संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|माहेश्वरखण्ड|कौमारिकाखण्डः|
अध्यायः ५७

कौमारिकाखण्डः - अध्यायः ५७

भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.


 ॥ नारद उवाच
ततो विप्रा नारदश्च समाराध्य महेश्वरम् ॥
महीनगरके पुण्ये स्थापयामास शंकरम् ॥१॥
लोकानां च हितार्थाय केदारं लिंगमुत्तमम् ॥
अत्रीशादुत्तरे भागे महापातकनाशनम् ॥२॥
अत्रिकुण्डे नरः स्नात्वा श्राद्धं कृत्वा यथाविधि ॥
अत्रीशं च नमस्कृत्य केदारं यः प्रपश्यति ॥३॥
मातुः स्तन्यं पुनर्नैव स पिबेन्मुक्तिभाग्भवेत् ॥
 ततो रुद्रो नीलकंठं नारदाय महात्मने ॥४॥
स्वयं दत्त्वा स्वयं तस्थौ महीनगरके शुभे ॥
कोटितीर्थे नरः स्नात्वा नीलकंठं प्रपश्यति ॥५॥
जयादित्यं नमस्कृत्य रुद्रलोकमवाप्नुयात् ॥
जयादित्यं पूजयंति कूपे स्नात्वा नरोत्तमाः ॥६॥
न तेषां वंशनाशोऽस्ति जयादित्यप्रसादतः ॥
इदं ते कथितं पार्थ महीनगरकस्य च ॥७॥
आख्यानं सकलं श्रुत्वा सर्वपापैः प्रमुच्यते ॥८॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां प्रथमे माहेश्वरखण्डे कौमारिकाखंडे नीलकंठमाहात्म्यवर्णनंनाम सप्तपञ्चाशत्तमोऽध्यायः ॥५७॥

N/A

References : N/A
Last Updated : July 23, 2024

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP