सीमागता वन्यमृगा रुवन्तः स्थिता व्रजन्तोऽथ समापतन्तः । संप्रत्यतीतएष्यभयानि दीप्ताः कुर्वन्ति शून्यं परितो भ्रमन्तः ॥१॥
ते ग्राम्यसत्त्वैः अनुवाश्यमाना भयाय रोधाय भवन्ति वन्यैः । द्वाभ्यामपि प्रत्यनुवाशिताः ते वन्दिग्रहायै च ( ग्रहायैव) मृगा रुवन्ति ( भवन्ति) ॥२॥
वन्ये सत्त्वे द्वारसंस्थे पुरस्य रोधो वाच्यः संप्रविष्टे विनाशः । सूते मृत्युः स्याद् भयं संस्थिते च गेहं याते बन्धनं संप्रदिष्टम् ॥३॥