संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|माहेश्वरखण्ड|कौमारिकाखण्डः|
अध्यायः ४७

कौमारिकाखण्डः - अध्यायः ४७

भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.


 ॥ नारद उवाच
ततो मयास्य तीर्थस्य रक्षणाय पुनर्जय ॥
समाराध्य यथा देव्यः स्थापितास्तच्छृणुष्व भोः ॥१॥
यथात्मा सर्वभूतेषु व्यापकः परमेश्वरः ॥
तथैव प्रकृतिर्नित्या व्यापका परमेश्वरी ॥२॥
शक्ति प्रसादादाप्नोति वीर्यं सर्वाश्च संपदः ॥
ईश्वरी सर्वभूतेषु सा चैवं पार्थ संस्थिता ॥३॥
बुद्धिह्रीपुष्टिलज्जेति तुष्टिः शांतिः क्षमा स्पृहा ॥
श्रद्धा च चेतना शक्तिर्मंत्रोत्साहप्रभूद्भवा ॥४॥
इयमेव च बंधाय मोक्षायेयं च सर्वदा ॥
एनामाराध्य चैश्वर्यमिन्द्राद्याः समवाप्नुयुः ॥५॥
ये च शक्तिं न मन्यंते तिरस्कुर्वंति चाधमाः ॥
योगीन्द्रा अपि ते व्यक्तं भ्रश्यंते काशिजा यथा ॥६॥
वाराणस्यां किल पुरा सिद्धयोगीश्वराः पुनः ॥
अवमन्य च ते शक्तिं पुनर्भ्रंशमुपागताः ॥७॥
तस्मात्सदा देहिनेयं शक्तिः पूज्यैव नित्यदा ॥
तुष्टा ददाति सा कामान्रुष्टा संहरते क्षणात् ॥८॥
परमा प्रकृतिः सा च बहुभेदैर्व्यवस्थिता ॥
तासां मध्ये महादेव्यो ह्यत्र संस्थापिताः शृणु ॥९॥
चतस्रस्तु महाशक्त्यश्चतुर्दिक्षु व्यवस्थिताः ॥
सिद्धांबिका तु पूर्वस्यां स्थापिता सा गुहेन च ॥१०॥
जगदादौ मूलूप्रकृतेरुत्पन्ना सा प्रकीर्त्यते ॥
आराधिता यतः सिद्धैस्तस्मात्सिद्धांबिका च सा ॥११॥
दक्षिणस्यां तथा तारा संस्थिता स्थापिता मया ॥
तारणार्थाय देवानां यस्मात्कूर्मं समाश्रिता ॥१२॥
ययाविष्टः समुज्जह्रे वेदान्कूर्मो जगद्गुरुः ॥
अनयाविष्टदेहश्च बुधो बौद्धान्हनिष्यति ॥१३॥
कोटिशो वेदमार्गस्य ध्वंसकान्पापकर्मिणः ॥
इयं मया समाराध्य समानीता गिरेः सुता ॥१४॥
कोटिसंख्याभिरत्युग्रदेवीभिः संवृता च सा ॥
दक्षिणां दिशमाश्रित्य संस्थिता मम गौरवात् ॥१५॥
पश्चिमायां तथा देवी संस्थिता भास्करा शुभा ॥
ययाविष्टानि भासंते भास्करप्रमुखानि च ॥१६॥
बिंबानि सर्वताराणां गच्छन्त्यायांति च द्रुतम् ॥
सैषा महाबला शक्तिर्भास्वरा कुरुनन्दन ॥१७॥
मयाराध्य समानीता कटाहादत्र संस्थिता ॥
कोटिकोटिवृता नित्यं त्रायते पश्चिमां दिशम् ॥१८॥
उत्तरस्यां तथा देवी संस्थिता योगनंदिनी ॥
परमप्रकृतेर्देहात्पूर्वं निःसृतया यया ॥१९॥
दृष्ट्या दृष्टा निर्मलया योगमापुश्चतुःसनाः ॥
योगीश्वरी च सा देवी सनकाद्यैः सुतोषिता ॥२०॥
सैव चांडकटाहान्मे समाराध्यात्र प्रापिता ॥
योगिनीभिः परिवृता संस्थिता चोत्तरां दिशम् ॥२१॥
एवमेता महाशक्त्यश्चतस्रः संस्थिताः सदा ॥
पूजिताः कामदा नित्यं रुष्टाः संहरणक्षमाः ॥२२॥
ततश्च नव मे दुर्गाः समानीताः शृणुध्व ताः ॥२३॥
त्रिपुरानाम परमा देवी स्थाणुर्यया पुरा ॥
आविष्टस्त्रिपुरं निन्ये भस्मत्वं जगदीश्वरः ॥२४॥
त्रिपुरेति ततस्तां तु प्रोक्तवान्भगवान्हरः ॥
तुष्टाव च स्वयं तस्मात्पूज्या सा जगतामपि ॥२५॥
सा चाराध्य समानीता मयामरेश्वरपर्वतात् ॥
भक्तानां कामदा सास्ति भट्टादित्यसमीपतः ॥२६॥
अपरा चापि कोलंबा महाशक्तिः सनातनी ॥
कोलरूपी ययाविष्टः केशवश्चोज्जहार गाम् ॥२७॥
तस्मात्सा विष्णुना चोक्ता कोलंबेति स्तुतार्चिता ॥
सा च देवी मया पार्थ भक्तियोगेन तोषिता ॥२८॥
वाराहगिरिसंस्था मां समानीता च साब्रवीत् ॥
यत्राहं नारद सदा तिष्ठामि कृपयार्थिनाम् ॥२९॥
तत्र कूपेन संस्थेयं रुद्राणीसंस्थितेन वै ॥
तं हि कूपं विना मह्यं न रतिर्जायते क्वचित् ॥३०॥
तस्माद्भवान्कूपवरं स्वयमत्र खन द्विज ॥
एवमुक्ते पार्थ देव्या दर्भमूलेन मे तदा ॥३१॥
कूपोऽखनि यत्र साक्षाद्रुद्राणी कूप आबभौ ॥
ततो मया तत्र देवाः स्नात्वा जप्त्वा च तर्पिताः ॥३२॥
पूजिता च ततो दैवी कोलंबा जगदीश्वरी ॥
परितुष्टा तदा देवी प्रणतं मा ततोऽब्रवीत् ॥३३॥
सदात्र चाहं स्थास्यामि प्रसादं प्रापिता त्वया ॥
ये च कूपेत्र संस्नात्वा माघाष्टम्यां विशेषतः ॥३४॥
पूजयिष्यंति मां मर्त्यास्तेषां छेत्स्यामि दुष्कृतम् ॥
सर्वतीर्थमयी यश्च सर्वर्तुकवनेस्थितः ॥३५॥
मेरोः समीपे रुद्राण्याः कूप एष स एव च ॥३६॥
प्रयागादपि गंगाया गयायाश्च विशेषतः ॥
कूपेस्मिन्नधिकं स्नानं मया नारद कीर्तितम् ॥३७॥
तदहं तव वाक्येन संस्थितात्र तपोधन ॥
गुहेनाथ सरः पुण्यं पालयिष्याम्यतंद्रिता ॥३८॥
कुमारेशं पूजयित्वा पूजयिष्यंति ये च माम् ॥
देवीभिः षष्टिकोटीभिर्युता तेषामभीष्टदा ॥३९॥
 ॥ नारद उवाच
इत्युक्तोऽहं पार्थ देव्या तदानीं प्रीयमाणया ॥
प्रत्यब्रवं प्रमुदितः कोलंबां विश्वमातरम् ॥४०॥
अत्रास्य माता त्वं देवि गुप्तक्षेत्रस्यकारणम् ॥
तीर्थयात्रा वृथा तेषां नार्च्चयंतीह त्वां च ये ॥४१॥
इदं च यत्सरः पुण्यं त्वन्नाम्ना ख्यातिमेष्यति ॥
ईश्वरी सरसोऽस्य त्वं तीर्थस्यास्य तथेश्वरी ॥४२॥
एवं दीर्घं तपस्तप्त्वा स्थापिता मयका शुभा ॥
महादुर्गा नरैस्तस्मात्पूज्येयं सततं बुधैः ॥४३॥
तृतीया च दिशि तस्यां स्थिता संस्थापिता मया ॥
गुहेन च कपालेश्याः प्रभावोस्याः पुरेरितः ॥४४॥
धन्यास्ते ये प्रपश्यंति नित्यमेनां नरोत्तमाः ॥
कपालेश्वरमभ्यर्च्य विश्वशक्तिरियं यतः ॥४५॥
एवमेतास्तिस्रो दुर्गाः पूर्वस्यां दिशि संस्थिताः ॥
पश्चिमायां प्रवक्ष्यामि तिस्रो दुर्गा महोत्तमा ॥४६॥
सुवर्णाक्षी तु या देवी ब्रह्मांडपरिपालिनी ॥
सा मयात्र समाराध्य तीर्थे देवी निवेशिता ॥४७॥
ये चैनां प्रणमिष्यंति पूजयिष्यंति भक्तितः ॥
त्रयस्त्रिंशद्भिः कोटीभिर्देवीभिः पूजिता च तैः ॥४८॥
अपरा च महादुर्गा चर्चिता चेति संस्थिता ।
रसातलतलात्तत्र मयानीता सुभक्तितः ॥४९॥
इयमर्च्या च चिंत्या च वीरत्वं समभीप्सुभिः ॥
बहुभिर्देवदैतेयैर्ददौ तेभ्यश्च वीरताम् ॥५०॥
इयमेव महादुर्गा शूद्रकं वीरसत्तमम् ।
चौरैर्बद्धं कलौ चाग्रे मोक्षयिष्यति विक्रमात् ॥५१॥
ततस्त्वेतां स चाराध्य वीरेंद्रत्वमवाप्स्यति ॥
निहनिष्यति चाक्रम्य कालसेनमुखान्रिपून् ॥५२॥
तस्मादियं समाराध्या वीर्यकामैर्नरैः सदा ॥
चर्चिता या महादुर्गा पश्चिमायां दिशि स्थिता ॥५३॥
तथा त्रैलोक्यविजया तृतीयस्यां दिशि स्थिता ।
यामाराध्य जयं प्राप्तस्त्रिलोक्यां रोहिणीपतिः ॥
सोमलोकान्मयानीता पूजिता जयदा सदा ॥५४॥
एवमेताः पश्चिमायामुत्तरस्यामतः शृणु ॥
तिस्रो देव्यश्चोत्तरस्यामेकवीरामुखाः स्थिताः ॥५५॥
एकवीरेति या देवी साक्षात्सा शिवपूजिता ॥
ययाविष्टो जगत्सर्वं संहरत्येष भूतराट् ॥५६॥
वीर्येणाद्येकवीरायाः कृत्वा लोकांश्च भस्मसात् ॥
युगैकादशपूर्णत्वे विलक्षोऽभूत्स भस्मनि ॥५७॥
एवंविधा त्वेकवीरा शक्तिरेषा सनातनी ॥
पूजिताराधिता चैव सर्वाभीप्सितदा नृणाम् ॥५८॥
ब्रह्मलोकात्समानीता मयाराध्यात्र भारत ॥
नामकीर्तनमप्यस्या दुष्टानां घातनं विदुः ॥५९॥
द्वितीया हरसिद्ध्याख्या देवी दुर्गा महाबला ॥
शीकोत्तरात्समाराध्य मयानीतात्र पांडव ॥६०॥
यदा शीकोत्तरस्थेन पार्वत्या प्रार्थितेन च ॥
रुद्रेण डाकिनीमंत्रः प्रोक्तो देव्याः कृपालुना ॥६१॥
तदा मंत्रप्रभावेण मोहिता गिरिजा सती ॥
तमेवाक्रम्य मांसं च शोणितं च भवं पपौ ॥६२॥
ततो रुद्रशरीरात्तु विनिष्क्रांतार्तिनाशिनी ॥
हरसिद्धिर्महादुर्गा महामंत्रविशारदा ॥६३॥
सा सहस्रभुजा देवी समाक्रम्याभिपीड्य च ॥
मोक्षयामास गिरिशमशापयत तां तथा ॥६४॥
ततः प्रभृति सा लोके हरसिद्धिः प्रकीर्त्यते ॥
देवीनां षष्टिकोटीभिरावृता पूज्यते सुरैः ॥६५॥
एतामाराध्य सुग्रीवप्रमुखा दोषनाशिनीम् ॥
अभूवन्त्सुमहावीर्या डाकिनीसंघनाशनाः ॥६६॥
तस्मादेतां पूजयेत्तु मनोवाक्कायकर्मभिः ॥
डाकिन्याद्या न सर्पंति हरसिद्धेरनंतरम् ॥६७॥
तृतीयेशानकोणस्था चंडिका नवमी स्थिता ॥
वागीशोऽपि लभेत्पारं नैव यस्याः प्रवर्णने ॥६८॥
या पुरा पार्वतीदेहाद्विनिःसृत्य महासुरौ ॥
चंडमुंडौ निहत्यैव भक्षयामास क्रोधतः ॥६९॥
अक्षौहिणीशतं त्वेकं चंडमुंडौ च तावुभौ ॥
नापूर्यतैकग्रासोऽस्याः किंलक्ष्या यात्वियं हि सा ॥७०॥
इयमेवांधकानां च तृषिता शोणितं पुनः ॥
पपौ ततो निजग्राह चांधकं भगवान्भवः ॥७१॥
इयं च रक्तबीजानां कृत्वा पानं च रक्तजम् ॥
अर्पयामास तं देव्याश्चामुण्डापीतशोणितम् ॥७२॥
एषा तृप्यति भक्तानां प्रणामेनापि भारत ॥
अर्बुदानां च कोटीभिर्दैत्यानां पापकर्मिणाम् ॥७३॥
कुण्डं चास्या मया देव्याः पुण्यं निष्पादितं शुभम् ॥
यत्र वै स्पर्शमात्रेण सर्वतीर्थफलं लभेत् ॥७४॥
हरसिद्धिर्देवसिद्धिर्धर्मसिद्धिश्च भारत ॥
विविधा प्राप्यते सिद्धिस्तीर्थेऽस्मिंश्चंडिकारतैः ॥७५॥
यश्च पूजयते देवीं स्वल्पेन बहुनापि वा ॥
कात्यायनी कोटिशतैर्वृता तस्य विभूतिदा ॥७६॥
एवमेता महादुर्गा नवतीर्थेऽत्र संस्थिताः ॥
चतस्रश्चापि दिग्देव्यो नित्यमर्च्याः शुभेप्सुभिः ॥७७॥
आश्विनस्य च मासस्य नवरात्रे विशेषतः ॥
उपोष्य चैकभक्तैर्वा देवीस्त्वेताः प्रपूजयेत् ॥७८॥
बलिपूपकनैवेद्यैस्तर्पणैर्धूपगंधिभिः ॥
तस्य रक्षां चरंत्येता रथ्यासु त्रिकचत्वरे ॥७९॥
भूतप्रेतपिशाचाद्या नोपकुर्युः प्रपीडनम् ॥
आपदो विद्रवंत्याशु योगिन्यो नंदयंति तम् ॥८०॥
पुत्रार्थी लभते पुत्रान्धनार्थी धनमाप्नुयात् ॥
रोगार्तो मुच्यते रोगाद्बद्धो मुच्येत बन्धनात् ॥८१॥
आसां यः कुरुते भक्तिं नरो नारी च श्रद्धया ॥
सर्वान्कामानवाप्नोति यांश्चिंतयति चेतसि ॥८२॥
कामगव्य इमा देव्यश्चिन्तामणिनिभास्तथा ॥
कल्पवल्ल्योऽऽथ भक्तानां प्रतिच्छन्दोऽत्र नव हि ॥८३॥
तथात्र भूतमातास्ति हरसिद्धेस्तु दक्षिणे ॥
तस्या माहात्म्यमतुलं संक्षेपात्प्रब्रवीमि ते ॥८४॥
पूर्वं किल गुहो विद्वान्पुण्ये सारस्वते तटे ॥
भूतप्रेतपिशाचानामाधिराज्येऽभ्यषिच्यत ॥८५॥
स च सर्वाणि भूतानि मर्यादायामधारयत् ॥
एतदन्नं प्रदायैव कृपया भगवान्गुहः ॥८६॥
यदमंत्रहुतं किंचिद्वेदबाह्यं च यत्कृतम् ॥
अश्रद्धया च क्रोधेन तद्वस्तृप्त्यै भविष्यति ॥८७॥
ततस्त्वनेन भोगेन तानि नंदंति कृत्स्नशः ॥
ततः केनापि कालेन श्रद्धयाऽश्रद्धया कृतम् ॥८८॥
पुण्यं तान्येव भूतानि ग्रसंत्याक्रम्य देवताः ॥
ततो देवाः क्षुधार्त्तास्ते गुहायैतन्न्यवेदयन् ॥८९॥
स वै तदाकर्ण्य क्रुद्धो गुहः काल इवाभवत् ॥
तस्य क्रुद्धस्य भ्रूपद्ममध्यात्काचिद्विनिर्गता ॥९०॥
ज्वालामाला सुदुर्दर्शा नारी द्वादशलोचना ॥
सा च प्रणम्य तं प्राह तव शक्तिरहं प्रभो ॥
शीघ्रमादिश मां कृत्ये किं करोमि तवेप्सितम् ॥९१॥
 ॥ स्कन्द उवाच
एतैर्भूतगणैः पापैरुल्लंघ्य मम शासनम् ॥९२॥
मनुष्यदत्तं सकलं भुज्यते स्वेच्छयाधमैः ॥
शीघ्रमेतानि त्वं तस्मान्मर्यादायामुपानय ॥९३॥
एतास्त्वानुव्रजिष्यंति देव्यः कोटिशतं शुभे ॥
ततस्तथेति सा चोक्ता देवीभिः संवृता तदा ॥९४॥
मयूरं समुपास्थाय गुहशक्तिः समागता ॥
सरोजवनमासाद्य भूतसंघानपश्यत ॥९५॥
जघान च समासाद्य देवी नानाविधायुधैः ॥
ततः प्रेतपिशाचाद्या हन्यमाना महारणे ॥९६॥
प्रसादयंति तां देवीं नानावेषैः सुदीनवत् ॥
केचिद्ब्राह्मणवेषैश्च तापसानां तथो क्तिभिः ॥९७॥
नृत्यंति देवि पद्माक्षि प्रसीदेति पुनःपुनः ॥
ततः प्रसन्ना सा देवी व्रियतां स्वेच्छयाऽऽह तान् ॥९८॥
तां ते प्रोचुस्त्राहि नस्त्वं भूतमाता भवेश्वरि ॥
मर्यादां नैव त्यक्ष्यामो वयं स्कन्दविनिर्मिताम् ॥९९॥
ये चैवं त्वां तोषयन्ति तेषां देहि वरान्सदा ॥१००॥
 ॥ श्रीदेव्युवाच
वैशाखे दर्शदिवसे ये चैवं तोषयंति माम् ॥
अरिष्टाभरणैः पुष्पैर्दधिभक्तैश्च पूजनैः ॥
तेषां सर्वोपसर्गा वै यास्यंति विलयं स्फुटम् ॥१०१॥
एवं दत्त्वा वरं देवी मुमुदे भूतसंवृता ॥
एवंप्रभावा सा देवी मयानीतात्र भारत ॥१०२॥
य एनां प्रणमेन्मर्त्यः सर्वारिष्टैर्विमुच्यते ॥१०३॥
एवं प्रभावाः परिकीर्तिता मया समासतस्तीर्थवरेऽत्र देव्यः ॥
चतुर्दशैवार्जुन पूजिता याश्चतुर्दशस्थानवरैर्नृमुख्यैः ॥१०४॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां प्रथमे माहेश्वरखण्डे कौमारिकाखण्डे श्रीदेव्याख्यानवर्णनंनाम सप्तचत्वारिंशत्तमोऽध्यायः ॥४७॥

N/A

References : N/A
Last Updated : July 23, 2024

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP