श्वभिः शेगालाः सदृशाः फलेन विशेष एषां शिशिरे मदाप्तिः । हूहू रुतान्ते परतश्च टटा पूर्णः स्वरोऽन्ये कथिताः प्रदीप्ताः ॥१॥
लोमाशिकायाः खलु कक्कशब्दः पूर्णः स्वभावप्रभवः स तस्याः । येऽन्ये स्वराः ते प्रकृतेः अपेताः सर्वे च दीप्ता इति संप्रदिष्टाः ॥२॥
पूर्वोदीच्योः शिवा शस्ता शान्ता सर्वत्र पूजिता । धूमिताभिमुखी हन्ति स्वरदीप्ता दिगीश्वरान् ॥३॥
राजा कुमारो नेता च दूतः श्रेष्ठी चरो द्विजः । गजाध्यक्षश्च पूर्वाद्याः क्षत्रियाद्याश्चतुर्दिशम् ॥४॥
सर्वदिक्ष्वशुभा दीप्ता विशेषेणाह्नि अशोभना । पुरे सैन्येऽपसव्या च कष्टा सूर्योन्मुखी शिवा ॥५॥
याहीत्यग्निभयं शास्ति टाटैति मृतवेदिका । धिग्धिग् दुष्कृतमाचष्टे सज्वाला देशनाशिनी ॥६॥
नैव दारुणतामेके सज्वालायाः प्रचक्षते । अर्काद्यनलवत् तस्या वक्त्रं लालास्वभावतः ॥७॥
अन्यप्रतिरुता याम्या सोद्बन्धमृतशंसिनी । वारुणि अनुरुता सैव शंसते सलिले मृतम् ॥८॥
अक्षोभः श्रवणं चैष्टं धनप्राप्तिः प्रियागमः । क्षोभः प्रधानभेदश्च वाहनानां च सन्पदः ॥९॥
फलमासप्तमादेतदग्राह्यं परतो रुतम् । याम्यायां तद्विपर्यस्तं फलं षट्पंचमाद् ऋते ॥१०॥
या रोमांचं मनुष्याणां शकृन्मूत्रं च वाजिनाम् । रावात् त्रासं च जनयेत् सा शिवा न शिवप्रदा ॥११॥
मौनं गता प्रतिरुते नरद्विरदवाजिभिः ( वाजिनां) । या शिवा सा शिवं सैन्ये पुरे वा संप्रयच्छति ॥१२॥
भेभा इति शिवा भयंकरी भोभो व्यापदमादिशेग सा । मृतिबन्धनिवेदिनी फिफे ( फिफ) हूहू चात्महिता शिवा स्वरे ॥१३॥
शान्ता त्ववर्णात् परमारुवन्ती ( पवनौ रुवन्ती) टाटामुदीर्णामिति वाश्यमाना । टेटे च पूर्वं परतश्च थेथे तस्याः स्वतुष्टिप्रभवं रुतं तत् ॥१४॥
उच्चैः घोरं वर्णमुच्चार्य पूर्वंपश्चात् क्रोशेत् क्रोष्टुकस्यानुरूपम् । या सा क्षेमं प्राह वित्तस्य चाप्तिं संयोगं वा प्रोषितेन प्रियेण ॥१५॥