वल्लीलतागुल्मतरुप्रभेदैः स्युः दन्तकाष्ठानि सहस्रशो यैः । फलानि वाच्यानि अथ ( अति) तत्प्रसंगो मा भूदतो वच्म्यथ कामिकानि ॥१॥
अज्ञातपूर्वाणि न दन्तकाष्ठान्य्- अद्यान् न पत्रैश्च समन्वितानि । न युग्मपर्वाणि न पाटितानि न च ऊर्ध्वशुष्काणि विना त्वचा च ॥२॥
वैकन्तकश्रीफलकाश्मरीषु ब्राह्मी द्युतिः क्षेमतरौ सुदाराः । वृद्धिः वटेऽर्के प्रचुरं च तेजः पुत्रा मधूके सगुणाः ( ककुभे) प्रियत्वम् ॥३॥
लक्ष्मीः शिरीषे च तथा करञ्जे प्लक्षेऽर्थसिद्धिः समभीप्सिता स्यात् । मान्यत्वमायाति जनस्य जात्यां प्राधान्यमश्वत्थतरौ वदन्ति ॥४॥
आरोग्यमायुः बदरीबृहत्योः ऐश्वर्यवृद्धिः खदिरे सबिल्वे । द्रव्याणि चैष्टानि अतिमुक्तके स्युः प्राप्नोति तानि एव पुनः कदंबे ॥५॥
नीपे ( निंबे) ऽर्थाप्तिः करवीरेऽन्नलब्धिः भाण्डीरे स्यादन्नमेवं ( इदमेव) प्रभूतम् । शम्यां शत्रून् अपहन्त्यर्जुने च श्यामायां च द्विषतामेव नाशः ॥६॥
शालेऽश्वकर्णे च वदन्ति गौरवं सभद्रदारावपि चाटरूषके । वाल्लभ्यमायाति जनस्य सर्वतः प्रियंगुअपामार्गसजंबुदाडिमैः ॥७॥
उदन्मुखः प्रान्मुख एव वाब्दं कामं यथेष्ठंयथेष्टं) हृदये निवेश्य । अद्यादनिन्दन् ( अनिन्द्यं) च सुखोपविष्टः प्रक्षाल्य जह्याग शुचिप्रदेशे ॥८॥
अभिमुखपतितं प्रशान्तदिक्स्थं शुभमतिशोभनमूर्ध्वसंस्थितं यत् । अशुभकरमतोऽन्यथा प्रदिष्टं स्थितपतितं च करोति मृष्टमन्नम् ॥९॥