दैवज्ञेन शुभाशुभं दिगुदितस्थानहृतानीक्षता वाच्यं प्रष्टृनिजापरांगघटनां चालोक्य कालं धिया । सर्वज्ञो हि चराचरात्मकतया असौ सर्वदर्शो विभुश् चेष्टाव्याहृतिभिः शुभाशुभफलं सन्दर्शयत्यर्थिनाम् ॥१॥
स्थानं पुष्पसुहासिभूरिफलभृत्सुस्निग्धकृत्तिच्छद् सत्पक्षिच्युतशस्तसंज्ञिततरुच्छायौपगूढं समम् । देवऋषिद्विजसाधुसिद्धनिलयं सत्पुष्पसस्यौक्षितम् सत्स्वादूदकनिर्मलत्वजनिताह्लादं च सच्छाद्वलं ( सच्छाड्वलं) ॥२॥
छिन्नभिन्नकृमिखातकण्टकिप्लुष्टरूक्षकुटिलैः न सत् कुजैः । क्रूरपक्षियुतनिन्द्यनामभिः शुष्कशीर्णबहुपर्णचर्मभिः ( वर्मभिः) ॥३॥
श्मशानशून्यायतनं चतुष्पथं तथा अमनोज्ञं विषमं सदोषरम् । अवस्करांगारकपालभस्मभिश् चितं तुषैः शुष्कतृणैः नशोभनम् ॥४॥
प्रव्रजितनग्ननापितरिपुबन्धनसौनिकैः ( सूनिकैः) तथा श्वपचैः । कितवयतिपीडितैः युतमायुधमाध्वीकविक्रयैः न शुभम् ॥५॥
( दिक्काललक्षण) प्रागुत्तरेशाश्च दिशः प्रशस्ताः प्रष्टुः न वाय्वंबुयमाग्निरक्षः । पूर्वाह्नकालेऽस्ति शुभं न रात्रौ सन्ध्याद्वये प्रश्नकृतोऽपराह्णे ॥६॥
यात्राविधाने हि शुभाशुभं यत् प्रोक्तं निमित्तं तदिहापि वाच्यम् । दृष्ट्वा पुरो वा जनताहृतं वा प्रष्टुः स्थितं पाणितलेऽथ वस्त्रे ॥७॥
( पुंसंज्ञकानि) अथांगानि ऊरू ओष्ठस्तनवृषणपादं च दशना भुजौ हस्तौ गण्डौ कचगलनखांगुष्ठमपि यत् । सशंखं कक्षांसं श्रवण ( लल्षा सश्रवंअ) गुदसन्धीति पुरुषे ( स्त्रीसंज्ञकानि) स्त्रियां भ्रूनासास्फिग्वलिकटिसुलेखांगुलिचयम् ॥८॥
जिह्वा ग्रीवा पिण्डिके पार्ष्णियुग्मं जंघे नाभिः कर्णपाली कृकाटी । ( नपुंसक) वक्त्रं पृष्ठं जत्रुजानुअस्थिपार्श्वं हृत्तालुअक्षी मेहनौरस्त्रिकं च ॥९॥
नपुंसकाख्यं च शिरो ललाटमाश्वाद्यसंज्ञैः अपरैश्चिरेण । सिद्धिः भवेज्जातु नपुंसकैः नो रूक्षक्षतैः भग्नकृशैश्च पूर्वैः ॥१०॥
स्पृष्टे वा चालिते वापि पादांगुष्ठेऽक्षिरुग् भवेत् । अंगुल्यां दुहितुः शोकं शिरोघाते नृपाद् भयम् ॥११॥
विप्रयोगमुरसि स्वगात्रतः कर्पटाहृतिः अनर्थदा भवेत् । स्यात् प्रियाप्तिः अभिगृह्य कर्पटं पृच्छतश्चरणपादयोजितुः ॥१२॥
पादांगुष्ठेन विलिखेद् भूमिं क्षेत्रौत्थचिन्तया । हस्तेन पादौ कण्डूयेत् तस्य दासीमयी ( दासीमया) च सा ॥१३॥
तालभूर्जपटदर्शनेऽशुकं चिन्तयेत् कचतुषास्थिभस्मगम् । व्याधिः आश्रयति रज्जुजालकं वल्कलं च समवेक्ष्य बन्धनम् ॥१४॥
पिप्पलीमरिचशुण्ठिवारिदै रोध्रकुष्ठवसनांबुजीरकैः । गन्धमांसिशतपुष्पया वदेत् पृच्छतः तगरकेण चिन्तयेत् ( चिन्तनं) ॥१५॥
स्त्रीपुरुषदोषपीडितसर्वार्थ ( अध्व) सुतार्थधान्न्यतनयानाम् । द्विचतुष्पदक्षितीनां विनाशतः कीर्तितैः दृष्टैः ॥१६॥
न्यग्रोधमधुकतिन्दुकजंबूप्लक्षाम्रबदर ( बदरि) जातिफलैः । धनकनकपुरुषलोहांशुकरूप्याउदुंबराप्तिः ( उदुंबराप्तिः) अपि करगैः ॥१७॥
धान्यपरिपूर्णपात्रं कुंभः पूर्णः कुटुंबवृद्धिकरौ । गजगोशुनां पुरीषं धनयुवतिसुहृद्विनाशकरम् ॥१८॥
पशुहस्तिमहिषपंकजरजतव्याघ्रैः लभेत दन्दृष्टैः । अविधननिवसनमलयजकौशेयाभरणसंघातम् ॥१९॥
पृच्छा वृद्धश्रावकसुपरिव्राड्दर्शने नृभिः विहिता । मित्रद्यूतार्थभवा गणिकानृपसूतिकार्थकृता ॥२०॥
शाक्यौपाध्यायार्हत् ( आर्हत) निर्ग्रन्थि ( निर्ग्रन्थ) निमित्तनिगमकैवर्तैः । चौरचमूपतिवणिजां दासीयोधापणस्थवध्यानाम् ॥२१॥
तापसे शौण्डिके दृष्टे प्रोषितं पशुपालनम् । हृद्गतं प्रच्छकस्य ( पृच्छकस्य) स्यादुंछवृटौ विपन्नता ॥२२॥
इच्छामि प्रष्टुं भण पश्यत्वार्यः समादिशेत्युक्ते ॥॥ संयोगकुटुंबौत्था लाभैश्वर्यौद्गता चिन्ता ॥२३॥
निर्दिशेति गदिते जयाध्वजा ( जयाध्वगा) प्रत्यवेक्ष्य मम चिन्तितं वद । आशु सर्वजनमध्यगं त्वया दृश्यतामिति च बन्धुचौरजा ॥२४॥
( चौरविज्ञान) अन्तःस्थे अंगे स्वजन उदितो बाह्यजे बाह्य एव ( एवं) पादांगुष्ठांगुलिकलनया दासदासीजनः स्यात् । जंघे प्रेष्यो भवति भगिनी नाभितो हृत्स्वभार्या पाण्यंगुष्ठांगुलिचयकृतस्पर्शने पुत्रकन्ये ॥२५॥
मातरं जठरे मूर्ध्नि गुरुं दक्षिणवामकौ । बाहू भ्राता अथ तत्पत्नी स्पृष्ट्वैवं चौरमादिशेत् ॥२६॥
( अपहृतस्य लाभ) अन्तरंगमवमुच्य बाह्यगस्पर्शनं यदि करोति पृच्छकः । श्लेष्ममूत्रशकृतः त्यजन्त्यथो ( त्यजन्नधः) पातयेत् करतलस्थवस्तु चेत् ॥२७॥
भृशमवनामितांगपरिमोटनतोऽपि अथवा जनधृतरिक्तभाण्डमवलोक्य च चौरजनम् । हृतपतितक्षतास्मृतविनष्टभग्नगत उन्मुषितमृताद्यनिष्टरवतो लभते न हृतम् ॥२८॥
( पीडार्तानां मरण) निगदितमिदं यत्तत् सर्वं तुषास्थिविषादिकैः सह मृतिकरं पीडार्तानां समं रुदितक्षतैः ( क्षुतैः) । ( भोजनज्ञान) अवयवमपि स्पृष्ट्वा अन्तःस्थं दृढं मरुदाहरेद् अतिबहु तदा भुक्त्वा अन्नं संस्थितः सुहितो वदेत् ॥२९॥
ललाटस्पर्शनात्शूकदर्शनात्शालिजौदनम् । उरःस्पर्शात् षष्टिक आख्यं ( अन्नं) ग्रीवास्पर्शे च यावकम् ॥३०॥
कुक्षिकुचजठरजानुस्पर्शे माषाः पयस्तिलयवाग्वः । आस्वादयते ( आस्वादयतः) चओष्ठौ लिहते मधुरं रसं ज्ञेयम् ॥३१॥
विसृक्के ( विस्पृक्के) स्फोटयेज्जिह्वामाम्ले वक्त्रं विकूणयेत् । कटुकेऽथ कषायेऽथ ( कटुतिक्तकषायोष्णैः) हिक्केत् ष्ठीवेग सेन्धवे ॥३२॥
श्लेष्मत्यागे शुष्कतिक्तं तदल्पं श्रुत्वा क्रव्यादं वा प्रेक्ष्य वा मांसमिश्रम् । भ्रूगण्डओष्ठस्पर्शने शाकुनं तद् भुक्तं तेनेत्युक्तमेतन् निमित्तम् ॥३३॥
मूर्धगलकेशहनुशंखकर्णजंघं वस्तिं च स्पृष्ट्वा । गजमहिषमेषशूकरगोशशमृगमहिष मांसयुग् भुक्तम् ॥३४॥
द्षृटे श्रुतेऽपु अशकुने गोधामत्स्यामिषं वदेद् भुक्तम् । गर्भिण्या गर्भस्य च निपतनमेवं प्रकल्पयेत् प्रश्ने ॥३५॥
( गर्भिण्या जन्म) पुंस्त्रीनपुंसकाख्ये दृष्टेऽनुमिते पुरःस्थिते स्पृष्टे । तज्जन्म भवति पानान्नपुष्पफलदर्शने च शुभम् ॥३६॥
अंगुष्ठेन भ्रूदरं वांगुलिं वा स्पृष्ट्वा पृच्छेद् गर्भचिन्ता तदा स्यात् । मध आज्याद्यैः हेमरत्नप्रवालैः अग्रस्थैः वा मातृधात्र्यात्मजैश्च ॥३७॥
गर्भयुता जठरे करगे स्याद् दुष्टनिमित्तवशात् तदुदासः । कर्षति तज्जठरं यदि पीठ उत्पीडनतं करगे च करेऽपि ॥३८॥
घ्राणाया दक्षिणे द्वारे स्पृष्टे मासोत्तरं वदेत् । वामेऽब्दौ ( द्वौ) कर्ण एवं मा द्विचतुर्घ्नः श्रुतिस्तने ॥३९॥
वेणीमूले त्रीन् सुतान् कन्यके द्वे कर्णे पुत्रान् पंच हस्ते त्रयं च । अंगुष्ठान्ते पंचकं चानुपूर्व्या पादांगुष्ठे पार्ष्णियुग्मेऽपि कन्याम् ॥४०॥
सव्यासव्य ऊरुसंस्पर्शे सूते कन्यासुतद्वयम् । स्पृष्टे ललाटमध्यान्ते चतुस्त्रितनया भवेत् ॥४१॥
शिरोललाटभ्रूकर्णगण्डं हनुरदा गलम् सव्यापसव्यस्कन्धश्च हस्तौ चिबुकनालकम् ॥४२॥
( गर्भिण्याः कस्मिन् नक्षत्रे जन्तुः जन्म) उरः कुचं दक्षिणमपि असव्यं हृत्पार्श्वमेवं जठरं कटिश्च । स्फिक्पायुसन्धि ऊरुयुगं च जानू जंघेऽथ पादाविति कृत्तिकादौ ॥४३॥
इति निगदितमेतद् गात्रसंस्पर्शलक्ष्म प्रकटमभिमताप्त्यै वीक्ष्य शास्त्राणि सम्यक् । विपुलमतिरुदारो वेत्ति यः सर्वमेतन् नरपतिजनताभिः पूज्यतेऽसौ सदैव ॥४४॥