ज्यैष्ठ्यां समतीतायां पूर्वाषाढादिसंप्रवृष्टेन । शुभमशुभं वा वाच्यं परिमाणं चांभसः तज्ञैः ॥१॥
हस्तविशालं कुण्डकमधिकृत्यांबुप्रमाणनिर्देशः । पंचाशत् पलमाढकमनेन मिनुयाज्जलं पतितम् ॥२॥
येन धरित्री मुद्रा जनिता वा बिन्दवः त्र्णाग्रेषु । वृष्टेन तेन वाच्यं परिमाणं वारिणः प्रथमम् ॥३॥
केचिद् यथाभिवृष्टं दशयोजनमण्डलं वदन्त्यन्ये । गर्गवसिष्ठपराशरमतमेतद् द्वादशान् न परम् ॥४॥
येषु च भेष्वभिवृष्टं भूयः तेष्वेव वर्षति प्रायः । यदि नाप्यादिषु वृष्टं सर्वेषु तदा त्वनावृष्टिः ॥५॥
हस्ताप्यसौम्यचित्रापौष्णधनिष्ठासु षोडश द्रोणाः । शतभिषगेन्द्रस्वातिषु चत्वारः कृत्तिकासु दश ॥६॥
श्रवणे मघानुराधाभरणीमूलेषु दश चतुर्युक्ताः । फल्गुन्यां पंचकृतिः पुनर्वसौ विंशतिः द्रोणाः ॥७॥
एन्द्राग्न्याख्ये वैश्वे च विंशतिः सार्पभे दश त्र्यधिकाः । आहिर्बुध्न्यार्यम्णप्रजापत्येषु पंचकृतिः ॥८॥ ( एन्द्राग्नाख्ये)
पंचदशाजे पुष्ये च कीर्तिता वाजिभे दश द्वौ च । रौद्रेऽष्टादश कथिता द्रोणा निरुपद्रवेष्वेते ॥।९॥ ( एषु)
रविरविसुतकेतुपीडिते भे क्षितितनयत्रिविधाद् भूताहते च । भवति च न शिवं न चापि वृष्टिः शुभसहिते निरुपद्रवे शिवं च ॥१०॥ ( हि)