नागगजैरावतवृषभगोजरद्गवमृगाजदहनाख्याः । अश्विन्याद्याः कैश्चित् त्रिभाः क्रमाद् वीथयः कथिताः ॥१॥
नागा तु पवनयाम्यानलानि पैतामहात् त्रिभाः तिस्रः । गोवीथ्यामश्विन्यः पौष्णं द्वे चापि भद्रपदे ॥२॥
जारद्गव्यां श्रवणात् त्रिभं मृगाख्या त्रिभं तु मैत्राद्यम् । हस्तविशाखात्वाष्ट्राणि अजैत्यषाढाद्वयं दहना ॥३॥
तिस्रः तिस्रः तासां क्रमादुदन्मध्ययाम्यमार्गस्थाः । तासामपि उत्तरमध्यदक्षिणेन स्थितैकैका ( दक्षिनावस्तितैकैका) ॥४॥
वीथीमार्गान् अपरे कथयन्ति यथास्थितान् भमार्गस्य । नक्षत्राणां तारा याम्योत्तरमध्यमाः तद्वत् ॥५॥
उत्तरमार्गो याम्यादि निगदितो मध्यमः तु भाग्याद्यः । दक्षिणमार्गो आषाढादि कैश्चिदेवं कृवा मार्गाः ॥६॥
ज्यौतिषं ( ज्योतिसं) आगमशास्त्रं विप्रतिपत्तौ न योग्यमस्माकम् । स्वयमेवा विकल्पयितुं किन्तु बहूनां मतं वक्ष्ये ॥७॥
उत्तरवीथिषु शुक्रः सुभिक्षशिवकृद् गतोऽस्तमुदयम् च ( वा) । मध्यासु मध्यफलदः कष्टफलो दक्षिणस्थासु ॥८॥
अत्युत्तमोत्तमोनं सममध्यन्यूनमधमकष्टफलम् । कष्टतरं ( तमं) सौम्याद्यासु वीथिषु यथाक्रमं ब्रूयात् ॥९॥
भरणीपूर्वं मण्डलम् ऋक्षचतुष्कं सुभिक्षकरमाद्यम् । वंगांगमहिषबाह्लिक ( वाह्लिक) कलिंगदेशेषु भयजननम् ॥१०॥
अत्रो उदितमारोहेद् ग्रहोऽपरो यदि सितं ततो हन्यात् । भद्राश्वशूरसेनकयौधेयककोटिवर्षनृपान् ॥११॥
भचतुष्टयमार्द्राद्यं द्वितीयममितांबुसस्यसंपत्त्यै । विप्राणामशुभकरं विशेषतः क्रूरचेष्टानाम् ॥१२॥
अन्येनात्राक्रान्ते म्लेच्छाटविकश्व ( काश्व) जीविगोमन्तान् । गोनर्दनीचशूद्रान् वैदेहांश्चानयः स्पृशति ॥१३॥
विचरन् मघादिपंचकमुदितः सस्यप्रणाशकृत्शुक्रः । क्षुत्तस्करभयजननो नीचोन्नतिसंकरकरश्च ॥१४॥
पित्र्याद्येऽवष्टंभो हन्त्यन्येनाविकान् शबरशूद्रान् । पुण्ड्रापरान्त्यशूलिकवनवासिद्रविडसामुद्रान् ॥१५॥
स्वात्याद्यं भत्रितयं मण्डलमेतगतुर्थमभयकरम् । ब्रह्मक्षत्रसुभिक्षाभिवृद्धये मित्रभेदाय ॥१६॥
अत्राक्रान्ते मृत्युः किरातभर्तुःपिनष्टि चैक्षुवाकून् । प्रत्यन्तावन्तिपुलिन्दतंगणान् शूरसेनांश्च ॥१७॥
ज्येष्ठाद्यं पंचर्क्षं क्षुत्तस्कररोगदम् प्रबाधयते । काश्मीराश्मकमत्स्यान् सचारुदेवीन् अवन्तींश्च ॥१८॥
अत्रारोहेद् द्रविडाभीरांबष्ठ ( आरोहेऽत्राभीरान् द्रविडांबष्ठ) त्रिगर्तसौराष्ट्रान् । नाशयन्ति सिन्धुसौवीरकांश्च काशीश्वरस्य वधः ॥१८॥
षष्ठं षण्नक्षत्रं शुभमेतन् मण्डलं धनिष्ठाद्यम् । भूरिधनगोकुलाकुलमनल्पधान्यं क्वचित् सभयम् ॥१९॥
अत्रारोहेच् ( आरोहे) शूलिकगान्धारावन्तयः प्रपीड्यन्ते । वैदेहवधः प्रत्यन्तयवनशकदासपरिवृद्धिः ॥२०॥
अपरस्यां स्वात्याद्यं ज्येष्ठाद्यं चापि मण्डलं शुभदम् । पित्र्याद्यं पूर्वस्यां शेषाणि यथोक्तफलदानि ॥२१॥
दृष्तोऽनस्तमिते ( ऽनस्तगतेऽर्के) भयकृत् क्षुद्रोगकृत् समस्तमहः । अर्धदिवसे ( दिवसं) च सेन्दुः नृपबलपुरभेदकृत्शुक्रः ॥२२॥
भिन्दन् गतोऽनलर्क्षं कूलातिक्रान्तवारिवाहाभिः । अव्यक्ततुंगनिम्ना समा सरिद्भिः भवति धात्री ॥२३॥
प्राजापत्ये शकटे भिन्ने कृत्वेव पातकं वसुधा । केशास्थिशकलशबला कापालमिव व्रतं धत्ते ॥२४॥
सौम्योपगतो रससस्यसंक्षयायोशनाः समुद्दिष्टः । आर्द्रागतः तु कोशलकलिंगहा सलिलनिकरकरः ॥२५॥
अश्मकवैदर्भाणां पुनः वसुस्थे सिते महाननयः । पुष्ये पुष्टा वृष्टिः विद्याधरगणविमर्दश्च ॥२६॥
आश्लेषासु भुजंगमदारुणपीडावहश्चरन् शुक्रः । भिन्दन् मघां महामात्रदोषकृद् भूरिवृष्टिकरः ॥२७॥
भाग्ये शबरपुलिन्दप्रध्वंसकरोऽंबुनिवहमोक्षाय । आर्यम्णे कुरुजांगलपांचालघ्नः सलिलदायी ॥२८॥
कौरवचित्रकराणां हस्ते पीडा जलस्य च निरोधः । कूपकृदण्डजपीडा चित्रास्थे शोभना वृष्टिः ॥२९॥
स्वातौ प्रभूतवृष्टिः दूतवणिग्नाविकान् स्पृशत्यनयः । एन्द्राग्नेऽपि सुवृष्टिः वणिजां च भयं विजानीयात् ॥३०॥
मैत्रे क्षत्रविरोधो ज्येष्ठायां क्षत्रमुख्यसन्तापः । मौलिकभिषजाम् मूले त्रिष्वपि चैतेष्वनावृष्टिः ॥३१॥
आप्ये सलिलजपीडा विश्वेशे व्याधयः प्रकुप्यन्ति । श्रवणे श्रवणव्याधिः पाखण्डि ( पाषण्दि) भयं धनिष्ठासु ॥३२॥
शतभिषजि शौण्डिकानामजैकभे ( अजैकपे) द्यूतजीविनां पीडां ( पीडा) । कुरुपांचालानामपि करोति चास्मिन् सितः सलिलम् ॥३३॥
आहिर्बुधिने फलमूलतापकृद् यायिनाम् च रेवत्याम् । अश्विन्यां हयपानां याम्ये तु किरातयवनानाम् ॥३४॥
चतुर्दशीं पंचदशीं ( चतुर्दशे पंचदशे तथाष्टमे) - तमिस्रपक्षस्य तिथिं ( तिथौ) भृगोः सुतः । यदा व्रजेद् दर्शनमस्तमेति वा तदा मही वारिमयीव लक्ष्यते ॥३५॥
गुरुः भृगुश्चापरपूर्वकाष्ठयोः परस्परं सप्तमराशिगौ यदा । तदा प्रजा रुग्भयशोकपीडिता न वारि पश्यन्ति पुरन्दरोज्झितम् ॥३६॥
यदा स्थिता जीवबुधारसूर्यजाः सितस्य सर्वेऽग्रपथानुवर्तिनः । नृनागविद्याधरसंगराः तदा भवन्ति वाताश्च समुच्छ्रितान्तकाः ॥३७॥
न मित्रभावे सुहृदो व्यवस्थिताः क्रियासु सम्यग् न रता द्विजातयः । न चाल्पमपि अंबु ददाति वासवो भिनत्ति वज्रेण शिरांसि भूभृताम् ॥३८॥
शनैश्चरे म्लेच्छविडालकुञ्जराः खरा महिष्योऽसितधान्यशूकराः । पुलिन्दशूद्राश्च सदक्षिणापथाः क्षयं व्रजन्त्यक्षिमरुद्गदौद्भवैः ॥३९॥
निहन्ति शुक्रः क्षितिजेऽग्रतः प्रजां ( प्रजा) हुताशशस्त्रक्षुदवृष्टितस्करैः । चराचरं व्यक्तमथौत्तरापथं दिशोऽग्निविद्युद्रजसा च पीड्येत् ॥४०॥
बृहस्पतौ हन्ति पुरःस्थिते सितः सितं समस्तं द्विजगोसुरालयान् । दिशं च पूर्वां करकासृजोऽंबुदा गले गदा भूरि भवेग शारदम् ॥॥
सौम्योऽस्तोदयोः पुरो भृगुसुतस्यावस्थितः तोयकृद् रोगान् पित्तजकामलांश ( कामलां कामलांशोः कामलाः) च कुरुते पुष्णाति च ग्रैष्मिकान् ( ग्रैष्मिकं) ।
हन्यात् प्रव्रजिताग्निहोत्रिकभिषग्रंगोपजीव्यान् हयान् वैश्यान् गाः सह वाहनैः नरपतीन् पीतानि पश्चाद् दिशम् ॥४१॥
शिखिभयमनलाभे शस्त्रकोपश्च रक्ते कनकनिकषगौरे व्याधयो दैत्यपूज्ये । हरितकपिलरूपे श्वासकासप्रकोपः पतति न सलिलं खाद् भस्मरूक्षासिताभे ॥४२॥
दधिकुमुदशशांकान्तिभृत् स्फुटविकसत्किरणो बृहत्तनुः । सुगतिः अविकृतो जयान्वितः कृतयुगरूपकरः सिताह्वयः ॥४३॥