संस्कृत सूची|शास्त्रः|ज्योतिष शास्त्रः|वराहमिहीरस्य बृहत्संहिताः|
अध्याय २७

बृहत्संहिताः - अध्याय २७

’बृहत्संहिता’ ग्रंथात वास्तुविद्या, भवन निर्माण कला, वायुमंडळाची रचना, वृक्ष आयुर्वेद इ. विषय अंतर्भूत आहेत.


आषाढपौर्णमास्यां तु यद्यैशानोऽनिलो भवेत् । अस्तं गच्छति तीक्ष्णांशौ सस्य संपत्तिरुत्तमा ॥१॥

पूर्वः पूर्वसमुद्रवीचिशिखरप्रस्फालनाघूर्णितश् । चन्द्रार्कांशुसटाकलापकलितो वायुः यदाकाशतः । नैकान्तस्थितनीलमेघपटला शारद्यसंवर्धिता । वासन्तौत्कटसस्यमण्डिततला सर्वा मही शोभते ॥२॥

( सटाभिघातकलितो) ( पटलां) ( संवर्धितां) ( तलां विद्यात् तदा मेदिनीं)

यदा वह्नौ वायुः वहति गगने खण्डिततनुः । प्लवत्यस्मिन् योगे भगवति पतंगे प्रवसति । तदा नित्योद्दीप्ता ज्वलनशिखरालिंगिततला । स्वगात्रौच्छ्वासैः वमति वसुधा भस्मनिकरम् ॥३॥

( अग्नेयो) ( मलयशिखरास्फालनपटुः) ( उष्मोच्छासैः)

तालीपत्रलतावितानतरुभिः शाखामृगान्नर्तयन् । योगेऽस्मिन् प्लवति ध्वनिः सपरुषो वायुः यदा दक्षिणः । तद्वद् योगसमुत्थितः तु गजवत्तालांकुशैः घट्टिताः । कीनाशा इव मन्दवारिकणिका मुंचन्ति मेघाः तदा ॥४॥ ( ध्वनन्सुपरुषो) ( सर्वोद्योगसमुन्नताश्च) ( कणिकान्)

सूक्ष्मैलालवलीलवंगनिचयान् व्याघूर्णयन् सागरे । भानोः अस्तमये प्लवत्यविरतो वायुः यदा नैरृतः । क्षुत्तृष्णावृत मानुषास्थिशकलप्रस्तारभारच्छदा । मत्ता प्रेतवधूरिवोग्रचपला भूमिः तदा लक्ष्यते ॥५॥

( तृष्णामृत)

यदा रेणूत्पातैः प्रविचलसटाटोपचपलः । प्रवातः पश्चागेद् दिनकरकरापातसमये । तदा सस्योपेता प्रवरनिकराबद्धसमरा । क्षितिः स्थानस्थानेष्व अविरतवसामांसरुधिरा ॥६॥ ( प्रविकटसटाटोपचपलः) ( पश्चार्धे) ( प्रवरनृव्राबद्धसमरा) ( धरा स्थाने स्थानेष्व्)

आषाढीपर्वकाले यदि किरणपतेः अस्तकालोपपत्तौ । वायव्यो वृद्धवेगः पवनघनवपुः पन्नगार्द्धानुकारि । जानीयाद् वारिधाराप्रमुदितमुदितामुक्त मण्डूककण्ठां । सस्यौद्भासएकचिह्नां सुखबहुलतया भाग्यसेनामिवौर्वीम् ॥७॥ ( प्लवति धनरिपुः पन्नगादानुकारी) ( मुदितां मुक्त)

मेरुग्रस्तमरीचिमण्डलतले ग्रीष्मावसाने रवौ । वात्यामोदिकदंबगन्धसुरभिः वायुः यदा चोत्तरः । विद्युद्भ्रान्तिसमस्तकान्तिकलना मत्ताः तदा तोयदा । उन्मत्ता इव नष्टचन्द्रकिरणां गां पूरयन्त्यंबुभिः ॥८॥

वृत्तायामाषाढ्यां कृष्णचतुर्थ्यामजैकपादर्क्षे ( ऐशानो यदि शीतलोऽमरगणैः संसेव्यमानो भवेत्) । यदि वर्षति पर्जन्यः प्रावृत् शस्ता न चेन् न तदा ( पुन्नागागुरुपारिजातसुरभिर्वायुः प्रचण्डध्वनिः ॥९॥

नष्टचन्द्रार्ककिरनं नष्टतारं न चेन् नभः ( आपूर्णोदकयौवना वसुमती संपन्नसस्याकुला) । न तां भद्रपदां मन्ये यत्र देवो न वर्षति ॥१०॥( धर्मिष्ठाः प्रणतारयो नृपतयो रक्षन्ति वर्णां तदा)

N/A

References : N/A
Last Updated : January 16, 2012

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP