उन्मानमानगतिसंहतिसारवर्ण- । स्नेहस्वरप्रकृतिसत्त्वमनूकं आदौ । क्षेत्रं मृजां च विधिवत् कुशलोऽवलोक्य । सामुद्रविद् वदति यातमनागतं वा ( च) ॥१॥
अस्वेदनौ मृदुतलौ कमलौदराभौ । श्लिष्टांगुली रुचिरताम्रनखौ सुपार्ष्णी । उष्णौ शिराविरहितौ सुनिगूढगुल्फौ । कूर्मौन्नतौ च चरणौ मनुजेश्वरस्य ॥२॥
शूर्पाकारविरूक्षपाण्डुरनखौ वक्रौ शिरासन्ततौ संशुष्कौ विरलांगुली च चरणौ दारिद्र्यदुःखप्रदौ । मार्गायौत्कटकौ कषायसदृशौ वंशस्य विच्छेददौ ( विच्छित्तिदौ) ब्रह्मघ्नौ परिपक्वमृद्द्युतितलौ पीतावगम्यारतौ ( पीतावगम्यरतौ) ॥३॥
प्रविरलतनुरोमवृत्तजंघा द्विरदकरप्रतिमैः वर ऊरुभिश्च । उपचितसमजानवश्च भूपा धनरहिताः श्वशृगालतुल्यजंघाः ॥४॥
रोमएकैकं कूपके पार्थिवानां द्वे द्वे ज्ञेये पण्डितश्रोत्रियाणाम् । त्र्याद्यैः निःस्वा मानवा दुःखभाजः केशाश्चैवं निन्दिताः पूजिताश्च ॥५॥
निर्मांसजानुः म्रियते प्रवासे सौभाग्यमल्पैः विकटैः दरिद्राः । स्त्रीनिर्जिताश्चैव ( चापि) भवन्ति निम्नै राज्यं समांशैश्च महद्भिः आयुः ॥६॥
लिंगेऽल्पे धनवान् अपत्यरहितः स्थूले ऽपि हीनो ( विहीनो) धनैः मेढ्रे वामनते सुतार्थरहितो वक्रेऽन्यथा पुत्रवान् । दारिद्र्यं विनते त्वधोऽल्पतनयो लिंगे शिरासन्तते स्थूलग्रन्थियुते सुखी मृदु करोत्यन्तं प्रमेहादिभिः ॥७॥
कोशनिगूढैः भूपा दीर्घैः भग्नैश्च वित्तपरिहीनाः । ऋजुवृत्तशेफसो लघुशिरालशिश्नाश्च धनवन्तः ॥८॥
जलमृत्युः एकवृषणो विषमैः स्त्रीचंचलः समैः क्षितिपः । ह्रस्वायुश्चौद्बद्धैः प्रलंबवृषणस्य शतमायुः ॥९॥
रक्तैः आढ्या मणिभिः निर्द्रव्याः पाण्डुरैश्च मलिनैश्च ॥सुखिनः सशब्दमूत्रा निःस्वा निःशब्दधाराश्च ॥१०॥
द्वित्रिचतुर्धाराभिः प्रदक्षिणावर्तवलितमूत्राभिः । पृथिवीपतयो ज्ञेया विकीर्णमूत्राश्च धनहीनाः ॥११॥
एकैव मूत्रधारा वलिता रूपप्रदा न सुतदात्री ( रूपप्रधानसुतदात्री) । स्निग्धौन्नतसममणयो धनवनितारत्नभोक्तारः ॥१२॥
मणिभिश्च मध्यनिम्नैः कन्यापितरो भवन्ति निःस्वाश्च । बहुपशुभाजो मध्यौन्नतैश्च नात्युल्बणैः धनिनः ॥१३॥
परिशुष्कबस्तिशीर्षैः धनरहिता दुर्भगाश्च विज्ञेयाः । कुसुमसमगन्धशुक्रा विज्ञातव्या महीपालाः ॥१४॥
मधुगन्धे बहुवित्ता मत्स्यसगन्धे बहूनि अपत्यानि । तनुशुक्रः स्त्रीजनको मांससगन्धो महाभोगी ॥१५॥
मदिरागन्धे यज्वा क्षारसगन्धे च रेतसि दरिद्रः । शीघ्रं मैथुनगामी दीर्घायुः अतोऽन्यथा अल्पायुः ॥१६॥
निःस्वोऽतिस्थूलस्फिक् समांसलस्फिक् सुखान्वितो भवति । व्याघ्रान्तोऽध्यर्धस्फिग् मण्डूकस्फिग् नराधिपतिः ॥१७॥
सिंहकटिः मनुजेन्द्रः कपिकरभकटिः धनैः परित्यक्तः । समजठरा भोगयुता घटपिठरनिभौदरा निःस्वाः ॥१८॥
अविकलपार्श्वा धनिनो निम्नैः वक्रैश्च भोगसन्त्यक्ताः । समकुक्षा भोगाढ्या निम्नाभिः भोगपरिहीनाः ॥१९॥
उन्नतकुक्षाः क्षितिपाः कुटिलाः स्युः मानवा विषमकुक्षाः । सर्पौदरा दरिद्रा भवन्ति बह्वाशिनश्चैव ॥२०॥
परिमण्डलौन्नताभिः विस्तीर्णाभिश्च नाभिभिः सुखिनः । अल्पा ( स्वल्पा) त्वदृश्यनिम्ना नाभिः क्लेशावहा भवति ॥२१॥
वलिमध्यगता विषमा शूलाद् बाधां ( शूलाबाधं) करोति नैस्वयं ( नैःस्व्यं) च । शाठ्यं वामावर्ता करोति मेधां प्रदक्षिणतः ॥२२॥
पार्श्वायता चिरायुषमुपरिष्टागईश्वरं गवाढ्यमधः । शतपत्रकर्णिकाभा नाभिः मनुजेश्वरं कुरुते ॥२३॥
शस्त्रान्तं स्त्रीभोगिनमाचार्यं बहुसुतं यथासंख्यम् । एकद्वित्रिचतुर्भिः वलिभिः विन्द्याद् नृपं त्ववलिम् ॥२४॥
विषमवलयो मनुष्या भवन्त्यगम्या अभिगामिनः पापाः । ऋजुवलयः सुखभाजः परदारद्वेषिणश्चैव ॥२५॥
मांसलमृदुभिः पार्श्वैः प्रदक्षिणावर्तरोमभिः भूपाः । विपरीतैः निर्द्रव्याः सुखपरिहीनाः परप्रेष्याः ॥२६॥
सुभगा भवन्त्यनुद्वद्ध ( अनुबद्ध) चूचुका निर्धना विषमदीर्घैः । पीनौपचितनिमग्नैः क्षितिपतयश्चूचुकैः सुखिनः ॥२७॥
हृदयं समुन्नतं पृथु न वेपनं मांसलं च नृपतीनाम् । अधनानां विपरीतं खररोमचितं शिरालं च ॥२८॥
समवक्षसोऽर्थवन्तः पीनैः शूरा हि ( शूराः त्व्) अकिंचनाः तनुभिः । विषमं वक्षो येषां ते निःस्वाः शस्त्रनिधनाश्च ॥२९॥
विषमैः विषमो जत्रुभिः अर्थविहीनोऽस्थिसन्धिपरिणद्धैः । उन्नतजत्रुः भोगी ( भागी) निम्नैः निःस्वोऽर्थवान् पीनैः ॥३०॥
चिपिटग्रीवो निःस्वः शुष्का सशिरा च यस्य वा ग्रीवा । महिषग्रीवः शूरः शस्त्रान्तो वृषसमग्रीवः ॥३१॥
कंबुग्रीवो राजा प्रलंबकण्ठः प्रभक्षणो भवति । पृष्ठमभग्नमरोमशमर्थवतामशुभदमतोऽन्यत् ॥३२॥
अस्वेदनपीनौन्नतसुगन्ध ( सुगन्धि) समरोमसंकुलाः कक्षाः । विज्ञातव्या धनिनामतोऽन्यथार्थैः विहीनानाम् ॥३३॥
निर्मांसौ रोमचितौ भग्नावल्पौ च निर्धनस्यांसौ । विपुलावव्युच्छिन्नौ सुश्लिष्टौ सौख्यवीर्यवताम् ॥३४॥
करिकरसदृशौ वृत्तावाजान्ववलंबिनौ समौ पीनौ । बाहू पृथिवीशानामधनानां ( अधमानां) रोमशौ ह्रस्वौ ॥३५॥
हस्तांगुलयो दीर्घाश्चिरायुषामवलिताश्च सुभगानाम् । मेधाविनाम् च सूक्ष्माश्चिपिटाः परकर्मनिरतानाम् ॥३३३३६॥
स्थूलाभिः धनरहिता बहिर्नताभिश्च शस्त्रनिर्याणाः । कपिसदृशकरा धनिनो व्याघ्रौपमपाणयः पापाः ॥३७॥
मणिबन्धनैः निगूढैः दृढैश्च सुश्लिष्टसन्धिभिः भूपाः । हीनैः हस्तच्छेदः श्लथैः सशब्दैश्च निर्द्रव्याः ॥३८॥
पितृवित्तेन विहीना भवन्ति निम्नेन करतलेन नराः । संवृतनिम्नैः धनिनः प्रोत्तानकराश्च दातारः ॥३९॥
विषमैः विषमा निःस्वाश्च करतलैः ईश्वराः ( ईश्वराः) तु लाक्षाभैः । पीतैः अगम्यवनिताभिगामिनो निर्धना रूक्षैः ॥४०॥
तुषसदृशनखाः क्लीबाश्चिपिटैः स्फुटितैश्च वित्तसन्त्यक्ताः । कुनखविवर्णैः परतर्कुकाश्च ताम्रैश्चमूपतयः ॥४१॥
अंगुष्ठयवैः आढ्याः सुतवन्तो अंगुष्ठमूलजैश्च यवैः ( मूलगैश्च यवः) । दीर्घांगुलिपर्वाणः सुभगा दीर्घायुषश्चैव ॥४२॥
स्निग्धा निम्ना रेखा धनिनां तद्व्यत्ययेन निःस्वानाम् । विरलांगुलयो निःस्वा धनसंचयिनो घनांगुलयः ॥४३॥
तिस्रो रेखा मणिबन्धनोत्थिताः करतलौपगा नृपतेः । मीनयुगांकितपाणिः नित्यं सत्रप्रदो भवति ॥४४॥
वज्राकारा धनिनां विद्याभाजां च मीनपुच्छनिभाः । शंख आतपत्रशिविकागजाश्वपद्मौपमा नृपतेः ॥४५॥
कलशमृणालपता अकांकुशौपमाभिः भवन्ति निधिपालाः । दामनिभाभिश्च आढ्याः स्वस्तिकरूपाभिः ऐश्वर्यम् ॥४६॥
चक्रासिपरशुतोमरशक्तिधनुःकुन्तसन्निभा रेखाः । कुर्वन्ति चमूनाथं यज्वानमुलूखलाकाराः ॥४७॥
मकरध्वजकोष्ठागारसन्निभाभिः महाधनोपेताः । वेदीनिभेन चैवाग्निहोत्रिणो ब्रह्मतीर्थेन ॥४८॥
वापीदेवकुलाद्यैः धर्मं कुरुवन्ति च त्रिकोणाभिः । अंगुष्ठमूलरेखाः पुत्राः स्युः दारिकाः सूक्ष्माः ॥४९॥
रेखाः प्रदेशिनिगताः ( गाः) शतायुषं कल्पनीयमूनाभिः । छिन्नाभिः द्रुमपतनं बहुरेखारेखिणो निःस्वाः ॥५०॥
अतिकृशदीर्घैश्चिबुकैः निर्द्रव्या मांसलैः धनोपेताः । विंब ( बिंब) उपमैः अवक्रैः अधरैः भूपाः तनुभिः अस्वाः ॥५१॥
