अन्नं जगतः प्राणाः प्रावृट्कालस्य चान्नमायत्तम् । यस्मादतः परीक्ष्यः प्रावृट्कालः प्रयत्नेन ॥१॥
तल्लक्षणानि मुनिभिः यानि निबद्धानि तानि दृष्ट्वा इदम् । क्रियते गर्गपराशरकाश्यपवज्रादि रचितानि ॥२॥ ( वात्स्यादि)
दैवविदविहितचित्तो द्युनिशं यो गर्भलक्षणे भवति । तस्य मुनेः इव वाणी न भवति मिथ्यांबुनिर्देशे ॥३॥
किं वातः परमन्यत्शास्त्रज्यायो ऽस्ति यद् विदित्वा एव । प्रध्वंसिनि अपि काले त्रिकालदर्शी कलौ भवति ॥४॥ ( शास्त्रं ज्यायो)
केचिद् वदन्ति कार्तिक शुक्लान्तमतीत्य गर्भदिवसाः स्युः । न च तन्मतं बहूनां गर्गादीनां मतं वक्ष्ये ॥५॥ ( कार्त्तिक) ( तु)
मार्गशिरःसितपक्षप्रतिपत्प्रभृति क्षपाकरेऽषाढाम् । पूर्वां वा समुपगते गर्भाणां लक्षणम् ज्ञेयम् ॥६॥ ( मार्गशिरशुक्ल)
यन्नक्षत्रमुपगते गर्भश्चन्द्रे भवेत् स चन्द्रवशात् । पंचनवते दिनशते तत्रैव प्रसवमायाति ॥७॥
सितपक्षभवाः कृष्णे शुक्ले कृष्णा द्युसंभवा रात्रौ । नक्तंप्रभवाश्चाहनि सन्ध्याजाताश्च सन्ध्यायाम् ॥८॥
मृगशीर्षाद्या गर्भा मन्दफलाः पौषशुक्लजाताश्च । पौषस्य कृष्णपक्षेण निर्दिशेत्श्रावणस्य सितम् ॥९॥
माघसितोत्था गर्भाः श्रावणकृष्णे प्रसूतिमायान्ति । माघस्य कृष्णपक्षेण निर्दिशेद् भाद्रपदशुक्लम् ॥१०॥
फाल्गुनशुक्लसमुत्था भाद्रपदस्यासिते विनिर्देश्याः । तस्यैव कृष्णपक्षोद्भवाः तु ये तेऽश्वयुक्षुक्ले ॥११॥
चैत्रसितपक्षजाताः कृष्णेऽश्वयुजस्य वारिदा गर्भाः । चैत्रासितसंभूताः कार्तिकशुक्ले ( कार्त्तिकशुक्ले) ऽभिवर्षन्ति ॥१२॥
पूर्वोद्भूताः पश्चादपरोत्थाः प्राग् भवन्ति जीमूताः । शेषास्वपि दिक्ष्वेवं विपर्ययो भवति वायोश्च ॥१३॥
ह्लादिमृदूदक्षिवशक्रदिग्भवो मारुतो वियद्विमलम् । स्निग्धसितबहुलपरिवेषपरिवृतौ हिममयखार्कौ ॥१४॥ ( मयूखार्कौ)
पृथुबहुलस्निग्धघनं घनसूचीक्षुरकलोहिताभ्रयुतम् । काकाण्डमेचकाभं वियद्विशुद्धेन्दुनक्षत्रम् ॥१५॥
सुरचापमन्द्रगर्जितविद्युत्प्रतिसूर्यकाशुभा सन्ध्या । शशिशिवशक्राशास्थाः शान्तरवाः पक्षिमृगसंघाः ॥१६॥ ( सूर्यकाः)
विपुलाः प्रदक्षिणचराः स्निग्धमयूखा ग्रहा निरुपसर्गाः । तरवश्च निरुपसृष्टांकुरा नरचतुष्पदा हृष्टाः ॥१७॥
गर्भाणां पुष्टिकराः सर्वेषामेव योऽत्र तु विशेषः । स्वर्तुस्वभावजनितो गर्भविवृद्ध्यै तमभिधास्ये ॥१८॥ ( विवृद्धौ)
पौषे समार्गशीर्षे सन्ध्यारागोऽबुदाः सपरिवेषाः । नात्यर्थं मृगशीर्षे शीतं पौषेऽतिहिमपातः ॥१९॥
माघे प्रबलो वायुः तुषारकलुषद्युती रविशशांकौ । अतिशीतं सघनस्य च भानोः अस्तोदयौ धन्यौ ॥२०॥
फाल्गुनमासे रूक्षश्चण्डः पवनोऽभ्रसंप्लवाः स्निग्धाः । परिवेषाश्चासकलाः कपिलः ताम्रो रविश्च शुभः ॥२१॥
पवनघनवृष्टियुक्ताश्चैत्रे गर्भाः शुभाः सपरिवेषाः । घनपवनसलिलविद्युत्स्तनितैश्च हिताय वैशाखे ॥२२॥
मुक्तारजतनिकाशास्तमालनीलोत्पलाञ्जनाभासः । जलचरसत्त्वाकारा ग्रभेषु घनाः प्रभूतजलाः ॥२३॥
तीव्रदिवाकरकिरणाभितापिता मन्दमारुता जलदाः । रुषिता इव धाराभिः विसृजन्त्यंभः प्रस्वकाले ॥२४॥
गर्भौपघातलिंगानि उल्काशनिपांशुपातदिग्दाहः । क्षितिकंपखपुरकीलककेतुग्रहयुद्धनिर्घाताः ॥२५॥
रुधिरादिवृष्टिवैकृतपरिघेन्द्रधनूंषि दर्शनं राहोः । इत्युत्पातैः एतैः त्रिविधैश्चान्यैः हतो गर्भः ॥२६॥
स्वर्तुस्वभावजनितैः सामान्यैः यैश्च लक्षणैः वृद्धिः । गर्भाणाम् विपरीतैः तैः एव विपर्ययो भवति ॥२७॥
भद्रपदाद्वयविश्वांबुदेव पैतामहेष्वथ ऋक्षेषु । सर्वेष्वृतुषु विवृद्धो गर्भो बहुतोयदो भवति ॥२८॥ ( दैव)
शतभिषगाश्लेषार्द्रास्वातिमघासंयुतः शुभो गर्भः । पुष्णाति बहून् दिवसान् हन्त्युत्पातैः हतः त्रिविधैः ॥२९॥
मृगमासादिष्वष्टौ षट् षोडश विंशतिश्चतुर्युक्ता । विंशतिः अथ दिवसत्रयमेकतमऋक्षेण पंचभ्यः ॥३०॥
पंचनिमित्तैः शतयोजनं तदर्धार्धमेकहान्याऽतः । वर्षति पंचनिमित्ताद् रूपेणैकेन यो गर्भः ॥३१॥ ( पंचसमन्ताद्)
द्रोणः पंचनिमित्ते गर्भे त्रीणि आढकानि पवनेन ।षड् विद्युता नवाभ्रैः स्तनितेन द्वादश प्रसवे ॥३२॥
क्रूरग्रहसंयुक्ते करकाशनिमत्स्यवर्षदा गर्भाः । शशिनि रवौ वा शुभसंयुतईक्षिते भूरिवृष्टिकराः ॥३३॥
ग्रभसमयेऽतिवृष्टिः गर्भाभावाय निर्निमित्तकृता । द्रोणाष्टांशेऽभ्यधिके वृष्टे गर्भः स्रुतो भवति ॥३४॥
गर्भः पुष्टः प्रसवे ग्रहोपघातादिभिः यदि न वृष्टः । आत्मीयगर्भसमये करकामिश्रं ददात्यंभः ॥३५॥
काठिन्यं याति यथा चिरकालधृतं पयः पयस्विन्याः । कालातीतं तद्वत् सलिलं काठिन्यमुपयाति ॥३६॥
पवनसलिलविद्युद्गर्जिता अभ्रान्वितो यः । स भवति बहुतोयः पंचरूपाभ्युपेतः । विसृजति यदि तोयं गर्भकालेऽतिभूरि । प्रसवसमयमित्वा शीकरांभः करोति ॥३७॥