अन्नैः क्षीरघृतौत्कटैः सह गुडैः विप्रान् समभ्यर्चयेद् दद्यात् तेषु सुवर्ण ( तथैव) वस्त्ररजतं लावण्यमिच्छन् नरः । पादऋक्षात् प्रभृति क्रमादुपवसन्न् अंगऋक्षनामस्वपि कुर्यात् केशवपूजनं स्वविधिना धिष्ण्यस्य पूजां तथा ॥८॥
प्रलंबबाहुः पृथुपीनवक्षाः क्षपाकरास्यः सितचारुदन्तः । गजेन्द्रगामी कमलायताक्षः स्त्रीचित्तहारी स्मरतुल्यमूर्तिः ॥९॥
शरदमलपूर्णचन्द्रद्युतिसदृशमुखी सरोजदलनेत्रा । रुचिरदशना सुकर्णा भ्रमरौदरसन्निभैः केशैः ॥१०॥
पुंस्कोकिलसमवाणी ताम्रोष्टी ( ताम्रोष्ठी) पद्मपत्रकरचरणा । स्तनभारानतमध्या प्रदक्षिणावर्तया नाभ्या ॥११॥
कदलीकाण्डनिभ ऊरुः ( ऊरूः) सुश्रोणी वरकुकुन्दरा सुभगा । सुश्लिष्टांगुलिपादा भवति प्रमदा मनुष्यश्च ( मनुष्यो वा) ॥१२॥
यावन् नक्षत्रमाला विचरति गगने भूषयन्ती इह भासा तावन् नक्षत्रभूतो विचरति सह तैः ब्रह्मणोऽह्नोऽवशेषम् । कल्पादौ चक्रवर्ती भवति हि मतिमां तत्क्षयागापि भूयः संसारे जायमानो भवति नरपतिः ब्राह्मणो वा धनाढ्यः ॥१३॥
मृगशीर्षाद्याः केशवनारायणमाधवाः सगोविन्दाः । विष्णुमधुसूदनाख्यौ त्रिविक्रमो वामनश्चैव ॥१४॥
श्रीधरनामा तस्मात् सहृषीकेशश्च पद्मनाभश्च । दामोदर इत्येते मासाः प्रोक्ता यथासंख्यं ॥१५॥
मासनामसमुपोषितो नरो द्वादशीषु विधिवत् प्रकीर्तयन् । केशवम् समभिपूज्य तत्पदं याति यत्र नहि जन्मजं भयम् ॥१६॥