संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|माहेश्वरखण्ड|कौमारिकाखण्डः|
अध्यायः ६५

कौमारिकाखण्डः - अध्यायः ६५

भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.


 ॥ सूत उवाच
उषित्वा सप्तरात्राणि तीर्थेस्मिन्भ्रातृभिः सह ॥
युधिष्ठिरो महातेजा गमनायोपचक्रमे ॥१॥
प्रभाते विमले स्नात्वा देवीर्लिंगान्यथार्च्य च ॥
कृत्वा प्रदक्षिणं क्षेत्रं देवीस्तोत्रं जजाप सः ॥
प्रयाणकालेषु सदा जप्यं कृष्णेन कीर्तितम् ॥२॥
 ॥ युधिष्ठिर उवाच
देवि पूज्ये महाशक्ते कृष्णस्य भगिनि प्रिये ॥
नत्वा त्वां शरणं यामि मनोवाक्कायकर्मभिः ॥३॥
संकर्षणाभयदाने कृष्णच्छविसमप्रभे ॥
एकानंशे महादेवि पुत्रवत्त्राहि मां शिव ॥४॥
त्वया ततमिदं विश्वं जगदव्यक्तरूपया ॥
इति मत्वा त्वां गतोऽस्मि शरणं त्राहि मां शुभे ॥५॥
कार्यारम्भेषु सर्वेषु सानुगेन मया तव ॥
स्व आत्मा कल्पितो भद्रे ज्ञात्वैतदनुकंप्यताम ॥६॥
 ॥ सूत उवाच
इति ब्रुवाणं राजानं शिरोबद्धाजलिं तदा ॥
वायुपुत्रः प्रहस्यैव सासूयमिदमब्रवीत् ॥७॥
ये त्वां राजन्वदंत्येवं सर्वज्ञोऽयं युधिष्ठिरः ॥
वृथैव वचनं तेषां यतस्त्वं वेत्सि नाण्वपि ॥८॥
को हि प्रज्ञावतां मुख्यः सर्वशास्त्रविदांवरः ॥
स्त्रीणां शरणमापद्येदृजुर्बुद्धिर्यथा भवान् ॥९॥
यतस्त्वमेव वेत्सीदं सर्वशास्त्रेषु कीर्त्यते ॥
जडेयं प्रकृतिर्मूढा यया संमोह्यते जगत् ॥१०॥
सचेतनं च पुरुषं प्रकृतिं च विचेतनाम् ॥
प्राहुर्बुधा नराध्यक्ष पुंसश्चप्रकृतिः प्रिया ॥११॥
तत्स्वयं पुरुषो भूत्वा युधिष्ठिर वृथामते ॥
प्रकृतिं नौषि नत्वा तां हासो मेऽतीव जायते ॥१२॥
आरोहयेच्छिरो नैव क्वचिद्धित्वा उपानहौ ॥
यथा स मूढो भवति देवीभक्तिरतस्तथा ॥१३॥
यदि ते बन्दिवत्पार्थ तिष्ठेद्वाण्यनिवारिता ॥
तत्किमर्थं महादेवं न स्तौषि त्रिपुरान्तकम् ॥१४॥
अलक्ष्यमिति वा मत्वा महेशानं महामते ॥
ततः किमर्थ दाशार्हं न स्तौषि पुरुषोत्तमम् ॥१५॥
यस्य प्रसादादस्माभिः प्राप्ता द्रुपदनंदिनी ॥
इन्द्रप्रस्थे तथा राज्यं राजसूयस्त्वया कृतः ॥१६॥
विजयेन धनुर्लब्धं जरासन्धो मया हतः ॥
प्रत्याहर्तुं तथेच्छामः कौरवेभ्यः स्वकां श्रियम् ॥१७॥
यस्य प्रसादात्तं मुक्त्वा कृष्णं हा स्तौषि यज्जयी ॥
अथ स्वयं कौरवाणामुत्पन्नं कुलसत्तमे ॥१८॥
जानन्नात्मानमल्पत्वाद्बुद्धेर्न स्तौषि यादवम् ॥
तत्किमर्थं महावीर्यं न स्तौष्यर्जुनमुत्तमम् ॥१९॥
येन विद्धं पुरा लक्ष्यं येन कर्णादयो जिताः ॥
येन तत्खांडवं दग्धं यज्ञे येन नृपा जिताः ॥२०॥
श्रूयते येन विक्रम्य महेशानोऽपि निर्जितः ॥
स्वर्लोकसंस्थितस्यास्य शरणं याहि स्तौषि च ॥२१॥
अथवा तेन शक्रेण राज्यं मे नार्पितं कुतः ॥
इति मत्वा वृथैव त्वं न स्तौषि भ्रातरं मम ॥२२॥
ततो मां वा कथं वीरं न स्तौषि त्वं युधिष्ठिर ॥
येन त्वं रक्षितः पूर्वं लाक्षागेहाग्निमध्यतः ॥२३॥
वृक्षेणाहत्य मद्रेशो नदीं शुष्कां प्रसारितः ॥
राजराजस्तथा येन जरासंधो निपातितः ॥२४॥
पूर्वा दिङ्निर्जिता येन येन पूर्वं बको हतः ॥
हिडम्बश्च महावीरः किर्मीरश्चाधुना वने ॥२५॥
कालेकाले च रक्षामि त्वामेवाहं सदानुगः ॥
न तां पश्यामि रक्षंतीं नत्वा यां स्तौषि भारत ॥२६॥
अथ क्षुधाबलं ज्ञात्वा मामौदरिकसत्तमम् ॥
क्रूरं साहसिकं चैव न स्तौषि क्षमिणां वरः ॥२७॥
ततः सुसंयतो भूत्वा प्रणवं समुदीरयन् ॥
कथं न यासि मार्गे त्वं वृथालापो हि दोषभाक् ॥२८॥
प्रेताः पिशाचा रक्षांसि वृथालापरतं नरम् ॥
आविशंति तदाविष्टो वक्ताबद्धं पुनः पुनः ॥२९॥
वृथालापी यदश्नाति यत्करोति शुभं क्वचित् ॥
प्रेतादितृप्तये सर्वमिति शास्त्रविनिश्चयः ॥३०॥
नायं तस्यास्ति वै लोकः कुत एव परो भवेत् ॥
तस्माद्विजानता यत्नात्त्याज्यमेव वृथा वचः ॥३१॥
एवं संस्मारितोऽपि त्वं यदि भूयः प्रवर्तसे ॥
भूताविष्टश्चिकित्स्यो नो विविधैरौषधैर्भवान् ॥३२॥
 ॥ सूत उवाच
इति प्रवर्णितां श्रुत्वा भीमसेनेन भारतीम् ॥
पटीमिव प्रविततां विहस्याह युधिष्ठिरः ॥३३॥
नूनं त्वमल्पविज्ञानो वेदाधीतास्त्वया वृथा ॥
मातरं सर्वभूतानामंबिकां यन्न मन्यसे ॥३४॥
स्त्रीपक्ष इति मत्वा तामवजानासि भोः कथम् ॥
स्त्री सती न प्रणम्या किं त्वया कुन्ती वृकोदर ॥३५॥
यदि न स्यान्महामाया ब्रह्मविष्णुशिवार्चिता ॥
तव देहोद्भवः पार्थ कथं स्यात्तत्त्वतो वद ॥३६॥
ईश्वरः परमात्मा तां त्यक्तुं शक्तः कथं न हि ॥
पुनर्भेजे यतो देवीं तेन मन्ये महोर्जिताम् ॥३७॥
वासुदेवोऽपि नित्यं तां स्तौति शक्तिं परात्पराम् ॥
अहं यदि चिकित्स्यः स्यां चिकित्स्यः सोऽपि किं भवान् ॥३८॥
नैवं भूयः प्रवक्तव्यं मौर्ख्यात्प्रति महेश्वरीम् ॥
भूमौ निपत्य शरणं याहि चेत्सुखमिच्छसि ॥३९॥
 ॥ भीम उवाच
सर्वोपायैर्बोधयंति चाटा हस्तगतं नरम् ॥
इदमेवौषधं तत्र तैः सार्धं जल्पनं न हि ॥४०॥
मुण्डे मुण्डे मतिर्भिन्ना सत्यमेतन्नृप स्फुटम् ॥
स्वाभीष्टं कुरुते सर्वः कुर्मोऽभीष्टं वयं तथा ॥४१॥
नागायुतसमप्राणो वायुपुत्रो वृकोदरः ॥
न स्त्रियं शरणं गच्छेद्वाङ्मात्रेण कथंचन ॥४२॥
इत्युक्त्वा वचनं भीमो ह्यनुवव्राज तं नृपम् ॥
राजापि सानुगो यातो न साध्विति मुहुर्ब्रुवन् ॥४३॥
ततः क्षणेन विकलस्त्वितश्चेतश्च प्रस्खलत् ॥
उवाच वचनं भीमः सुसंभ्रांतो नृपं प्रति ॥४४॥
धर्मराज महाबुद्धे पश्य मां नृपसत्तम ॥
चक्षुर्भ्यां नैव पश्यामि वैकल्यं किमिदं मम ॥४५॥
 ॥ राजोवाच ॥
भीमभीम ध्रुवं देवी कुपिता ते महेश्वरी ॥
तेन नष्टे चक्षुषी ते महासाहसवल्लभ ॥४६॥
तत्सांप्रतमभिप्रैहि शरणं परमेश्वरीम् ॥
पुनः प्रसन्ना ते दद्यात्कदाचिन्नयने पुनः ॥४७॥
 ॥ भीम उवाच
अहमप्यंग जानामि समो देव्या न कश्चन ॥
प्रभावप्रत्ययार्थं हि सदा निन्दामि तां पुनः ॥४८॥
तस्मात्प्रभावं दृष्ट्वैवं निपत्य वसुधातले ॥
मनोवाग्बुद्धिभिर्नत्वा शरणं स्तौमि मातरम् ॥४९॥
 ॥ सूत उवाच
इत्युक्त्वा भ्रातरं ज्येष्ठं साष्टांगं प्रणिपत्य च ॥
गत्वैव देव्याः शरणं भीमस्तुष्टाव मातरम् ॥५०॥
 ॥ भीम उवाच
सर्वभूतांबिके देवि ब्रह्मांडशतपूरके ॥
बालिशं बालकं स्वीयं त्राहित्राहि नमोऽस्तु ते ॥५१॥
त्वं ब्राह्मी ब्रह्मणः शक्तिर्वैष्णवी त्वं च शांभवी ॥
त्रिमूर्तिः शक्तिरूपा त्वं रक्षरक्ष नमोऽस्तु ते ॥५२॥
त्वमैन्द्री च त्वमाग्नेयी त्वं याम्या त्वं च नैर्ऋती ॥
त्वं वारुणी त्वं वायव्या त्वं कौबेरी नमोऽस्तु ते ॥५३॥
ऐशानि देवि वाराहि नारसिंहि जयप्रदे ॥
कौमारि कुलकल्याणि कृपेश्वरि नमोऽस्तु ते ॥५४॥
त्वं सूर्ये त्वं तथा सोमे त्वं भौमे त्वं बुधे गुरौ ॥
त्वं शुक्रे त्वं स्थिता राहौ त्वं केतुषु नमोऽस्तु ते ॥५५॥
वससि ध्रुवचक्रे त्वं मुनिचक्रे च ते स्थितिः ॥
भचक्रेषु खचक्रेषु भूचक्रे च नमोऽस्तु ते ॥५६॥
सप्तद्वीपेषु त्वं देवि समुद्रेषु च सप्तसु ॥
सप्तस्वपि च पातालेष्ववसंस्थे नमोऽस्तु ते ॥५७॥
त्वं देवि चावतारेषु विष्णोः साहाय्यकारिणी ॥
विष्णुनाभ्यर्थ्यसे तस्मात्त्राहि मातर्नमोऽस्तु ते ॥५८॥
चतुर्भुजे चतुर्वक्त्रे फलदे चत्वरप्रिये ॥
चराचरस्तुते देवि चरणौ प्रणमामि ते ॥५९॥
महाघोरे कालरात्रि घंटालि विकटोज्वले ॥
सततं सप्तमीपूज्ये नेत्रदे शरणं भव ॥६०॥
मेरुवासिनि पिंगाक्षि नेत्रत्राणैककारिणि ॥
हुंहुंकारध्वस्तदैत्ये शरण्ये शरणं भव ॥६१॥
महानादे महावीर्ये महा मोहविनाशिनि ॥
महाबन्धापहे देवि देहि नेत्रत्रयं मम ॥६२॥
सर्वमंगलमंगल्या यदि त्वं सत्यतोंबिके ॥
ततो मे मंगलं देहि नेत्रदानान्नमोस्तु ते ॥६३॥
यदि सर्वकृपालुभ्यः सत्यतस्त्वं कृपावती ॥
ततः कृपां कुरु मयि देहि नेत्रे नमोऽस्तु ते ॥६४॥
पापोयमिति यद्देवि प्रकुप्यसि वृथैव तत् ॥
त्वं मां मोहयसि त्वेवं न ते तत्किं नमोऽस्तु ते ॥६५॥
स्वयमुत्पाद्य यो रेणुं वेष्टितस्तेन कुप्यति ॥
तथा कुप्यसि मे मातरनाथस्यास्य दर्शय ॥६६॥
इति स्तुता पांडवेन देवी कृष्णच्छविच्छविः ॥
रामा रामाभिवदना प्रत्यक्षा समजायत ॥६७॥
विद्युत्कोटिसमाभास मुकुटेनातिशोभिता ॥
सूर्यबिंबप्रभाभ्यां च कुण्डलाभ्यां विभूषिता ॥६८॥
प्रवाहेनेव हारेण सुरनद्या विराजिता ॥
कल्पद्रुमप्रसूनैश्च पूर्णावतंसमंडिता। ॥६९॥
दन्तेन्दुकांतिविध्वस्तभक्तमोहमहाभया ॥
खड्गचर्मशूलपात्रचतुर्भुजविराजिता ॥७०॥
वाससा तडिदाभेन मेघलेखेव वेष्टिता ॥
मालया सुममालिन्या भ्राजिता सालिमालया ॥७१॥
सतां शरणदाभ्यां च पद्भ्यां नूपुरराजिता ॥
जयेति पुष्पवर्षैश्च शक्राद्यैरभिपूजिता ॥७२॥
गणैर्देवीभिराकीर्णा शतपद्मैर्महामलैः ॥
तां तादृशीं व्योम्नि दृष्ट्वा मातरं व्योमवाहिनीम् ॥७३॥
भूमौ निपत्य राजेंद्रो नमोनम इति स्थितः ॥
भीमोपि मातरं दृष्ट्वा यथा बालोऽभिधावति ॥७४॥
तथा सम्मुखमाधावज्जय मातरिति ब्रुवन् ॥
दर्शनेनैव देव्याश्च शुभनेत्रत्रयस्तदा ॥७॥
प्रणिपत्य नमस्तुभ्यं नमस्तुभ्यं मुहुर्जगौ ॥
प्रसीद देवि पद्माक्षि पुनर्मातः प्रसीद मे ॥७६॥
पुनः प्रसीद पापस्य क्षमाथीले प्रसीद मे ॥७७॥
एवं स्तुता भगवती स्वयमुत्थाय पार्थिवम् ॥
भीमं चोत्संगमारोप्य कृपयेदं वचोऽब्रवीत् ॥७८॥
 ॥ श्रीदेव्युवाच
यत्त्वयाभिहितं स्तोत्रं तेन तुष्टा तवोपरि ॥
अतो नेत्रत्रयं दत्तं द्वे बाह्ये चांतरं परम् ॥७९॥
नाहं कोपं यत्र तत्र दर्शयामि वृकोदर ॥
त्वं तु प्रमाणपुरुषस्त्वत्तः क्रोधमदर्शयम् ॥८०॥
नैतत्प्रियं च कृष्णस्य भ्रातुर्मे क्रोधमाचरम् ॥
भवन्तो वासुदेवस्य यत्र प्राणा बहिश्चराः ॥८१॥
त्वं च निन्दसि मां नित्यं तच्च जाने वृकोदर ॥
मत्प्रभावपरिज्ञानहेतवे कीदृशस्त्विति ॥८३॥
तदेवं नैव भूयस्ते प्रकर्तव्यं कथंचन ॥
अक्षिक्षेपो हि पूज्यानामावहत्यधिकं रुजम् ॥८४॥
तदिदानीं सर्वमेवं क्षन्तव्यं च परस्परम् ॥
यच्च ब्रवीमि त्वां वीर तन्निशामय भारत ॥८५॥
यदा यदा हि धर्मस्य ग्लानिराविर्भवेद्धरिः ॥
तदातदावतीर्याहं विष्णोरस्य सहायिनी ॥८६॥
इदानीं च हरिर्जातो वसुदेवसुतो भुवि ॥
अहं च गोपनन्दस्य एकानंशाभिधा सुता ॥८७॥
तद्यथा भगवान्कृष्णो मम भ्राताभिपूजितः ॥
भवन्तोऽपि तथा मह्यं भ्रातरः पांडवा सदा ॥८८॥
ये भीमभगिनीत्येवं मां स्तोष्यंति नरोत्तमाः ॥
आबाधा नाशयिष्यामि तेषां हर्षसमन्विता ॥८९॥
त्वं च भ्रातुर्जयं वीर प्रदास्यसि महारणे ॥
भुजयोस्ते वसिष्यामि धार्तराष्ट्रनिपातने ॥९०॥
कृत्वा राज्यं च वर्षाणि षट्त्रिंशत्तदनन्तरम् ॥
महाप्रस्थानधर्मेण पृथिवीं परिचरिष्यथ ॥९१॥
अस्मिन्नेव ततो देशे लोहोनाम महासुरः ॥
भवतां न्यस्तशस्त्राणां वधार्थं प्रक्रमिष्यति ॥९२॥
ततस्तं सर्वभूतानामवध्यं भवतां कृते ॥
अन्धं कृत्वा पातयिष्ये ततो यूयं प्रयास्यथ ॥९३॥
निस्तीर्य च हिमं सर्वं निमग्नाः बालुकार्णवे ॥
स्वर्गं यास्यति राजैकः सशरीरो गमिष्यति ॥९४॥
अन्धो यत्र कृतो लोहो लोहाणाभिधया पुरम् ॥
भविष्यति च तत्रैव स्थास्येऽहं कलया सदा ॥९५॥
ततः कलियुगे प्राप्ते केलो नाम भविष्यति ॥
मम भक्तस्तस्य नाम्ना भाव्या केलेश्वरीत्यहम् ॥९६॥
वैलाकश्चापरो भक्तो भविष्यति ममोत्तमः ॥
तस्याराधनतः ख्यातिं प्रयास्यामि कलौ युगे ॥९७॥
लोहाणासंस्थितां चैव येर्चयिष्यंति मां जनाः ॥
श्रद्धया सितसप्तम्यां तैश्च सर्वत्र पूजिता ॥९८॥
अंधानां च प्रदास्यामि भावीनि नयनान्यहम् ॥
तस्मिन्दिने तर्पिताहं भक्तिभावेन पांडव ॥९९॥
पादांगुष्ठेन च भवांस्तत्र कुंडं विधास्यति ॥
सर्वतीर्थस्नान तुल्यं तत्र स्नानं च तद्दिने ॥१००॥
मत्स्यानां नेत्रनेत्रस्थतेजस्तन्मात्रमुत्तमम् ॥
उद्धृत्य योजयिष्यामि प्रत्यक्षं तद्भविष्यति ॥१०१॥
एवं मम महास्थानं कलौ ख्यातं भविष्यति ॥१०२॥
लोहाणाख्यं महाबाहो नाम केलेश्वरीति च ॥
दुर्गमाख्यं ततो हत्वा अस्मिन्क्षेत्रे च भारत ॥१०३॥
दुर्गा नाम भविष्यामि महीसागरपूर्वतः ॥
धर्मारण्ये वसिष्यामि भवतां त्राणकारणात् ॥१०४॥
धर्मारण्ये स्थितां चैव येऽर्चयिष्यंति मानवाः ॥
आश्विने मासि चैत्रे वा नवम्यां शुक्लपक्षके ॥१०५॥
स्नात्वा महीसागरे च तेषां दास्यामि वांछितम् ॥
विधिना येऽर्चयिष्यंति मां च श्रद्धास मन्विताः ॥१०६॥
पुत्रपौत्रान्प्रदास्यामि स्वर्गं मोक्षं न संशयः ॥
प्रवेशे च कलेः काले भवतां वंशसंभवः ॥
वत्सराजः पांडवानां तोषयिष्यति यत्नतः ॥१०७॥
यस्य नाम्ना ततः ख्याता भविष्यामि कलौ युगे ॥
वत्सेश्वरीति वत्सस्य राज्ञः सर्वार्थदायिनी ॥१०८॥
मत्प्रसादात्स राजा वै भवनोत्तापकारिणीम् ॥
अट्टालयांनाम तदा राक्षसीं निहनिष्यति ॥१०९॥
तस्याश्चापि वधस्थानमट्टालजमिति स्थितम् ॥
भविष्यति पुरं तत्र मां च संस्थापयिष्यति ॥११०॥
अट्टालयाजग्रामे मामर्चयिष्यंति ये जनाः ॥
वत्सेश्वरीं सिताष्टम्यामाश्विने तैः सदार्चिता ॥१११॥
वत्सेश्वरीं च ये देवीं पूजयिष्यंति मानवाः ॥
तेषां सर्वफलावाप्तिर्भविष्यति न संशयः ॥११२॥
इत्थमट्टालये वासो लोहाणे च भविष्यति ॥
धर्मारण्ये महाक्षेत्रे महीसागरसंनिधौ ॥११३॥
मम लोकहितार्थाय लोहस्य च निशम्यताम् ॥
अधीकृतो मया लोहो बह्वीस्तप्तां तपः समाः ॥११४॥
वृत्रासुर इवाजेयो लोकानुत्सादयिष्यति ॥
तं च विश्वपतिर्धीमानवतीर्य बुधो हरिः ॥११५॥
यत्र हंता तत्र ग्रामं लोहाटीति भविष्यति ॥
गयोनाम महादैत्यो भवतां विघ्नकृत्तदा ॥११६॥
प्रस्थाने लोहवद्भावी करिष्ये तं नपुंसकम् ॥
गयत्राडेति मां तत्र पूजयिष्यंति मानवाः ॥११७॥
ग्रामं चापि गयत्राडं तत्र ख्यातं भविष्यति ॥
गयत्राडे गयत्राडां येऽर्चयिष्यंति मानवाः ॥११८॥
माघाष्टम्यां न शिष्यंति तस्य सर्वेऽप्युपद्रवाः ॥
ये च मां कोपयिष्यंति पांडवाराधितां सदा ॥११९॥
तेषां पुंस्त्वं हरिष्यामि महारौद्राधितिष्ठति ॥
परिवारश्च मे चात्र षण्ढः सर्वो भविष्यति ॥१२०॥
तस्मिन्कलियुगे घोरे रौद्रे रुद्रेऽतिनिर्घृणे ॥
एवं तृतीयं तन्मह्यं स्थानमत्र भविष्यति ॥१२१॥
भवत्सु च स्वर्गतेषु गयोऽपि सुमहत्तपः ॥
तप्त्वा प्राप्य पुनः पुंस्त्वं लोकान्संपीडयिष्यति ॥१२२॥
गयातीर्थं गतं तं च गयाध्वंसनकाम्यया ॥
बुध एव जगत्स्वामी तत्र तं सूदयिष्यति ॥१२३॥
इत्थं श्रीमान्पीतवासा अवतीर्य बुधः प्रभुः ॥
बहूनि कृत्वा कर्माणि स्वस्थानं प्रतिपत्स्यते ॥१२४॥
इति संक्षेपतः प्रोक्तं भविष्यं पांडवा मया ॥
भवतां चित्तनिर्वृत्यै श्रूयतां भूय एव च ॥१२५॥
इदं तीर्थवरं मह्यं संसेव्यं सर्वदा प्रियम् ॥
कृतं यदत्रागमनं तेन प्रीतिः परा मम ॥१२६॥
भीमस्य चापि पौत्रेण दृढं संतोषिताऽस्मि च ॥
देव्यः सर्वाश्च मद्रूपं नैतज्ज्ञेयम तोऽन्यथा ॥१२७॥
व्रजध्वं चापि तीर्थानि यानि वो न कृतानि च ॥
आबाधास्वस्मि सर्वासु स्मरणीया स्वसेव च ॥१२८॥
आपृच्छे चापि वः सर्वान्यूयं कृष्णसमा मम ॥१२९॥
 ॥ सूत उवाच
इति देव्या वचः श्रुत्वा विस्मयोत्फुल्ललोचनाः ॥
पुनःपुनः प्रणम्यैनां नापश्यन्दीपवद्गताम् ॥१३०॥
ततस्ते बर्बरीकं च संस्थाप्यात्रैव निष्ठितम् ॥
आगच्छ योगे चोक्त्वेदं चक्रुस्तीर्थानि मुख्यशः ॥१३१॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां प्रथमे माहेश्वरखण्डे कौमारिकाखण्डे बर्बरीकोपाख्याने केलेश्वरी वत्सेश्वरीदुर्गादेवीगयत्राडामाहात्म्यवर्णनंनाम पञ्चषष्टितमोऽध्यायः ॥६५॥

N/A

References : N/A
Last Updated : July 23, 2024

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP