खञ्जनको नामायं यो विहगः तस्य दर्शने प्रथमे । प्रोक्तानि यानि मुनिभिः फलानि तानि प्रवक्ष्यामि ॥१॥
स्थूलोऽभ्युन्नतकण्ठः कृष्णगलो भद्रकारको भद्रः । आकण्ठमुखात् कृष्णः संपूर्णः पूरयत्याशाम् ॥२॥
कृष्णो गलेऽस्य बिन्दुः सितकरटान्तः स रिक्तकृद् रिक्तः । पीतो गोपीत इति क्लेशकरः खञ्जनो दृष्टः ॥३॥
अथ मधुरसुरभिफलकुसुमतरुषु सलिलाशयेषु पुण्येषु । करितुरगभुजगमूर्ध्नि प्रासादौद्यानहर्म्येषु ॥४॥
गोगोष्ठसत्समागमयज्ञौत्सवपार्थिवद्विजसमीपे । हस्तितुरंगमशालाघत्रध्वजचामराद्येषु ॥५॥
हेमसमीपसितांबरकमलोत्पलपूजितौपलिप्तेषु । दधिपात्रधान्यकूटेषु च श्रियं खञ्जनः कुरुते ॥६॥
पंके स्वाद्वन्नाप्तिः गोरससंपग गोमयोपगते । शाद्वलगे वस्त्राप्तिः शकटस्थे देशविभ्रंशः ॥७॥
गृहपटलेऽर्थभ्रंशो बध्रे ( वध्रे) बन्धोऽशुचौ भवति रोगः । पृष्ठे त्वजाविकानां प्रियसंगममावहत्याशु ॥८॥
महिषौष्ट्रगर्दभास्थिश्मशानगृहकोणशर्कराट्ट ( अद्रि) स्थः । प्राकारभस्मकेशेषु चाशुभो मरणरुग्भयदः ॥९॥
पक्षौ धुन्वन् न शुभः शुभः पिबन् वारि निम्नगासंस्थः । सूर्योदये प्रशस्तो ( ऽथ शस्तो) नैष्टफलः खञ्जनोऽस्तमये ॥१०॥
नीराजने निवृत्ते यया दिशा खञ्जनं नृपो यान्तम् । पश्येत् तया गतस्य क्षिप्रमरातिः वशमुपैति ॥११॥
तस्मिन् निधिः भवति मैथुनमेति यस्मिन् यस्मिं तु छर्दयति तत्र तलेऽस्ति काचम् ।
अंगारमपि उपदिशन्ति पुरीषणेऽस्य तत्कौतुकापनयनाय खनेद् धरित्रीम् ॥१२॥
मृतविकलविभिन्नरोगितः स्वतनुसमानफलप्रदः खगः । धनकृदभिनिलीयमानको वियति च बन्धुसमागमप्रदः ॥१३॥
नृपतिः अपि शुभं शुभप्रदेशे खगमवलोक्य महीतले विदध्यात् । सुरभिकुसुमधूपयुक्तमर्घं शुभमभिनन्दिं ( अभिनन्दितं) एवमेति वृद्धिम् ॥१४॥
अशुभमपि विलोक्य खञ्जनं द्विजगुरुसाधुसुरार्चने रतः । न नृपतिः अशुभं समाप्नुयात् ( समाप्नुयान्) न यदि दिनानि च सप्त मांसभुक् ॥१५॥
आवर्षात् प्रथमे दर्शने फलं प्रतिदिनं तु दिनशेषात् ( दिनशेषे) । दिक्स्थानमूर्तिलग्नऋक्षशान्तदीप्तादिभिश्चौह्यम् ॥१६॥