संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|माहेश्वरखण्ड|कौमारिकाखण्डः|
अध्यायः ५९

कौमारिकाखण्डः - अध्यायः ५९

भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.


 ॥ शौनक उवाच
अत्यद्भुतमिदं सूत गुप्तक्षेत्रस्य पावनम् ॥
महन्माहात्म्यमतुलं कीर्तितं हर्षवर्धनम् ॥१॥
पुनर्यत्सिद्धलिंगस्य पूर्वं माहात्म्यकीर्तने ॥
इत्युक्तं यत्प्रसादेन सिद्धमातुस्तु सेत्स्यति ॥२॥
विजयोनाम पुण्यात्मा साहाय्याच्चंडिलस्य च ॥
को न्वसौ चंडिलोनाम विजयोनाम कस्तथा ३॥
कथं च प्राप्तवान्सिद्धिं सिद्धमातुः प्रसादतः ॥
एतदाचक्ष्व तत्त्वेन श्रोतुं कौतूहलं हि नः ॥४॥
सतां चरित्रश्रवणे कौतुकं कस्य नो भवेत्
 ॥ उग्रश्रवा उवाच
साधु पृष्टमिदं विप्रा दूरांतरितमप्युत ॥५॥
श्रुता द्वैपायनमुखात्कथां वक्ष्यामि चात्र वः ॥
पुरा द्रुपदराजस्य पुत्रीमासाद्य पांडवाः ॥६॥
धृतराष्ट्रमते पश्चादिंद्रप्रस्थं न्यवेशयन् ॥
रक्षिता वासुदेवेन कदाचित्तत्र पांडवाः ॥७॥
उपविष्टाः सभामध्ये कथाश्चक्रुः पृथग्विधाः ॥
देवर्षिपितृभूतानां राज्ञां चापि प्रकीर्तने ॥८॥
क्रियमाणेऽथ तत्रागाद्भीमपुत्रो घटोत्कचः ॥
तं दृष्ट्वा भ्रातरः पंच वासुदेवश्च वीर्यवान् ॥९॥
उत्थाय सहसा पीठादालिलिंगुर्मुदा युताः ॥
स च तान्प्रणतः प्रह्वो ववंदे भीमनंदनः ॥१०॥
साशिषं च ततो राज्ञा स्वोत्संग उपवेशितः ॥
आघ्राय स्नेहतो मूर्ध्नि प्रोक्तश्च जनसंसदि ॥११॥
 ॥ युधिष्ठिर उवाच
कुत आगम्यते पुत्र क्व चायं विहृतस्त्वया ॥
कालः क्वचित्सुखं राज्यं कुरुषे मातुलं तव ॥१२॥
कश्चिद्देवेषु विप्रेषु गोषु साधुषु सर्वदा ॥
हैडंबे नापकुरुषे प्रियमेतद्धरेश्च नः ॥१३॥
हेडंबस्य वनं सर्वं तस्य ये सैन्यराक्षसाः ॥
पाल्यमानास्त्वया साधो वर्धंते जनक्षेमकाः ॥१४॥
कच्चिन्नंदति ते माता भृशं नः प्रियकारिणी ॥
कन्यैव या पुरा भीमं त्यक्त्वा मानं पतिं श्रिता ॥१५॥
इति पृष्टो धर्मराज्ञा स्मयन्हैडंबिरब्रवीत् ॥
हते तस्मिन्दुराचारे मातुलेऽस्मि नियोजितः ॥१६॥
तद्राज्यं शासने स्थाप्य दुष्टान्निघ्नंश्चराम्यहम् ॥
माता कुशलिनी देवी तपो दिव्यमुपाश्रिता ॥१७॥
मामुवाच सदा पुत्र पितॄणां भक्तिकृद्भव ॥
सोऽहं मातुर्वचः श्रुत्वा मेरुपादात्समागतः ॥१८॥
प्रणामायैव भवतां भक्तिप्रह्वेण चेतसा ॥
आत्मानं च महत्यर्थे कस्मिंश्चित्तु नियोजितम् ॥
भवद्भिरहमिच्छामि फलं यस्मादिदं महत् ॥१९॥
यदाज्ञापालनं पुत्रः पितॄणां सर्वदा चरेत् ॥
अथोर्द्ध्वलोकान्स जयेदिह जायेत कीर्तिमान् ॥२०॥
 ॥ सूत उवाच
इत्युक्तवंतं तं राजा परिरभ्य पुनःपुनः ॥
उवाच धर्मराट् पुत्रमानंदाश्रुः सगद्गदम् ॥२१॥
त्वमेव नो भक्तिकारी सहायश्चापि वर्तसे ॥२२॥
एतदर्थं च हैडंबे पुत्रानिच्छंति साधवः ॥
इहामुत्र तारयंते तादृशाश्चापि पुत्रकाः ॥२३॥
अवश्यं यादृशी माता तादृशस्तनयो भवेत् ॥
माता च ते भक्तिमती दृढं नस्त्वं च तादृशः ॥२४॥
अहो सुदुष्करं देवी कुरुते मे प्रिया वधूः ॥
या भर्तृश्रियमुल्लंघ्य तप एव समाश्रिता ॥२५॥
नूनं कामेन भोगैर्वा कृत्यं वध्वा न मे मनाक् ॥
या पुत्रसुखमन्वीक्ष्य परलोकार्थमाश्रिता ॥२६॥
दुष्कुलीनापि या भक्ता सूतेऽपत्यं च भक्तिमत् ॥
कुलीनमेव तन्मन्ये ममेदं मतमुत्तमम् ॥२७॥
एवं बहूनि वाक्यानि तानि तानि वदन्नृपः ॥
धर्मराजः समाभाष्य केशवं वाक्यमब्रवीत् ॥२८॥
पुंडरीकाक्ष जानासि यथा भीमादभूदयम् ॥
जातमात्रस्तु यश्चासीद्यौवनस्थो महाबलः ॥२९॥
अष्टानां देवयोनीनां यतो जन्म च यौवनम् ॥
सद्य एव भवेत्तस्मात्सद्योऽस्यासीच्च यौवनम् ॥३०॥
तदस्योचितदारार्थे सदा चिंतास्ति कृष्ण मे ॥
उचितं बत हैडंबेः क्व कलत्रं करोम्यहम् ॥३१॥
तद्भवान्कृष्णसर्वज्ञ त्रिलोकीमपि वेत्सि च ॥
हैडंबेरुचिता दारान्वक्तुमर्हसि यादव ॥३२॥
 ॥ सूत उवाच
एवमुक्तो धर्मराज्ञा क्षणं ध्यात्वा जनार्दनः ॥
धर्मराजमिदं वाक्यं पदांतरितमब्रवीत् ॥३३॥
अस्ति राजन्प्रवक्ष्यामि दारानस्योचितां शुभाम् ॥
सांप्रतं संस्थिता रम्ये प्राग्ज्योतिषपुरे वरे ॥३४॥
सा च पुत्री मुरोः पार्थ दैत्यस्याद्भुतकर्मणः ॥
योऽसौ नरकदैत्यस्य प्राणतुल्यः सखाऽभवत् ॥३५॥
स च मे निहतो घोरः पाशदुर्गसमन्वितः ॥
नरकश्च दुराचारस्त्वमेतद्वेत्सि सर्वशः ॥३६॥
ततो हते मुरौ दैत्ये मया तस्य सुताव्रजत् ॥
योद्धुं मामतिवीर्यत्वाद्घोरा कामकटंकटा ॥३७॥
तां ततोऽहं महायुद्धे खड्गखेटकधारिणीम् ॥
अयोधयं महाबाणैः सुशार्ङ्गधनुषश्च्युतैः ॥३८॥
खड्गेन चिच्छेद बाणान्मम सा च मुरोः सुता ॥
समागम्य च खड्गेन गरुडं मूर्ध्न्यताडयत् ॥३९॥
स च मोहसमाविष्टो गरुडोऽभूदचेतनः ॥
ततस्तस्या वधार्थाय मया चक्रं समुद्यतम् ॥४०॥
चक्रं समुद्यतं दृष्ट्वा मया तस्मिन्रणाजिरे ॥
कामाख्या नाम मां देवी पुरः स्थित्वा वचोऽब्रवीत् ॥४१॥
नैनां हंतुं भवानर्हो रक्षैतां पुरुषोत्तम ॥
अजेयत्वं मया ह्यस्या दत्तं खड्गं च खेटकम् ॥४२॥
बुद्धिरप्रतिमा चापि शक्तिश्च परमा रणे ॥
ततस्त्वया त्रिरात्रेऽपि न जितासीन्मुरोः सुता ॥४३॥
एवमुक्ते तदा देवीं वचनं चाहमब्रवम् ॥
अयमेष निवृत्तोऽस्मि वारयैनां च त्वं शुभे ॥४४॥
ततश्चालिंग्य तां भक्तां कामाख्या वाक्यमब्रवीत् ॥
भद्रे रणान्निवर्तस्व नायं हंतुं कथंचन ॥४५॥
शक्यः केनापि समरे माधवो रणदुर्जयः ॥
नाभूदस्ति भविष्यो वा य एनं संयुगे जयेत् ॥४६॥
अपि वा त्र्यंबकः पुत्रि नैनं शक्तः कुतोऽन्यकः ॥
तस्मादेनं नमस्कृत्य भाविनं श्वशुरं शुभे ॥४७॥
रणादस्मान्निवर्तस्व तवोचितमिदं स्फुटम् ॥
अस्य भ्रातुर्हि भीमस्य स्नुषा त्वं च भविष्यसि ॥४८॥
तस्मात्त्वं श्वशुरं भद्रे सम्मानय जनार्दनम् ॥
न च शोकस्त्वया कार्यः पितरं प्रति पंडिते ॥४९॥
जातस्य हि ध्रुवो मृत्युर्ध्रुव जन्म मृतस्य च ॥
बहवश्चाऽस्य वेत्तारो वद केनापि वार्यते ॥५०॥
ऋषींश्च देवांश्च महासुरांश्च त्रैविद्यविद्यान्पुरुषान्नृपांश्च ॥
कान्मृत्युरेको न पतेत काले परावरज्ञोऽत्र न मुह्यते क्वचित् ॥५१॥
श्लाघ्य एव हि ते मृत्युः पितुरस्माज्जनार्दृनात् ॥
सर्वपातकनिर्मुक्तो गतोऽसौ धाम वैष्णवम् ॥५२॥
एवं कामाख्यया प्रोक्ता सा च कामकटंकटा ॥
त्यक्त्वा क्रोधं च संवृत्य गात्राणि प्रणता च माम् ॥५३॥
तामहं साशिषं चापि प्रावोचं भरतर्षभ ॥
अस्मिन्नेव पुरे तिष्ठ भगदत्तप्रपूजिता ॥५४॥
मया देव्या पृथिव्या च भगदत्तः कृतो नृपः ॥
स ते पूजां बहुविधां करिष्यति स्वसुर्यथा ॥५५॥
वसंती चात्र तं वीरं हैडिंबं पतिमाप्स्यसि ॥
एवमाश्वास्य तां देवीं मौर्वीं चाहं व्यसर्जयम् ॥५६॥
सा स्थिता च पुरे तत्र गतोऽहं शक्रसद्म च ॥
ततो द्वारवतीं प्राप्य त्वया सह समागतः ॥५७॥
एवमेषोचिता दारा हैडंबेर्विद्यते शुभा ॥
कामाख्ये च रणे घोरा या विद्युदिव भासते ॥५८॥
न च रूपं वर्णितं मे श्वशुरस्योचितं यतः ॥
साधोर्हि नैतदुचितं सर्वस्त्रीणां प्रवर्णनम् ॥५९॥
पुनरेकश्च समयः कृतस्तं शृणु यस्तया ॥
यो मां निरुत्तरां प्रश्ने कृत्वैव विजयेत्पुमान् ॥६०॥
यो मे प्रतिबलश्चापि स मे भर्ता भविष्यति ॥
एवं च समयं श्रुत्वा बहवो दैत्यराक्षसाः ॥६१॥
तस्या जयार्थमगमंस्तेऽपि जित्वा हतास्तया ॥
यो य एनां गतः पूर्वं न स भूयो न्यवर्तत ॥६२॥
वह्नेरिव प्रभां दीप्तां पतंगानां समुच्चयः ॥
एवमेतादृशीं मौर्वीं जेतुमुत्सहते यदि ॥६३॥
घटोत्कचो महावीर्यो भार्यास्य नियतं भवेत् ॥६४॥
 ॥ युधिष्ठिर उवाच
अलं सर्वगुणैस्तस्या यस्यास्त्वेको गुणो महान् ॥
क्रियते किं हि क्षीरेण यदि तद्विषमिश्रितम् ॥६५॥
प्राणाधिकं भैमसेनिं कथं केवलसाहसात् ॥