ओष्ठैः स्फुटितविखण्डितविवर्णरूक्षैश्च धनपरित्यक्ताः । स्निग्धा घनाश्च दशनाः सुतीक्ष्णदंष्ट्राः समाश्च शुभाः ॥५२॥
जिह्वा रक्ता दीर्घा श्लक्ष्णा सुसमा च भोगिनो ( भोगिनां) ज्ञेया । श्वेता कृष्णा परुषा निर्द्रव्याणां तथा तालु ॥५३॥
वक्त्रं सौम्यं संवृतममलं श्लक्ष्णं समं च भूपानाम् । विपरीतं क्लेशभुजां महामुखं दुर्भगाणां च ॥५४॥
स्त्रीमुखमनपत्यानां शाठ्यवतां मण्डलं परिज्ञेयम् । दीर्घं निर्द्रव्याणां भीरुमुखाः पापकर्माणः ॥५५॥
चतुरस्रं ( चतुरश्रं) धूर्तानां निम्नं वक्रं ( वक्त्रं) च तनयरहितानाम् । कृपणानामतिह्रस्वं संपूर्णं भोगिनां कान्तम् ॥५६॥
अस्फुटिताग्रं स्निग्धं श्मश्रु शुभं मृदु च सन्नतं चैव । रक्तैः परुषैश्चौराः श्मश्रुभिः अल्पैश्च विज्ञेयाः ॥५७॥
निर्मांसैः कर्णैः पापमृत्यवश्चर्पटैः सुबहुभोगाः । कृपणाश्च ह्रस्वकर्णाः शंकुश्रवणाश्चमूपतयः ( च भूपतयः) ॥५८॥
रोमशकर्णा दीर्घायुषश्च ( तु) धनभागिनो विपुलकर्णाः । क्रूराः शिरावनद्धैः व्यालंबैः मांसलैः सुखिनः ॥५९॥
भोगी त्वनिम्नगण्डो मन्त्री संपूर्णमांसगण्डो यः । सुखभाक् शुकसमनासश्चिरजीवी शुष्कनासश्च ॥६०॥
छिन्नानुरूपया अगम्यगामिनो दीर्घया तु सौभाग्यम् । आकुंचितया चौरः स्त्रीमृत्युः स्यागिपिटनासः ॥६१॥
धनिनोऽग्रवक्रनासा दक्षिणविनताः ( वक्राः) प्रभक्षणाः क्रूराः । ऋज्वी स्वल्पच्छिद्रा सुपुटा नासा सभाग्यानाम् ॥६२॥
धनिनां क्षुतं सकृद् द्वित्रिपिण्डितं ह्लादि सानुनादं च । दीर्घायुषां प्रमुक्तं विज्ञेयं संहतं चैव ॥६३॥
पद्मदलाभैः धनिनो रक्तान्तविलोचनाः ( विलोचनाः) श्रियः भाजः । मधुपिंगलैः महार्था मार्जारविलोचनैः पापाः ॥६४॥
हरिणाक्षा मण्डललोचनाश्च जिह्मैश्च लोचनैश्चौराः । क्रूराः केकरनेत्रा गजसदृशविलोचनाश्चमूपतयः ( दृशश्च भूपतयः) ॥६५॥
ऐश्वर्यम् गंभीरैः नीलोत्पलकान्तिभिश्च विद्वांसः । अतिकृष्णतारकाणामक्ष्नामुत्पाटनं भवति ॥६६॥
मन्त्रित्वं स्थूलदृशां श्यावाक्षाणां भवति सौभाग्यम् । दीना दृग् निःस्वानां स्निग्धा विपुलार्थभोगवताम् ॥६७॥
अभ्युन्नताभिः अल्पायुषो विशालौन्नताभिः अतिसुखिनः । विषमभ्रुवो दरिद्रा बालेन्दुनतभ्रुवः सधनाः ॥६८॥
