रजोलक्षणं
कथयन्ति पार्थिववधं रजसा घनतिमिरसञ्चयनिभेन । अविभाव्यमानगिरिपुरतरवः सर्वा दिशश्छन्नाः ॥१॥
यस्याम् दिशि धूमचयः प्राक् प्रभवति नाशमेति वा यस्याम् । आगच्छति सप्ताहात् तत्र एव भयं न सन्देहः ॥२॥
श्वेते रजोघनौघे पीडा स्यान् मन्त्रिजनपदानां च । नचिरात् प्रकोपमुपयाति शस्त्रमतिसग़्कुला सिद्धिः ॥३॥
अर्कोदये विजृंभति यदि दिनमेकं दिनद्वयं वापि । स्थगयन्न् इव गगनतलं भयमत्युग्रं निवेदयति ॥४॥
अनवरतसञ्चयवहं रजनीमेकां प्रधाननृपहन्तृ । क्षेमाय च शेषाणां विचक्षणानां नरेन्द्राणाम् ॥५॥
रजनीद्वयं विसर्पति यस्मिन् राष्ट्रे रजोघनं बहुलम् । परचक्रस्य आगमनं तस्मिन्न् अपि सन्निबोद्धव्यम् ॥६॥
निपतति रजनीत्रितयं चतुष्कमपि अन्नरसविनाशाय । राज्ञां सैन्यक्षोभो रजसि भवेत् पञ्चरात्रभवे ॥७॥
केत्वाद्युदयविमुक्तं यदा रजो भवति तीव्रभयदायि । शिशिरादन्यत्रर्तौ फलमविकलमाहु आचार्याः ॥८॥
निर्घातलक्षणाध्यायः
पवनः पवनाभिहतो गगनादवनौ यदा समापतति । भवति तदा निर्घातः स च पापो दीप्तविहगरुतः ॥१॥
अर्कोदयेऽधिकरणिकनृपधनियोधांगनावणिग्वेश्याः । आप्रहरांशेऽजाविकमुपहन्यात्शूद्रपौरांश्च ॥२॥
आमध्याह्नाद् राजोपसेविनो ब्राह्मणांश्च पीडयति । वैश्यजलदां तृतीये चौरान् प्रहरे चतुर्थे तु ॥३॥
अस्तं याते नीचान् प्रथमे यामे निहन्ति सस्यानि । रात्रौ द्वितीययामे पिशाचसंघान् निपीडयति ॥४॥
तुरगकरिणः तृतीये विनिहन्याद् यायिनश्चतुर्थे च । भैरवजर्जरशब्दो याति यतः तां दिशं हन्ति ॥५॥