कुक्कुटः त्वृजुतनूरुहागुलिः ताम्रवक्त्रनखचूलिकः सितः । रौति सुस्वरमुषात्यये च यो वृद्धिदः स नृपराष्ट्रवाजिनाम् ॥१॥
यवग्रीवो यो वा बदरसदृशो वापि विहगो बृहन्मूर्धा वर्णैः भवति बहुभिश्च रुचिरः । स शस्तः सग्रामे मधुमधुपवर्णश्च जयकृद् न शस्तो योऽतोऽन्यः कृशतनुरवः खञ्जचरणः ॥२॥
कुक्कुटी च मृदुचारुभाषिणी स्निग्धमूर्तिरुचिराननेषणा । सा ददाति सुचिर महीक्षिता श्रीयशोविजयवीर्यसपदः ॥३॥