नित्यमधःस्थस्येन्दोः भाभिः भानोः सितं भवत्यर्धम् । स्वच्छायया अन्यदसितं कुंभस्यैव आतपस्थस्य ॥१॥
सलिलमये शशिनि रवेः दीधितयो मूर्छिताः तमो नैशम् । क्षपयन्ति दर्पणौदरनिहिता ( निहता) इव मन्दिरस्यान्तः ॥२॥
त्यजतोऽर्कतलं शशिनः पश्चादवलंबते यथा शौक्ल्यम् । दिनकरवशात् तथा इन्दोः प्रकाशतेऽधः प्रभृत्युदयः ॥३॥
प्रतिदिवसमेवमर्कात् स्थानविशेषेण शौक्ल्यपरिवृद्धिः । भवति शशिनोऽपराह्णे पश्चाद् भागे घटस्यैव ॥४॥
एन्द्रस्य शीतकिरणो मूलाषाढाद्वयस्य चायातः ( वा यातः) । याम्येन वीजजलचरकाननहा वह्निभयदश्च ॥५॥
दक्षिणपार्श्वेन गतः शशी विशाखा अनुराधयोः पापः । मध्येन तु प्रशस्तः पितृदेव ( पित्र्यस्य) विशाखयोश्चापि ॥६॥
षड् अनागतानि पौष्णाद् द्वादश रौद्राग मध्ययोगीनि । ज्येष्ठाद्यानि नवर्क्षाणि उडुपतिना अतीत्य युज्यन्ते ॥७॥
उन्नतमीषच्छृंगं नौसंस्थाने विशालता चौक्ता । नाविकपीडा तस्मिन् भवति शिवं सर्वलोकस्य ॥८॥
अर्द्धोन्नते च लांगलमिति पीडा तदुपजीविनां तस्मिन् । प्रीतिश्च निर्निमित्तं मनुजपतीनां सुभिक्षं च ॥९॥
दक्षिणविषाणमर्धोन्नतं यदा दुष्टलांगलाख्यं तत् । पाण्ड्यनरेश्वरनिधनकृदुद्योगकरं बलानाम् च ॥१०॥
समशशिनि सुभिक्षक्षेमवृष्टयः प्रथमदिवससदृशाः स्युः । दण्डवदुदिते पीडा गवां नृपश्चौग्रदण्डोऽत्र ॥११॥
कार्मुकरूपे युद्धानि यत्र तु ज्या ततो जयः तेषाम् । स्थानं युगमिति याम्योत्तरायतं भूमिकंपाय ॥१२॥
युगमेव याम्यकोट्यां किंचित् तुंगं स पार्श्वशायीइति विनिहन्ति सार्थवाहान् वृष्टेश्च विनिग्रहं कुर्यात् ॥१३॥
अभ्युच्छ्रायादेकं यदि शशिनोऽवान्मुखं भवेत्छृंगम् । आवर्जितमित्यसुभिक्षकारि तद् गोधनस्यापि ॥१४॥
अव्युच्छिन्ना रेखा समन्ततो मण्डला च कुण्डाख्यम् । अस्मिन् माण्डलिकानां स्थानत्यागो नरपतीनाम् ॥१५॥
प्रोक्तस्थानाभावादुदगुच्चः क्षेमवृद्धिवृष्टिकरः । दक्षिणतुंगश्चन्द्रो दुर्भिक्षभयाय निर्दिष्टः ॥१६॥
शृंगेणएकेनेन्दुः ( इन्दुं) विलीनमथवाप्यवान्मुखं शृंगं ( अशृग्गं) । संपूर्णं चाभिनवं दृष्ट्वा एको जीविताद् भ्रश्येत् ॥१७॥
संस्थानविधिः कथितो रूपाणि अस्माद् भवन्ति चन्द्रमसः । स्वल्पो दुर्भिक्षकरो महान् सुभिक्षावहः प्रोक्तः ॥१८॥
मध्यतनुः वज्राख्यः क्षुद्भयदः संभ्रमाय राज्ञां च । चन्द्रो मृदंगरूपः क्षेमसुभिक्षावहो भवति ॥१९॥
ज्ञेयो विशालमूर्तिः नरपतिलक्ष्मीविवृद्धये चन्द्रः । स्थूलः सुभिक्षकारी प्रियधान्यकरः तु तनुमूर्तिः ॥२०॥
प्रत्यन्तान् कुनृपांश्च हन्त्युडुपतिः शृंगे कुजेन आहते । शस्त्रक्षुद्भयकृद् यमेन शशिजेनावृष्टिदुर्भिक्षकृत् ।
श्रेष्ठान् हन्ति नृपान् महेन्द्रगुरुणा शुक्रेण चाल्पान् नृपान् । शुक्ले याप्यमिदं फलम् ग्रहकृतं कृष्णे यथोक्तागमम् ।
भिन्नः सितेन मगधान् यवनान् पुलिन्दान् नेपालभृंगिमरुकच्छ ( मरुकुच्च) सुराष्ट्रमद्रान् ।
पांचालकैकयकुलूतकपुरुषादान् हन्यादुशीनरजनान् अपि सप्त मासान् ॥२१॥
गान्धारसौवीरकसिन्धुकीरान् धान्यानि शैलान् द्रविदाधिपांश्च । द्विजांश्च मासान् दश शीतरश्मिः सन्तापयेद् वाक्पतिना विभिन्नः ॥२२॥
उद्युक्तान् सह वाहनैः नरपतीं त्रैगर्तकान् मालवान् कौलिन्दान् गणपुंगवान् अथ शिबीनायोध्यकान् पार्थिवान् ।
हन्यात् कौरवमत्स्यशुक्त्यधिपतीन् राजन्यमुख्यान् अपि प्रालेयांशुरसृग्ग्रहे तनुगते षण्मासमर्यादया ॥२३॥
यौधेयान् सचिवान् सकौरवान् प्रागीशान् अथ चार्जुनायनान् । हन्यादर्कजभिन्नमण्डलः शीतांशुः दशमासपीडया ॥२४॥
मगधान् मथुरां च पीडयेद् वेणायाश्च तटं शशांकजः । अपरत्र कृतं युगं वदेद् यदि भित्त्वा शशिनं विनिर्गतः ॥२५॥
क्षेमारोग्यसुभिक्षनिनाशी शीतांशुः शिखिना यदि भिन्नः । कुर्यादायुधजीविविनाशं चौराणामधिकेन च पीडाम् ॥२६॥
उल्कया यदा शशी ग्रस्त एव हन्यते । हन्यते तदा नृपो यस्य जन्मनि स्थितः ॥२७॥
भस्मनिभः परुषोऽरुणमूर्तिः शीतकरः किरणैः परिहीणः । श्यावतनुः स्फुटितः स्फुरणो वा क्षुड्डमरा ( क्षुड्समरा) मयचौरभयाय ॥२८॥
प्रालेयकुन्दकुमुदस्फटिकावदातो यत्नादिवाद्रिसुतया परिमृज्य चन्द्रः । उच्चैः कृतो निशि भविष्यति मे शिवाय यो दृश्यते स भविता जगतः शिवाय ॥२९॥
शुक्ले पक्षे संप्रवृद्धे प्रवृद्धिं ब्रह्मक्षत्रं याति वृद्धिं प्रजाश्च । हीने हानिः तुल्यता तुल्यतायां कृष्णे सर्वे तत्फलं व्यत्ययेन ॥३०॥
यदि कुमुदमृणालहारगौरः तिथिनियमात् क्षयमेति वर्द्धते वा । अविकृतगतिमण्डलांशुयोगी भवति नृणां विजयाय शीतरश्मिः ॥३१॥