संस्कृत सूची|शास्त्रः|ज्योतिष शास्त्रः|वराहमिहीरस्य बृहत्संहिताः|
अध्याय ३०

बृहत्संहिताः - अध्याय ३०

’बृहत्संहिता’ ग्रंथात वास्तुविद्या, भवन निर्माण कला, वायुमंडळाची रचना, वृक्ष आयुर्वेद इ. विषय अंतर्भूत आहेत.


अर्धास्तमितानुदितात् सूर्यादस्पष्टभं नभो यावत् । तावत् सन्ध्याकालश्चिह्नैः एतैः फलं चास्मिन् ॥१॥

मृगशकुनि ( शकुन) पवनपरिवेषपरिधिपरिघाभ्रवृक्षसुरचापैः । गन्धर्वनगररविकरदण्डरजः स्नेहवर्णैश्च ॥२॥

भैरवमुच्चैः विरुवन् मृगोऽसकृद् ग्रामघातमाचष्टे । रविदीप्तो दक्षिणतो महास्वनः सैन्यघातकरः ॥३॥

अपसव्ये संग्रामः सव्ये सेनासमागमः शान्ते । मृगचक्रे पवने वा सन्ध्यायां मिश्रगे वृष्टिः ॥४॥

दीप्तमृगाण्डजविरुता प्राक् सन्ध्या देशनाशमाख्याति । दक्षिणदिक्स्थैः विरुता ग्रहणाय पुरस्य दीप्तास्यैः ॥५॥

गृहतरुतोरणमथने सपांशुलोष्टौत्करेऽनिले प्रबले । भैरवरावे रूक्षे खगपातिनि चाशुभा सन्ध्या ॥६॥

मन्दपवनावघट्टितचलितपलाशद्रुमा विपवना वा । मधुरस्वरशान्तविहंगमृगरुता पूजिता सन्ध्या ॥७॥

सन्ध्याकाले स्निग्धा दण्डतडित्मत्स्यपरिधिपरिवेषाः । सुरपतिचापैरावतरविकिरणाश्चाशु वृष्टिकरः ॥८॥

विच्छिन्नविषमविध्वस्तविकृतकुटिलापसव्यपरिवृत्ताः । तनुह्रस्वविकलकलुषाश्च विग्रहावृष्टिदाः किरणाः ॥९॥

उद्द्योतिनः प्रसन्ना ऋजवो दीर्घाः प्रदक्षिणावर्ताः । किरणाः शिवाय जगतो वितमस्के नभसि भानुमतः ॥१०॥

शुक्लाः करा दिनकृतो दिवादिमध्यान्तगामिनः स्निग्धाः । अव्युच्छिन्ना ऋजवो वृष्टिकराः ते त्व ( हि) अमोघाख्याः ॥११॥

कल्माषबभ्रुकपिला विचित्रमाञ्जिष्ठहरितशबलाभाः । त्रिदिवानुबन्धिनोऽवृष्टयेऽल्पभयदाः तु सप्ताहात् ॥१२॥

ताम्रा बलपतिमृत्युं पीतारुणसन्निभाश्च तद् व्यसनम् । हरिताः पशुसस्यबधं धूमसवर्णा गवां नाशम् ॥१३॥

माञ्जिष्टाभाः शस्त्राग्निसंभ्रमं बभ्रवः पवनवृष्टिम् । भस्मसदृशाः त्ववृष्टिं तनुभावं शबलकल्माषाः ॥१४॥

बन्धूकपुष्पाञ्जनचूर्णसन्निभं । सान्ध्यं रजोऽभ्येति यदा दिवाकरम् । लोकाः तदा रोगशतैः निपीड्यते । शुक्लं रजो लोकविवृद्धिशान्तये ॥१५॥

रविकिरणजलदमरुतां संघातो दण्डवत् स्थितो दण्डः । स विदिक्स्थितो नृपाणामशुभो दिक्षु द्विजादीनाम्द्विजातीनां ॥१६॥

शस्त्रभयातंककरो दृष्टः प्रान्मध्यसन्धिषु दिनस्य । शुक्लाद्यो विप्रादीन् यदभिमुखः तां निहन्ति दिशम् ॥१७॥

दधिसदृशाग्रो नीलो भानुच्छादी खमध्यगोभ्रतरुः । पीतच्छुरिताश्च घना घनमूला भूरिवृष्टिकराः ॥१८॥

अनुलोमगेऽभ्रवृक्षे शमं गते यायिनो नृपस्य बधः । बालतरुप्रतिरूपिणि युवराजामात्ययोः मृत्युः ॥१९॥

कुवलयवैदूर्यांबुजकिञ्जल्काभा प्रभञ्जनौन्मुक्ता । सन्ध्या करोति वृष्टिं रविकिरणौद्भासिता सद्यः ॥२०॥

अशुभाकृतिघनगन्धर्वनगरनीहारधूमपांशुयुता । प्रावृषि करोत्यवग्रहमन्यतौ शस्त्रकोपकरी ॥२१॥ ( पांशुधूमयुता)

शिशिरादिषु वर्णाः शोणपीतसितचित्रपद्मरुधिरनिभाः । प्रकृतिभवाः सन्ध्यायां स्वर्तौ शस्ता विकृतिः अन्या ॥२२॥

आयुधभृन् नररूपं छिन्नाभ्रं परभयाय रविगामि । सितखपुरेऽर्काक्रान्ते पुरलाभो भेदने नाशः ॥२३॥

सितसितान्तघनावरणं रवेः । भवति वृष्टिकरं यदि सव्यतः । यदि च वीरणगुल्मनिभैः घनैः । दिवसभर्तुः अदीप्तदिगुद्भवैः ॥२४॥

नृपविपत्तिकरः परिघः सितः क्षतजतुल्यवपुः बलकोपकृत् । कनकरूपधरो बलवृद्धिदः सवितुरुद्गमकालसमुत्थितः ॥२५॥

उभयपार्श्वगतौ परिधी रवेः । प्रचुरतोयकरौ वपुषान्वितौ । अथ स मस्तककुप्परिचारिणः । परिधयोऽस्ति कणोऽपि न वारिणः ॥२६॥ ( कृतौ)

ध्वजातपत्रपर्वतद्विपाश्वरूपधारिणः । जयाय सन्ध्ययोः घना रणाय रक्तसन्निभाः ॥२७॥

पलालधूमसंचयस्थितौपमा बलाहकाः । बलान्यरूक्षमूर्तयो विवर्धयन्ति भूभृताम् ॥२८॥

विलंबिनो द्रुमौपमाः खरारुणप्रकाशिनः । घनाः शिवाय सन्ध्ययोः पुरौपमाः शुभावहाः ॥२९॥

दीप्तविहंगशिवामृगघुष्टा दण्डरजःपरिघादियुता च । प्रत्यहमर्कविकारयुता वा देशनरेशसुभिक्षबधाय ॥३०॥

प्राची तत्क्षणमेव नक्तमपरा सन्ध्या त्र्यहाद् वा फलं । सप्ताहात् परिवेषरेणुपरिघाः कुर्वन्ति सद्यो न चेत् । तद्वत् सूर्यकरेन्द्रकार्मुकतडित्प्रत्यर्कमेघानिलाः । तस्मिन्न् एव दिनेऽष्टमेऽथ विहगाः सप्ताहपाका मृगाः ॥३१॥

एकं दीप्त्या योजनं भाति सन्ध्या । विद्युद्भासा षट् प्रकाशीकरोति । पंचाब्दानां गर्जितं याति शब्दो । नास्तीयत्ता केचिद् उल्कानिपाते ॥३२॥ ( काचिद्)

प्रत्यर्कसंज्ञः परिधिः तु तस्य । त्रियोजनाभः परिघस्य पंच । षट्पंचदृश्यं परिवेषचक्रं । दशामरेशस्य धनुः विभाति ॥३३॥ ( त्रियोजना भा)

N/A

References : N/A
Last Updated : January 16, 2012

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP