प्रान् नर्मदार्धशोणौड्रवंगसुह्माः कलिंगबाह्लीकाः ॥ शकयवनमाधशबरप्राग्ज्योतिषचीनकांबोजाः॥१॥
मेकलकिरातविटका बहिरन्तःशैलजाः पुलिन्दाश्च ॥ द्रविडानां प्रागर्धं दक्षिणकूलं च यमुनायाः ॥२॥
चंपौदुंबरकौशांबिचेदिविन्ध्याटवीकलिंगाश्च ॥ पुण्ड्रा गोलांगूलश्रीपर्वतवर्धमानानि ( मानाश्च) ॥३॥
इक्षुमतीत्यथ तस्करपारतकान्तारगोबीजानाम् ॥ तुषधान्यकटुकतरुकनकदहनविषसमरशूराणाम् ॥४॥
भेषजभिषक्चतुष्पदकृषिकरनृपहिंस्रयायिचौराणाम् ॥ व्यालारण्ययशोयुततीक्ष्णाणां भास्करः स्वामी ॥५॥
गिरिसलिलदुर्गकोशलभरुकच्छसमुद्ररोमकतुषाराः ( खाराः) ॥ वनवासितंगणहलस्त्रीराज्यमहार्णवद्वीपाः ॥६॥
मधुररसकुसुमफलसलिललवणमणिशंखमौक्तिकाब्जानाम् ॥ शालियवौषधिगोधूमसोमपाक्रन्दविप्राणाम् ॥७॥
सितसुभगतुरगरतिकरयुवतिचमूनाथभोज्यवस्त्राणाम् ॥ शृंगिनिशाचरकार्षकयज्ञविदां चाधिपश्चन्द्रः ॥८॥
शोणस्य नर्मदाया भीमरथायाश्च पश्चिमार्धस्थाः ॥ निर्विन्ध्या वेत्रवती सिप्रा गोदावरी वेणा ॥९॥
मन्दाकिनी पयोष्णी महानदी सिन्धुमालतीपाराः ॥ उत्तरपाण्ड्यमहेन्द्राद्रिविन्ध्यमलयोपगाश्चोलाः ॥१०॥
द्रविडविदेहान्ध्राश्मकभासापर ( पुर) कौंकणाः समन्त्रिषिकाः ॥ कुन्तलकेरलदण्डककान्तिपुरम्लेच्छसंकरिणः ( संकरजाः) ॥१॥
( नासिक्यभोगवर्धनविराटविन्ध्याद्रिपार्श्वगा देशाः ॥ ये च पिबन्ति सुतोयां तापीं ये च अपि गोमतीसलिलम् ॥१२॥
नागरकृषिकरपारतहुताशनाजीविशस्त्रवार्तानां ( वार्त्तानां) ॥ आटविकदुर्गकर्वटवधिक ( वधक) नृशंसावलिप्तानाम् ॥१३॥
नरपतिकुमारकुञ्जरदांभिकडिंभाभिघातपशुपानाम् ॥ रक्तफलकुसुमविद्रुमचमूपगुडमद्यतीक्ष्णानाम् ॥१४॥
कोशभवनाग्निहोत्रिकधात्वाकरशाक्यभिक्षुचौराणाम् ॥ शठदीर्घवैरबह्वाशिनां च वसुधासुतोऽधिपतिः ॥१५॥
लोहित्यः सिन्धुनदः सरयूर्गांभीरिका रथाख्या च ॥ गंगाकौशिक्याद्याः सरितो वैदेहकांबोजाः ॥१६॥
मथुरायाः पूर्वार्धं हिमवद्गोमन्तचित्रकूटस्थाः ॥ सौराष्ट्रसेतुजलमार्गपण्यबिलपर्वताश्रयिणः ॥१७॥
उदपानयन्त्रगान्धर्वलेख्यमणिरागगन्धयुक्तिविदः ॥ आलेख्यशब्दगणितप्रसाधकायुष्यशिल्पज्ञाः ॥१८॥
चरपुरुषकुहकजीवकशिशुकविशठसूचकाभिचाररताः ॥ दूतनपुंसकहास्यज्ञभूततन्त्रेन्द्रजाजज्ञाः ॥१९॥
आरक्षकनटनर्तकघृततैलस्नेहबीजतिक्तानि ॥ व्रतचारिरसायनकुशलवेसराश्चन्द्रपुत्रस्य ॥२०॥
सिन्धुनदपूर्वभागो मथुरापश्चार्धभरतसौवीराः ॥ स्रुघ्नौदीच्य ( नोदीच्य) विपाशासरित्शतद्रू रमठशाल्वाः ( साल्वाः) ॥२१॥
त्रैगर्तपौरवांब ( बांब) ष्ठपारता वाटधानयौधेयाः ॥ सारस्वतार्जुनायनमत्स्यार्धग्रामराष्ट्राणि ॥२२॥
हस्त्यश्वपुरोहितभूपमन्त्रिमांगल्यपौष्टिकासक्ताः ॥ कारुण्यसत्यशौचव्रतविद्यादानधर्मयुताः ॥२३॥
पौरमहाधनशब्दार्थवेदविदुषोऽभिचारनीतिज्ञाः ॥ मनुजेश्वरोपकरणम् छत्रध्वजचामराद्यं च ॥२४॥
शैलेयकु ( क) ष्ठमांसीतगरसरसेन्धवानि वल्लीजम् ॥ मधुररसमधूच्छिष्टानि चोरकश्चेति जीवस्य ॥२५॥
तक्षशिलमर्तिकावत ( मार्तिकावत) बहुगिरिगान्धारपुष्कलावतकाः ॥ प्रस्थलमालवकैकयदाशार्णौशीनराः शिबयः ॥२६॥
ये च पिबन्ति वितस्तामिरावतीं चन्द्रभागसरितं च॥ रथरजताकरकुञ्जरतुरगमहामात्रधनयुक्ताः ॥२७॥
सुरभिकुसुमानुलेपनमणिवज्रविभूषणांबुरुहशय्याः ॥ वरतरुणयुवतिकामोपकरणमृष्टान्नमधुरभुजः ॥२८॥
उद्यानसलिलकामुकयशःसुखौदार्यरूपसंपन्नाः ॥ विद्वदमात्यवणिग्जनघटकृच्चित्राण्डजाः त्रिफलाः ॥२९॥
कौशेयपट्टकंबलपत्रौर्णिकरोध्रपत्रचोचानि ॥ जातीफलागुरुवचापिप्पल्यश्चन्दनं च भृगोः ॥३०॥
आनर्तार्बुदपुष्करसौराष्ट्राभीरशूद्ररैवतकाः ॥ नष्टा यस्मिन् देशे सरस्वती पश्चिमो देशः ॥३१॥
कुरुभूमिजाः प्रभासं विदिशा वेदस्मृती महीतटजाः ॥ खलमलिननीचतैलिकविहीनसत्त्वौपहतपुंस्त्वाः ॥३२॥
बान्धन ( बन्धन) शाकुनिकाशुचिकैवर्तविरूपवृद्धसौकरिकाः ॥ गणपूज्यस्खलितव्रतशबरपुलिन्दार्थपरिहीनाः ॥३३॥
कटुतिक्तरसायनविधवयोषितो भुजगतस्करमहिष्यः ॥ खरकरभचणकवातल ( वातुल) निष्पावाश्चार्कपुत्रस्य ॥३४॥
गिरिशिखरकन्दरदरीविनिविष्टा म्लेच्छजातयः शूद्राः ॥ गोमायुभक्षशूलिकवोक्काणाश्वमुखविकलांगाः ॥३५॥
कुलपांसनहिंस्रकृतघ्नचौरनिःसत्यशौचदानाश्च ॥ खरचरनियुद्धवित्तीव्ररोषगर्त्ताश्रया ( भाशया) नीचाः ॥३६॥
उपहतदांभिकराक्षसनिद्राबहुलाश्च जन्तवः सर्वे ॥ धर्मेण च संत्यक्ता माषतिलाश्चार्कशशिशत्रोः ॥३७॥
गिरिदुर्गपह्लवश्वेतहूणचोलावगाणमरुचीनाः ॥ प्रत्यन्तधनिमहेच्छव्यवसायपराक्रमोपेताः ॥३८॥
परदारविवादरताः पररन्ध्रकुतूहला मदोत्सिक्ताः ॥ मूर्खाधार्मिकविजिगीषवश्च केतोः समाख्याताः ॥३९॥
उदयसमये यः स्निग्धांशुः महान् प्रकृतिस्थितो ॥ यदि च न हतो निर्घातौल्कारजोग्रहमर्दनैः ॥
स्वभवनगतः स्वोच्चप्राप्तः शुभग्रहवीक्षितः ॥ स भवति शिवः तेषां येषां प्रभुः परिकीर्तितः ॥४०॥
अभिहितविपरीतलक्षणे ( लक्षनैः) क्षयमुपगच्छति तत्परिग्रहः ॥ डमरभयगदातुरा जना नरपतयश्च भवन्ति दुःखिताः ॥४१॥
यदि न रिपुकृतं भयं नृपाणां स्वसुतकृतं नियमादमात्यजं वा ॥ भवति जनपदस्य चाप्यवृष्ट्या गमनमपूर्वपुराद्रिनिम्नगासु ॥४२॥