दीर्घा असंसक्ताभिः धनिनः खण्डाभिः अर्थपरिहीनाः । मध्यविनतभ्रुवो ये ते सक्ताः स्त्रीष्वगम्यासु ॥६९॥
उन्नतविपुलैः शंखैः धनिनो ( धन्या) निम्नैः सुतार्थसन्त्यक्ताः । विषमललाटा विधना धनवन्तोऽर्धेन्दुसदृशेन ॥७०॥
शुक्तिविशालैः आचार्यता शिरासन्ततैः अधर्मरताः । उन्नतशिराभिः आढ्याः स्वस्तिकवत् संस्थिताभिश्च ॥७१॥
निम्नललाटा वधबन्धभागिनः क्रूरकर्मनिरताश्च । अभ्युन्नतैश्चमूपाः ( भूपाः) कृपणाः स्युः संवृत ( सग़्कट) ललाटाः ॥७२॥
रुदितमदीनमनश्रु स्निग्धं च शुभावहं मनुष्याणाम् । रूक्षं दीनं प्रचुराश्रु चैव न शुभप्रदं पुंसाम् ॥७३॥
हसितं शुभदमकंपं सनिमीलितलोचनं तु पापस्य । दुष्टस्य ( हृष्टस्य) हसितमसकृत् सोन्मादस्यासकृत् प्रान्ते ॥७४॥
तिस्रो रेखाः शतजीविनां ललाटायताः स्थिता यदि ताः । चतसृभिः अवनीशत्वं नवतिश्चायुः सपंचाब्दा ॥७५॥
विच्छिन्नाभिश्चागम्यगामिनो नवतिः अपि अरेखेण । केशान्तोपगताभी रेखाभिः अशीतिवर्षायुः ॥७६॥
पंचभिः आयुः सप्ततिः एकाग्रावस्थिताभिः अपि षष्टिः । बहुरेखेण शतार्धं चत्वारिंशग वक्राभिः ॥७७॥
भ्रूलग्नाभिः त्रिंशद् ( त्रिंशभ्रूलग्नाभिः) विंशतिकश्चैव वामवक्राभिः । क्षुद्राभिः स्वल्पायुः न्यूनाभिश्चान्तरे कल्प्यम् ॥७८॥
परिमण्डलैः गवाढ्याश्छत्राकारैः शिरोभिः अवनीशाः । चिपिटैः पितृमातृघ्नाः करोटिशिरसां चिरान् मृत्युः ॥७९॥
घटमूर्धा अध्वानरुचिः द्विमस्तकः पापकृद् धनैः त्यक्तः । निम्नं तु शिरो महतां बहुनिम्नमनर्थदं भवति ॥८०॥
एकैकभवैः स्निग्धैः कृष्णैः आकुंचितैः अभिन्नाग्रैः । मृदुभिः न चातिबहुभिः केशैः सुखभाग् नरेन्द्रो वा ॥८१॥
बहुमूलविषमकपिलाः स्थूलस्फुटिताग्रपरुषह्रस्वाश्च । अतिकुटिलाश्चातिघनाश्च मूर्धजा वित्तहीनानाम् ॥॥८२
यद्यद् गात्रं रूक्षं मांसविहीनं शिरावनद्धं च । तत्तदनिष्टं प्रोक्तं विपरीतमतः शुभं सर्वम् ॥८३॥
त्रिषु विपुलो गंभीरः त्रिष्वेव षडुन्नतश्चतुर्ह्रस्वः । सप्तसु रक्तो राजा पंचसु दीर्घश्च सूक्ष्मश्च ॥८४॥
नाभी ( नाभिः) स्वरः सत्त्वमिति प्रशस्तं ( प्रदिष्टं) गंभीरमेतत् त्रितयं नराणाम् । उरो ललाटं वदनं च पुंसां विस्तीर्णमेतत् त्रितयं प्रशस्तम् ॥८५॥
वक्षोऽथ कक्षा नखनासिकास्यं कृकाटिका चेति षडुन्नतानि । ह्रस्वानि चत्वारि च लिंगपृष्ठं ग्रीवा च जंघे च हितप्रदानि ॥८६॥
नेत्रान्तपादकरताल्वधरोष्ठजिह्वा रक्ता नखाश्च खलु सप्त सुखावहानि । सूक्ष्माणि पंच दशनांगुलिपर्वकेशाः साकं त्वचा कररुहा न च ( कररुहाश्च न) दुःखितानाम् ॥८७॥
हनुलोचनबाहुनासिकाः स्तनयोः अन्तरमत्र पंचमम् । इति दीर्घमिदं तु पंचकं न भवत्येव नृणामभूभृताम् ॥८८॥
छाया शुभाशुभफलानि निवेदयन्ती लक्ष्या मनुष्यपशुपक्षिषु लक्षणज्ञैः । तेजोगुणान् बहिः अपि प्रविकाशयन्ती दीपप्रभा स्फटिकरत्नघटस्थितेव ॥८९॥
स्निग्धद्विजत्वग्नखरोमकेशाः ( केश) छाया सुगन्धा च महीसमुत्था । तुष्ट्यर्थलाभाभ्युदयान् करोति धर्मस्य चाहन्यहनि प्रवृत्तिम् ॥९०॥
स्निग्धा सिताच्छहरिता नयनाभिरामा । सौभाग्यमार्दवसुखाभ्युदयान् करोति । सर्वार्थसिद्धिजननी जननीव च आप्या । छाया फलं तनुभृतां शुभमादधाति ॥९१॥
चण्डा अधृष्या पद्महेमाग्निवर्णा युक्ता तेजोविक्रमैः सप्रतापैः । आग्नेयीति प्राणिनां स्याज्जयाय क्षिप्रं सिद्धिं वांछितार्थस्य दत्ते ( धत्ते) ॥९२॥
मलिनपरुषकृष्णा पापगन्धानिलोत्था जनयति वधबन्धव्याध्यनर्थार्थनाशान् । स्फटिकसदृशरूपा भाग्ययुक्ताआत्युदारा निधिः इव गगनोत्था श्रेयसां स्वच्छवर्णा ॥९३॥
छायाः क्रमेण कुजलाग्न्यनिलांबरोत्थाः केचिद् वदन्ति दश ताश्च यथानुपूर्व्या । सूर्याब्जनाभपुरुहूतयमौडुपानां तुल्याः तु लक्षणफलैः इति तत्समासः ॥९४॥
करिवृषरथौघभेरीमृदंगसिंहाभ्र ( अब्द) निःस्वना भूपाः । गर्दभजर्जररूक्षस्वराश्च धनसौख्यसन्त्यक्ताः ॥९५॥
सप्त भवन्ति च सारा मेदोमज्जात्वगस्थिशुक्राणि । रुधिरं मांसं चेति प्राणभृतां तत्समासफलम् ॥९६॥
ताल्वोष्ठदन्तपालीजिह्वानेत्रान्तपायुकरचरणैः । रक्ते ( रक्तैः) तु रक्तसारा बहुसुखवनितार्थपुत्रयुताः ॥९७॥
स्निग्धत्वक्का धनिनो मृदुभिः सुभगा विचक्षणाः तनुभिः । मज्जामेदःसाराः सुशरीराः पुत्रवित्तयुताः ( युक्ताः) ॥९८॥
स्थूलास्थिः अस्थिसारो बलवान् विद्यान्तगः सुरूपश्च । बहुगुरुशुक्राः सुभगा विद्वांसो रूपवन्तश्च ॥९९॥
उपचितदेहो विद्वान् धनी सुरूपश्च मांससारो यः । संघाता इति च सुश्लिष्टसन्धिता सुखभुजो ज्ञेया ॥१००॥
स्नेहः पंचसु लक्ष्यो वाग्जिह्वादन्तनेत्रनखसंस्थः । सुतधनसौभाग्ययुताः स्निग्धैः तैः निर्धना रूक्षैः ॥१०१॥
द्युतिमान् वर्णस्निग्धः ( वर्णः स्निग्धः) क्षितिपानाम् मध्यमः सुतार्थवताम् । रूक्षो धनहीनानां शुद्धः शुभदो न संकीर्णः ॥१०२॥
साध्यमनूकं वक्त्राद् गोवृषशार्दूलसिंहगरुडमुखाः । अप्रतिहतप्रतापा जितरिपवो मानवेन्द्राश्च ॥१०३॥
वानरमहिषवराहाजतुल्यवदनाः श्रुतार्थ ( सुतार्थ) सुखभाजः । गर्दभकरभप्रतिमैः मुखैः शरीरैश्च निःस्वसुखाः ॥१०४॥
अष्टशतं षण्णवतिः ( षणवतिः) परिमाणं चतुरशीतिः इति पुंसाम् । उत्तमसमहीनानामंगुलसंख्या स्वमानेन ॥१०५॥
भारार्धतनुः सुखभाक् तुलितोऽतो दुःखभाग् भवत्यूनः । भारोऽतिवाढ्यानामध्यर्धः सर्वधरणीशः ॥१०६॥
विंशतिवर्षा नारी पुरुषः खलु पंचविंशतिभिः अब्दैः । अर्हति मानोन्मानं जीवितभागे चतुर्थे वा ॥१०७॥
भूजलशिख्यनिलांबरसुरनररक्षः पिशाचकतिरश्चाम् । सत्त्वेन भवति पुरुषो लक्षणमेतद् भवति तेषां ( एषां) ॥१०८॥
महीस्वभावः शुभपुष्पगन्धः । संभोगवान् सुश्वसनः स्थिरश्च । तोयस्वभावो बहुतोयपायी । प्रियाभिभाषी ( अभिलाषी) रसभाजनः ( भोजनः) च ॥१०९॥
अग्निप्रकृत्या चपलोऽतितीक्ष्णश् । चण्डः क्षुधालुः बहुभोजनश्च । वायोः स्वभावेन चलः कृशश्च । क्षिप्रं च कोपस्य वशं प्रयाति ॥११०॥
खप्रकृतिः निपुणो विवृतास्यः । शब्दगतेः कुशलः सुशिरांगः । त्यागयुतः ( त्यागयुतो) पुरुषो मृदुकोपः । स्नेहरतश्च भवेत् सुरसत्त्वः ॥१११॥
मर्त्यसत्त्वसंयुतो गीतभूषणप्रियः । संविभागशीलवान् नित्यमेव मानवः ॥११२॥
तीक्ष्णप्रकोपः खलचेष्टितश्च । पापश्च सत्त्वेन निशाचराणाम् । पिशाचसत्त्वश्चपलो मलाक्तो । बहुप्रलापी च समुल्बणांगः ॥११३॥
भीरुः क्षुधालुः बहुभुक् च यः स्याद् । ज्ञेयश्च ( स) सत्त्वेन नरः तिरश्चाम् । एवं नराणां प्रकृतिः प्रदिष्टा । यल्लक्षणज्ञाः प्रवदन्ति सत्त्वम् ॥११४॥
शार्दूलहंससमदद्विपगोपतीनां । तुल्या भवन्ति गतिभिः शिखिनां च भूपाः । येषां च शब्दरहितं स्तिमितं च यातं । तेऽपीश्वरा द्रुतपरिप्लुतगा दरिद्राः ॥११५॥
श्रान्तस्य यानमशनं च बुभुक्षितस्य । पानं तृषापरिगतस्य भयेषु रक्षा । एतानि यस्य पुरुषस्य भवन्ति काले । धन्यं वदन्ति खलु तं नरलक्षणज्ञाः ॥११६॥
पुरुषलक्षणमुक्तमिदं मया मुनिमतानि अवलोक्य समासतः । इदमधीत्य नरो नृपसम्मतो भवति सर्वजनस्य च वल्लभः ॥११७॥