संस्कृत सूची|शास्त्रः|ज्योतिष शास्त्रः|वराहमिहीरस्य बृहत्संहिताः|
अध्याय ४०

बृहत्संहिताः - अध्याय ४०

’बृहत्संहिता’ ग्रंथात वास्तुविद्या, भवन निर्माण कला, वायुमंडळाची रचना, वृक्ष आयुर्वेद इ. विषय अंतर्भूत आहेत.


ये येषां द्रव्याणामधिपतयो राशयः समुद्दिष्टाः । मुनिभिः शुभाशुभार्थं तान् आगमतः प्रवक्ष्यामि ॥१॥

वस्त्राविककुतुपानां मसूरगोधूमरालकयवानाम् । स्थलसंभवौषधीनां कनकस्य च कीर्तितो मेषः ॥२॥

गवि वस्त्रकुसुमगोधूमशालियवमहिषसुरभितनयाः स्युः । मिथुनेऽपि धान्यशारदवल्लीशालूककर्पासाः ॥३॥

कर्किणि कोद्रवकदलीदूर्वाफलकन्दपत्रचोचानि । सिंहे तुषधान्यरसाः सिंहादीनां त्वचः सगुडाः ॥४॥

षष्ठेऽतसीकलायाः कुलत्थगोधूममुद्गनिष्पावाः । सप्तमराशौ माषा यवगोधूमाः ससर्षपाश्चैव ( गोधूमाः सर्षपाः सयवाः) ॥५॥

अष्टमराशाविक्षुः सैक्यं लोहानि अजाविकं चापि । नवमे तु तुरगलवणांबरास्त्रतिलधान्यमूलानि ॥६॥

मकरे तरुगुल्माद्यं सैक्यैक्षुसुवर्णकृष्णलोहानि । कुंभे सलिलजफलकुसुमरत्नचित्राणि रूपाणि ॥७॥

मीने कपालसंभवरत्नानि अंबूद्भवानि वज्राणि । स्नेहाश्च नैकरूपा व्याख्याता मत्स्यजातं च ॥८॥

राशेश्चतुर्दशार्थायसप्तनवपंचमस्थितो जीवः । द्व्येकादशदशपंचाष्टमेषु शशिजश्च वृद्धिकरः ॥९॥

षट्सप्तमगो हानिं वृद्धिं शुक्रः करोति शेषेषु । उपचयसंस्थाः क्रूराः शुभदाः शेषेषु हानिकराः ॥१०॥

राशेः यस्य क्रूराः पीडास्थानेषु संस्थिता बलिनः । तत्प्रोक्तद्रव्याणां महार्घता दुर्लभत्वं च ॥११॥

इष्टस्थाने सौम्या बलिनो येषां भवन्ति राशीनाम् । तद्द्रव्याणां वृद्धिः सामर्घ्यं वल्लभत्वं च ( सामर्थयमदुर्लभत्वं च) ॥१२॥

गोचरपीडायामपि राशिः बलिभिः शुभग्रहैः दृष्टः । पीडां न करोति तथा क्रूरैः एवं विपर्यासः ॥१२॥

N/A

References : N/A
Last Updated : January 16, 2012

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP