वृश्चिकवृषप्रवेशे भानोः ये बादरायणेनोक्ताः । ग्रीष्मशरत्सस्यानां सदसद्योगाः कृताः त इमे ॥१॥
भानोः अलिप्रवेशे केन्द्रैः तस्मात्शुभग्रहाक्रान्तैः । बलवद्भिः सौम्यैः वा निरीक्षिते ( निरीक्षितैः) ग्रैष्मिकविवृद्धिः ॥२॥
अष्टमराशिगतेऽर्के गुरुशशिनोः कुंभसिंहसंस्थितयोः ( स्थितयोः) । सिंहघटसंस्थयोः वा निष्पत्तिः ग्रीष्मसस्यस्य ॥३॥
अर्कात् सिते द्वितीये बुधेऽथवा युगपदेव वा स्थितयोः । व्ययगतयोः अपि तद्वन् निष्पत्तिः अतीव गुरुदृष्ट्या ॥४॥
शुभमध्येऽलिनि सूर्याद् गुरुशशिनोः सप्तमे परा संपत् । अल्यादिस्थे सवितरि गुरौ द्वितीयेऽर्धनिष्पत्तिः ॥५॥
लाभहिबुकार्थयुक्तैः सूर्यादलिगात् सितेन्दुशशिपुत्रैः । सस्यस्य परा संपत् कर्मणि जीवे गवां चाग्र्या ॥६॥
कुंभे गुरुः गवि शशी सूर्योऽलिमुखे कुजार्कजौ मकरे । निष्पत्तिः अस्ति महती पश्चात् परचक्रभयरोगम् ॥७॥
मध्ये पापग्रहयोः सूर्यः सस्यं विनाशयत्यलिगः । पापः सप्तमराशौ जातं जातं विनाशयति ॥८॥
अर्थस्थाने क्रूरः सौम्यैः अनिरीक्षितः प्रथमजातम् । सस्यं निहन्ति पश्चादुप्तं निष्पादयेद् व्यक्तम् ॥९॥
जामित्रकेन्द्रसंस्थौ क्रूरौ सूर्यस्य वृश्चिकस्थस्य । सस्यविपत्तिं कुरुतः सौम्यैः दृष्टौ न सर्वत्र ॥१०॥
वृश्चिकसंस्थादर्कात् सप्तमषष्ठौपगौ यदा क्रूरौ । भवति तदा निष्पत्तिः सस्यानामर्घपरिहानिः ॥११॥
विधिनानेनैव रविः वृषप्रवेशे शरत्समुत्थानाम् । विज्ञेयः सस्यानां नाशाय शिवाय वा तज्ञैः ॥१२॥
त्रिषु मेषादिषु सूर्यः सौम्ययुतो वीक्षितोऽपि वा विचरन् । ग्रैष्मिक ( ग्रष्मिक) धान्यं कुरुते समर्घं ( समर्थं) अभयौपयोग्यं च ॥१३॥
कार्मुकमृगघटसंस्थः शारदसस्यस्य ( शारदस्य) तद्वदेव रविः । संग्रहकाले ज्ञेयो विपर्ययः क्रूरदृग्योगात् ( यागात्) ॥१४॥