दाहो दिशां राजभयाय पीतो देशस्य नाशाय हुताशवर्णः । यश्चारुणः स्यादपसव्यवायुः सस्यस्य नाशं स करोति दृष्टः ॥१॥
योऽतीव दीप्त्या कुरुते प्रकाशं छायामपि व्यञ्जयतेऽर्कवद् यः । राज्ञो महद् वेदयते भयं स शस्त्रप्रकोपं क्षतजानुरूपः ॥२॥
प्राक् क्षत्रियाणां सनरेश्वराणां प्राग् दक्षिणे शिल्पिकुमारपीडा । याम्ये सहोग्रैः पुरुषैः तु वैश्या दूताः पुनः भूप्रमदाश्च कोणे ॥३॥
पश्चात् तु शूद्राः कृषिजीविनश्च चौराः तुरंगैः सह वायुदिक्स्थे पीडां व्रजन्त्युत्तरतश्च विप्राः पाखण्डिनो ( पाषण्डिनो) वाणिजकाश्च शार्व्याम् ॥४॥
नभः प्रसन्नं विमलानि भानि प्रदक्षिणं वाति सदागतिश्च । दिशां च दाहः कनकावदातो हिताय लोकस्य सपार्थिवस्य ॥५॥