जये धरित्र्याः पुरमेव सारं पुरे गृहं सद्मनि चएकदेशः । तत्रापि शय्या शयने वरा स्त्री रत्नोज्ज्वला राज्यसुखस्य सारः ॥१॥
रत्नानि विभूषयन्ति योषा भूष्यन्ते वनिता न रत्नकान्त्या । चेतो विनता हरनि अरत्ना नो रत्नानि विनांगनांगसंगं ( संगात्) ॥२॥
आकारं विनिगूहतां रिपुबलं जेतुं समुत्तिष्ठतां तन्त्रं चिन्तयतां कृताकृतशतव्यापारशाखाकुलम् । मन्त्रिप्रोक्तनिषेविणां ( निसेविणाम्, निषेविनां) क्षितिभुजामाशंकिनां सर्वतो धुःखांभोनिधिवर्तिनां सुखलवः कान्तासमालिंगनम् ॥३॥
श्रुतं दृष्टं स्पृष्तं स्मृतमपि नृणां ह्लादजननं न रत्नं स्त्रीभ्योऽन्यत् क्वचिदपि कृतं लोकपतिना । तदर्थं धर्मार्थौ सुतविषयसौख्यानि च ततो गृहे लक्ष्म्यो मान्याः सततमबला मानविभवैः ॥४॥
येऽपि अंगनानां प्रवदन्ति दोषान् वैराग्यमार्गेण गुणान् विहाय । ते दुर्जना मे मनसो वितर्कः सद्भाववाक्यानि न तानि तेषाम् ॥५॥
प्रब्रूत सत्यं करतो अंगनानां दोषोऽस्ति यो नाचरितो मनुष्यैः । धार्ष्ट्येन पुंभिः प्रमदा निरस्ता गुणाधिकाः ता मनुनात्र चोक्तम् ॥६॥
सोमः तासामदात्शौचं गन्धर्वः ( गन्धर्वाः) शिक्षितां गिरम् । अग्निश्च सर्वभक्षित्वं तस्मान् निष्कसमाः स्त्रियः ॥७॥
ब्राह्मणाः पादतो मेध्या गावो मेध्याश्च पृष्ठतः । अजाश्वा मुखतो मेध्याः स्त्रियो मेध्याश्तु सर्वतः ॥८॥
स्त्रियः पवित्रमतुलं नैता दुष्यन्ति कर्हिचित् । मासि मासि रजो ह्यासां दुष्कृतानि अपकर्षति ॥९॥
जामयो यान्ति गेहानि शपन्त्यप्रतिपूजिताः । तानि कृत्याहतानीव विनश्यन्ति समन्ततः ॥१०॥
जाया वा स्याज्जनित्री वा संभवः स्त्रीकृतो नृणाम् । हे कृतघ्नाश्तयोः निन्दां कुर्वतां वः कुतः शुभम् ॥११॥
दंपत्योः व्युत्क्रमे दोषः समः शास्त्रे प्रतिष्ठितः । नरा न समवेक्षन्ते तेनात्र वरमंगनाः ॥१२॥
बहिः लोम्ना तु षण्मासान् वेष्टितः खरचर्मणा । दारातिक्रमणे भिक्षां देहीत्युक्त्वा विशुध्यति ॥१३॥
न शतेनापि वर्षाणामपैति मदनाशयः । तत्र अशक्त्या निर्वर्तन्ते नरा धैर्येण योषितः ॥१४॥
अहो धार्ष्ट्यमसाधूनां निन्दतामनघाः स्त्रियः । मुष्णतामिव चौराणां तिष्ठ चौरेति जल्पताम् ॥१५॥
पुरुषश्चटुलानि कामिनीनां कुरुते यानि रहो न तानि पश्चात् । सुकृतज्ञतया अंगना गतासून् अवगूह्य प्रविशन्ति सप्तजिह्वम् ॥१६॥
स्त्रीरत्नभोगोऽस्ति नरस्य यस्य निःस्वोऽपि सांप्रत्यवनीस्वरो ( स्वं प्रत्यवनीस्वरो, मां प्रत्यव) ऽसौ । राज्यस्य सारोऽशनमंगनाश्च तृष्णानलोद्दीपनदारु शेषम् ॥१७॥
कामिनीं प्रथमयौवनान्वितां मन्दवल्गुमृदुपीडितस्वनाम् । उत्स्तनीं समवलंब्य या रतिः सा न धातृभवनेऽस्ति मे मतिः ॥१८॥
तत्र देवमुनिसिद्धचारणैः मान्यमानपितृसेव्यसेवनात् । ब्रूत धातृभवनेऽस्ति किं सुखं यद् रहः समवलंब्य न स्त्रियम् ॥१९॥
आब्रह्मकीटान्तमिदं निबद्धं पुंस्त्रीप्रयोगेण जगत् समस्तम् । व्रीडा अत्र का यत्र चतुर्मुखत्वम् ईशोऽपि लोभाद् गमितो युवत्याः ॥२०॥