क्षिपेयं तव वाक्यानां शुद्धानां चाथ कोविदम् ॥६६॥
अन्या अपि स्त्रियः संति देशे देशे जनार्दन ॥
बह्व्यस्तासां वरां कांचिद्योषितं वक्तुमर्हसि ॥६७॥
 ॥ भीम उवाच
सम्यगुक्तं केशवेन वाक्यं बह्वर्थमुत्तमम् ॥
राज्ञा पुनः स्नेहवशाद्यदुक्तं तन्न भाति मे ॥६८॥
कार्ये दुःसाध्य एव स्यात्क्षत्रियस्य पराक्रमः ॥
करींद्रस्येव यूथेषु गजानां न मृगेषु च ॥६९॥
आत्मा प्रख्यातिमानेयः सर्वथा वीरपुंगवैः ॥
सा च ख्यातिः कथं जायेद्दुःसाध्यकरणादृते ॥७०॥
न ह्यात्मवशगं पार्थ हैडंबेरस्य रक्षणम् ॥
येन दत्तस्त्वयं धात्रा स एनं पालयिष्यति ॥७१॥
सर्वथोच्चपदारोहे यत्नः कार्यो विजानता ॥
तन्न सिध्यति चेद्दैवान्नासौ दोषो विजानतः ॥७२॥
यथा देवव्रतस्त्वेको जह्रे काशिसुताः पुरा ॥
तथैक एव हैडंबिर्मौर्वीं प्राप्नोतु मा चिरम् ॥७३॥
 ॥ अर्जुन उवाच
केवलं पौरुषपरं भीमेनोक्तमिदं वचः ॥
अबलं दैवहेतुत्वात्प्रबलं प्रतिभाति मे ॥७४॥
न मृषा हि वचो ब्रूते कामाख्या या पुराऽब्रवीत् ॥
भीमसेनसुतः पाणिं तव भद्रे ग्रहीष्यति ॥७५॥
अनेन हेतुना यातु शीघ्रं तत्र घटोत्कचः ॥
इति मे रोचते कृष्ण तव किं ब्रूहि रोचते ॥७६॥
 ॥ कृष्ण उवाच
रोचते मे वचस्तुभ्यं भीमस्य च महात्मनः ॥
न हि तुल्यो भैमसेनेर्बुद्धौ वीर्ये च कश्चन ॥७७॥
अंतरात्मा च मे वेत्ति प्राप्तामेव मुरोः सुताम् ॥
तच्छीघ्रं यातु हैडंबिस्त्वं च किं पुत्र मन्यसे ॥७८॥
 ॥ घटोत्कच उवाच
न हि न्याय्याः स्वका वक्तुं पूज्यानामग्रतो गुणाः ॥
प्रवृत्ता एव भासंते सद्गुणाश्च रवेः कराः ॥७९॥
सर्वथा तत्करिष्यामि पितरो येन मेऽमलाः ॥
लज्जिष्यंति न संसत्सु मया पुत्रेण पांडवाः ॥८०॥
एवमुक्त्वा महाबाहुरुत्थाय प्रणनाम तान् ॥
जयाशीर्भिश्च पितृभिर्वर्द्धितो गंतुमैच्छत ॥८१॥
तं गतुकाममाहेदमभिनंद्य जनार्दनः ॥
कथाकथनकाले मां स्मरेथास्त्वं जयावहम् ॥८२॥
यथा बुद्धिं सुदुर्भेद्यां वर्धयामि बलं च ते ॥
इत्युक्त्वालिंग्य तं कृष्णो व्यससर्जत साशिषम् ॥८३॥
ततो हिडंबातनयो महौजाः सूर्याक्षकालाक्षमहोदरानुगः ॥
वियत्पथं प्राप्य जगाम तत्पुरं प्राग्ज्योतिषं नाम दिनव्यपाये ॥८४
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां प्रथमे माहेश्वरखण्डे कौमारिकाखण्डे बर्बरिकोपा ख्याने घटोत्कचस्य प्राग्ज्योतिषपुरं प्रति गमनवर्णनंनामैकोनषष्टितमोऽध्यायः ॥५९॥

N/A

References : N/A
Last Updated : July 23, 2024

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP