संस्कृत सूची|शास्त्रः|ज्योतिष शास्त्रः|वराहमिहीरस्य बृहत्संहिताः|
अध्याय १०१

बृहत्संहिताः - अध्याय १०१

’बृहत्संहिता’ ग्रंथात वास्तुविद्या, भवन निर्माण कला, वायुमंडळाची रचना, वृक्ष आयुर्वेद इ. विषय अंतर्भूत आहेत.


अश्विन्योऽथ भरण्यो बहुलापादश्च कीर्त्यते मेषः । वृषभो बहुलाशेषं रोहिण्योऽर्धम् च मृगशिरसः ॥१॥

मृगशिरो ऽर्धं रौद्रं पुनर्वसोः ( पुनर्वसोः च) अंशकत्रयं मिथुनः ( मिथुनं) । पादश्च पुनर्वसुतः तिष्यः श्लेषा ( पुनर्वसोः सतिष्योऽश्लेषा) च कर्कटकः ॥२॥

सिंहोऽथ मघा पूर्वा च फल्गुनी पाद उत्तरायाश्च । तत्परिशेषं हस्तश्चित्राद्यर्धं च कन्याख्यः ॥३॥

तौलिनि चित्रान्त्यार्धं स्वातिः पादत्रयं विशाखायाः । अलिनि विशाखापादः तथानुराधान्विता ज्येष्ठा ॥४॥

मूलमषाढा पूर्वा प्रथमश्चाप्युत्तरांशको धन्वी । मकरः तत्परिषेशं श्रवणः पूर्वं धनिष्ठार्धम् ॥५॥

कुंभोऽन्त्यधनिष्ठार्धं शतभिषगंशत्रयं च पूर्वायाः । भद्रपदायाः शेषं तथोत्तरा रेवती च झषः ॥६॥

अश्विनीपित्र्यमूलाद्या मेषसिंहहयादयः । विषमऋक्षान् निवर्तन्ते पादवृद्ध्या यथोत्तरम् ॥७॥

N/A

References : N/A
Last Updated : January 16, 2012

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP