संस्कृत सूची|शास्त्रः|ज्योतिष शास्त्रः|वराहमिहीरस्य बृहत्संहिताः|
अध्याय ५१

बृहत्संहिताः - अध्याय ५१

’बृहत्संहिता’ ग्रंथात वास्तुविद्या, भवन निर्माण कला, वायुमंडळाची रचना, वृक्ष आयुर्वेद इ. विषय अंतर्भूत आहेत.


सितरक्तपीतकृष्णा विप्रादीना क्रमेण पिटका ये । ते क्रमशः प्रोक्तफाला वर्णाना नाग्रजाताना ( अग्रजादीना) ॥१॥

सुस्निग्धव्यक्तशोभाः शिरसि धनचय मूर्ध्नि सौभाग्यमाराद् दौर्भाग्य भ्रूयुगोत्थाः प्रियजनघटनामाशु दुःशीलता च । तन्मध्योत्थाश्च शोक नयनपुटगता नेत्रयोः इष्टदृष्टि प्रव्रज्या शखदेशेऽश्रुजलनिपतनस्थानगा रान्ति चिन्ता ( स्थानगाश्च अतिचिन्ता) ॥२॥

घ्राणागण्डे वसनसुतदाश्चओष्ठयोः अन्नलाभ कुर्युः तद्वगिबुकतलगा भूरि वित्त ललाटे । हन्वोः एव गलकृअपदा भूषणानि अन्नपाने श्रोत्रे षड्भूतण ( षड्भूषण) गणमपि ज्ञानमात्मस्वरूपम् ॥३॥

शिरःसन्धिग्रीवाहृदयकुचपार्श्वौरसि गता अयोघात घात सुततनयलाभ शुचमपि । प्रियप्राप्ति स्कन्धेऽपि अटनमथ भिक्षार्थमसकृद् विनाश कक्षोत्था विदधति धनाना बहुमुख ( बहुसुख) ॥४॥

दुःखशत्रुनिचयस्य विनाश ( विघात) पृष्ठबाहुयुगजा रचयन्ति । सयम च मणिबन्धनजाता भूषणाद्यमुपबाहुयुगोत्थाः ॥५॥

धनाप्ति सौभाग्य शुचमपि करागुल्युदरगाः सुपानान्न नाभौ तदध इह चौरैः धनहृतिम् । धन धान्य बस्तौ युवतिमथ मेढ्रे सुतनयान् धन सौभाग्य वा गुदवृषणजाता विदधति ॥६॥

ऊर्वोः यानानागनालाभ जान्वोः शत्रुजनात् क्षतिम् । शस्त्रेण जघयोः गुल्फेऽध्वबन्धक्लेशदायिनः ॥७॥

स्फिक्पार्ष्णिपादजाता धननाशागम्यगमनमध्वानम् ।

बन्धनमग्गुलिनिचयेऽग्गुष्ठे च ज्ञातिलोकतः पूजाम् ॥८॥

उत्पातगण्डपिटका दक्षिणतो वामतः त्वभीघाताः । धन्या भवन्ति पुसा तद्विपरीताश्च ( तु) नारीणाम् ॥९॥

इति पिटकविभागः प्रोक्त आमूर्धतोऽय व्रणतिलकविभागोऽपि एवमेव प्रकल्प्यः । भवति मशकलक्ष्मावर्तजन्मापि तद्वन् निगदितफलकारि प्राणिना देहसस्थम् ॥१०॥

N/A

References : N/A
Last Updated : January 16, 2012

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP