वर्षाप्रश्ने सलिलनिलयं राशिमाश्रित्य चन्द्रो । लग्नं यातो भवति यदि वा केन्द्रगः शुक्लपक्षे । सौम्यैः दृष्टः प्रचुरमुदकं पापदृष्टोऽल्पमंभः । प्रावृट्काले सृजति न चिरात्चन्द्रवद् भार्गवोऽपि ॥१॥
आर्द्रं द्रव्यं स्पृशति यदि वा वारि तत्संज्ञकं वा । तोयासन्नो भवति यदि वा तोयकार्यौन्मुखो वा । प्रष्टा वाच्यः सलिलमचिरादस्ति निःसंशयेन । पृच्छाकाले सलिलमिति वा श्रूयते यत्र शब्दः ॥२॥
उदयशिखरिसंस्थो दुर्निरीक्ष्योऽतिदीप्त्या । द्रुतकनकनिकाशः स्निग्धवैदूर्यकान्तिः । तदहनि कुरुतेऽंभः तोयकाले विवस्वान् । प्रतपति यदि चौच्चैः खं गतोऽतीव तीक्ष्णम् ॥३॥
विरसमुदकं गोनेत्राभं वियद्विमला दिशो । लवणविकृतिः काकाण्डाभं यदा च भवेत्नभः । पवनविगमः पोप्लूयन्ते झषाः स्थलगामिनो । रसनमसकृत्मण्डूकानां जलागमहेतवः ॥४॥
मार्जारो भृशमवनिं नखैः लिक्खन्तो । लोहानां मलनिचयः सविस्रगन्धः । रथ्यायां शिशुरचिताः च सेतुबन्धाः । संप्राप्तं जलमचिरात्निवेदयन्ति ॥५॥ ( लिखन्ते) ( शिशुनिचिताः)
गिरयोऽञ्जनचूर्णसन्निभा यदि वा बाष्पनिरुद्धकन्दराः । कृकवाकुविलोचनौपमाः परिवेषाः शशिनश्च वृष्टिदाः ॥६॥ ( अञ्जनपुञ्जसन्निभा)
विना उपघातेन पिपीलिकानाम् । अण्डौपसंक्रान्तिः अहिव्यवायः । द्रुमावरोहः च भुजंगमानां । वृष्टेः निमित्तानि गवां प्लुतं च ॥७॥ ( द्रुमाधिरोहः)
तरुशिखरओपगताः कृकलासा । गगनतलस्थितदृष्टिनिपाताः । यदि च गवां रविवीक्षणमूर्ध्वं । निपतति वारि तदा न चिरेण ॥८॥
नैच्छन्ति विनिर्गमं गृहाद् धुन्वन्ति श्रवणान् खुरान् अपि । पशवः पशुवग कुक्कुरा यद्यंभः पततीति निर्दिशेत् ॥९॥ ( कुर्कुरा)
यदा स्थिता गृहपटलेषु कुक्कुरा । रुदन्ति वा यदि विततं वियत्मुखाः । दिवा तडिद् यदि च पिनाकिदिग्भवा । तदा क्षमा भवति समैव वारिणा ॥१०॥ ( कुर्कुरा) ( भवन्ति) ( दिवोन्मुखाः) ( स आतोवारोंआ)
शुककपोतविलोचनसन्निभो । मधुनिभश्च यदा हिमदीधितिः । प्रतिशशी च यदा दिवि राजते । पतति वारि तदा न चिरेण च ॥११॥ ( चिराद् दिवः)
स्तनितं निशि विद्युतो दिवा । रुधिरनिभा यदि दण्डवत्स्थिताः । पवनः पुरतश्च शीतलो । यदि सलिलस्य तदाआगमो भवेत् ॥१२॥
वल्लीनां गगनतलौन्मुखाः प्रवालाः । स्नायन्ते यदि जलपांशुभिः विहंगाः । सेवन्ते यदि च सरीसृपाः तृणाग्राण्य्- । आसन्नो भवति तदा जलस्य पातः ।
मयूरशुकचाषचातकसमानवर्णा यदा । जपाकुसुमपंकजद्युतिमुषश्च सन्ध्याघनाः । जलोर्मिनगनक्रकच्छपवराहमीनोपमाः । प्रभूतपुटसंचया न तु चिरेण यच्छन्त्यपः ॥१३॥
पर्यन्तेषु सुधाशशांकधवला मध्येऽञ्जनालित्विषः । स्निग्धा नैकपुटाः क्षरज्जलकणाः सोपानविच्छेदिनः । माहेन्द्रीप्रभवाः प्रयान्त्यपरतः प्राग् वा अंबुपाशौद्भवा । ये ते वारिमुचः त्यजन्ति न चिरादंभः प्रभूतं भुवि ॥१४॥
शक्रचापपरिघप्रतिसूर्या रोहितोऽथ तडितः परिवेषः । उद्गमास्तमये यदि भानोः आदिशेत् प्रचुरमंबु तदाशु ॥१५॥
यदि तित्तिरपत्रनिभं गगनं । मुदिताः प्रवदन्ति च पक्षिगणाः । उदयास्तमये सवितुः द्युनिशं । विसृजन्ति घना न चिरेण जलम् ॥१६॥
यद्यमोघकिरणाः सहस्रगोः । अस्तभूधरकरा इवौच्छ्रिताः । भूमं च रसते यदांबुदः । तन्महद् भवति वृष्टिलक्षणं ॥१७॥
प्रावृषि शीतकरो भृगुपुत्रात् सप्तमराशिगतः शुभदृष्टः । सूर्यसुतान् नवपंचमगो वा सप्तमगश्च जलाआगमनाय ॥१८॥
प्रायो ग्रहाणामुदयास्तकाले समागमे मण्डलसंक्रमे च । पक्षक्षये तीक्ष्णकरायनान्ते वृष्टिः गतेऽर्के नियमेन चार्द्राम् ॥१९॥
समागमे पतति जलं ज्ञशुक्रयोः ज्ञजीवयोः गुरुसितयोश्च संगमे । यमारयोः पवनहुताशजं भयं ह्यदृष्टयोः असहितयोश्च सद्ग्रहैः ॥२०॥
अग्रतः पृष्ठतो वापि ग्रहाः सूर्यावलंबिनः । यदा तदा प्रकुर्वन्ति महीमेकार्णवामिव ॥२१॥
प्रविशति यदि खद्योतो जलदसमीपेषु रजनीषु । केदारपूरमधिकं वर्षति देवः तदा न चिरात् ॥२२॥
वर्षत्यपि रटति यदा गोमायुश्च प्रदोषवेलायाम् । सप्ताहं दुर्दिनमपि तदा पयो नात्र सन्देहः ॥२३॥seprte