संस्कृत सूची|शास्त्रः|ज्योतिष शास्त्रः|वराहमिहीरस्य बृहत्संहिताः|
अध्याय ७१

बृहत्संहिताः - अध्याय ७१

’बृहत्संहिता’ ग्रंथात वास्तुविद्या, भवन निर्माण कला, वायुमंडळाची रचना, वृक्ष आयुर्वेद इ. विषय अंतर्भूत आहेत.


देवैश्चमर्यः किल वालहेतोः । सृष्टा हिमक्ष्माधरकन्दरेषु । आपीतवर्णाश्च भवन्ति तासां । कृष्णाश्च लांगूलभवाः सिताश्च ॥१॥

स्नेहो मृदुत्वं बहुव्लता ( लता च) । वैशद्यमल्पास्थिनिबन्धनत्वम् ॥ शौक्ल्यं च तासां ( तेषां) गुणसंपदुक्ता । विद्धाल्पलुप्तानि न शोभनानि ॥२॥

अध्यर्धहस्तप्रमितोऽस्य दण्डो हस्तोऽथवा अरत्निसमोऽथवा अन्यः । काष्ठात्शुभात् कांचनरूप्यगुप्ताद् रत्नैश्च सर्वैः ( विचित्रैः) च हिताय राज्ञाम् ॥३॥

यष्ट्यातपत्रांकुशवेत्रचापवितानकुन्तध्वजचामराणाम् । व्यापीततन्त्रीमधुकृष्णवर्णा वर्णक्रमेणैव हिताय दण्डाः ॥४॥

मातृभूधनकुलक्षयावहा रोगमृत्युजननाश्च पर्वभिः । द्व्यादिभिः द्विकविवर्धितैः क्रमात् द्वादशान्तविरतैः समैः फलम् ॥५॥

यात्राप्रसिद्धिः द्विषतां विनाशो लाभाः प्रभूता ( प्रभूतो) वसुध्पमः ( गमः) च । व्र्द्धिः पशूनामभिवंछिताप्तिः त्र्याद्येष्वयुग्मेषु तदीश्वराणाम् ॥६॥

N/A

References : N/A
Last Updated : January 16, 2012

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP