सर्वस्य सर्वकालं यस्मादुपयोगमेति शास्त्रमिदम् । राज्ञां विशेषतोऽतः शयनासनलक्षणं वक्ष्ये ॥१॥
असनस्पन्दनचन्दनहरिद्रसुरदारुतिन्दुकीशालाः । काश्मर्यञ्जनपद्मकशाका वा शिंशपा च शुभाः ॥२॥
अशनिजलानिलहस्तिप्रपातिता मधुविहंगकृतनिलयाः । चैत्यश्मशानपथिज ऊर्ध्वशुष्कवल्लीनिबद्धाश्च ॥३॥
कण्टकिनो ये च ( वा ये) स्युः महानदीसंगमौद्भवा ये च । सुरभवनजाश्च न शुभा ये चापरयाम्यदिक्पतिताः ॥४॥
प्रतिषिद्धवृक्षनिर्मितशयनासनसेवनात् कुलविनाशः । व्याधिभयव्ययकलहा भवन्त्यनर्था ( अनर्थाश्च) अनेकविधाः ॥५॥
पूर्वच्छिन्नं यदि वा दारु भवेत् तत्परीक्ष्यमारंभे । यद्यारोहेत् तस्मिन् कुमारकः पुत्रपशुदं तत् ॥६॥
सितकुसुममत्तवारणदध्यक्षतपूर्णकुंभरत्नानि । मंगल्यानि अन्यानि च दृष्ट्वारंभे शुभं ज्ञेयम् ॥७॥
कर्मांगुलं यवाष्टकमुदरासक्तं तुषैः परित्यक्तम् । अंगुलशतं नृपाणां महती शय्या जयाय कृता ॥८॥
नवतिः सैव षडूना द्वादशहीना त्रिषट्कहीना च । नृपपुत्रमन्त्रिबलपतिपुरोधसां स्युः यथासंख्यम् ॥९॥
अर्धमतोऽष्टांशोनं विष्कंभो विश्वकर्मणा प्रोक्तः । आयामत्र्यंशसमः पादौच्छ्रायः सकुक्ष्य ( सकुक्षि) शिराः ॥१०॥
यः सर्वः श्रीपर्ण्या पर्यंको निर्मितः स धनदाता । असनकृतो रोगहरः तिन्दुकसारेण वित्तकरः ॥११॥
यः केवलशिंशपया विनिर्मितो बहुविधं स वृद्धिकरः । चन्दनमयो रिपुघ्नो धर्मयशोदीर्घजीवितकृत् ॥१२॥
यः पद्मकपर्यंकः स दीर्घमायुः श्रियं श्रुतं वित्तम् । कुरुते शालेन कृतः कल्याणं शाकरचितश्च ॥१३॥
केवलचन्दनरचितं कांचनगुप्तं विचित्ररत्नयुतम् । अध्यासन् पर्यंकं विबुधैः अपि पूज्यते नृपतिः ॥१४॥
अन्येन समायुक्ता न तिन्दुकी शिंशपा च शुभफलदा । न श्रीपर्णेन ( श्रीपर्णी न) च देवदारुवृक्षो न चाप्यसनः ॥१५॥
शुभदौ तु शालशाकौ ( शाकशालौ) परस्परं संयुतौ पृथक् चैव । तद्वत् पृथक् प्रशस्तौ सहितौ च हरिद्रककदंबौ ॥१६॥
सर्वः स्पन्दनरचितो न शुभः प्राणान् हिनस्ति चांबकृतः । असनोऽन्यदारुसहितः क्षिप्रं दोषान् करोति बहून् ॥१७॥
अंबस्पन्दनचन्दनवृक्षाणां स्पन्दनात्शुभाः पादाः । फलतरुणा शयनासनमिष्टफलं भवति सर्वेण ॥१८॥
गजदन्तः सर्वेषां प्रोक्ततरूणां प्रशस्यते योगे । कार्योऽलंकारविधिः गजदन्तेन प्रशस्तेन ॥१९॥
दन्तस्य मूलपरिधिं द्विरायतं प्रोह्य कल्पयेत्शेषम् । अधिकमनूपचराणां न्यूनं गिरिचारिणां किंचित् ॥२०॥
श्रीवृक्ष ( वत्स) वर्धमानच्छत्रध्वजचामरानुरूपेषु । छेदे दृष्टेष्वारोग्य ( अरोग्य) विजयधनवृद्धिसौख्यानि ॥२१॥
प्रहरणसदृशेषु जयो नन्द्यावर्ते प्रनष्टदेशाप्तिः । लोष्ठे तु लब्धपूर्वस्य भवति देशस्य संप्राप्तिः ॥२२॥
स्त्रीरूपे धननाशो ( स्वविनाशो) भृंगारेऽभ्युत्थिते सुतौत्पत्तिः । कुंभेन निधिप्राप्तिः यात्राविघ्नं च दण्डेन ॥२३॥
कृकलासकपिभुजंगेष्वसुभिक्षव्याधयो रिपुवशित्वं ( वशत्वं) । गृध्रौलूकध्वांक्षश्येनाकारेषु जनमरकः ॥२४॥
पाशेऽथवा कबन्धे नृपमृत्युः जनविपत् स्रुते रक्ते । कृष्णे श्यावे रूक्षे दुर्गन्धे चाशुभं भवति ॥२५॥
शुक्लः समः सुगन्धिः स्निग्धश्च शुभावहो भवेघेदः । अशुभशुभच्छेदा ये शयनेष्वपि ते तथा फलदाः ॥२६॥
ईषायोगे दारु प्रदक्षिणाग्रं प्रशस्तमाचार्यैः । अपसव्यैकदिगग्रे भवति भयं भूतसञ्जनितम् ॥२७॥
एकेनावाक्षिरसा ( एकेनावाक्च्छिरसा) भवति हि पादेन पादवैकल्यम् । द्वाभ्यां न जीर्यतेऽन्नं त्रिचतुर्भिः क्लेशवधबन्धाः ॥२८॥
सुषिरेऽथवा विवर्णे ग्रन्थौ पादस्य शीर्षगे व्याधिः । पादे कुंभो यश्च ग्रन्थौ तस्मिन्न् उदररोगः ॥२९॥
कुंभाधस्ताज्जंघा तत्र कृतो जंघयोः करोति भयम् । तस्याश्चाधरोऽधः क्षयकृद् द्रव्यस्य तत्र कृतः ॥३०॥
खुरदेशे यो ग्रन्थिः खुरिणां पीडाकरः स निर्दिष्टः । ईषाशीर्षण्योश्च त्रिभागसंस्थो भवेन् न शुभः ॥३१॥
निष्कुटमथ कोलाक्षं सूकरनयनं च वत्सनाभं च । कालकमन्यद् धुन्धुकमिति कथितश्छिद्रसंक्षेपः ॥३२॥
घटवत् सुशिरं मध्ये संकटमास्ये च निष्कुटं छिद्रम् । निष्पावमाषमात्रं नीलं छिद्रं च कोलाक्षम् ॥३३॥
सूकरनयनं विषमं विवर्णमध्यर्धपर्वदीर्घम् च । वामावर्तं भिन्नं पर्वमितं वत्सनाभाख्यम् ॥३४॥
कालकसंज्ञं कृष्णं धुन्धुकमिति यद् भवेद् विनिर्भिन्नम् । दारुसवर्णं छिद्रं न तथा पापं समुद्दिष्टम् ॥३५॥
निष्कुटसण्ज्ञे द्रव्यक्षयः तु कोलेक्षणे कुलध्वंसः । शस्त्रभयं सूकरके रोगभयं वत्सनाभाख्ये ॥३६॥
कालकधुन्धुकसंज्ञं कीटैः विद्धं च न शुभदं छिद्रम् । सर्वं ग्रन्थिप्रचुरं सर्वत्र न शोभनं दारु ॥३७॥
एकद्रुमेण धन्यं वृक्षद्वयनिर्मितं च धन्यतरम् । त्रिभिः आत्मजवृद्धिकरं चतुर्भिः अर्थं ( अर्थो) यशश्चाग्र्यम् ॥३८॥
पंचवनस्पतिरचिते पंचत्वं याति तत्र यः शेते । षट्सप्ताष्टतरूणां काष्ठैः घटिते कुलविनाशः ॥३९॥