संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|माहेश्वरखण्ड|कौमारिकाखण्डः|
अध्यायः ०४

कौमारिकाखण्डः - अध्यायः ०४

भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.


 ॥ नारद उवाच ॥
ततस्त्वहं चिंतयामि कथं स्थानमिदं भवेत् ॥
ममायत्तं यतो राज्ञां भूमिरेषा सदा वशे ॥१॥
यत्त्वहं धर्मवर्णाणं गत्वा याचे ह मेदिनीम् ॥
अर्पयत्येव स च मे याचितो न पुनः परः ॥२॥
तथा हि मुनिभिः प्रोक्तं द्रव्यं त्रिविधमुत्तमम् ॥
शुक्लं मध्यं च शबलमधमं गृष्णमुच्यते ॥३॥
श्रुतेः संपादनाच्छिष्यात्प्राप्तं शुक्लं च क्न्ययया ॥
तथा कुसीदवाणिज्यकृषियाचितमेव च ॥४॥
शबलं प्रोच्यते सद्भिर्द्यूतचौर्येण साहसैः ॥
व्याजेनोपार्जितं यच्च तत्कृष्णं समुदाहृतम् ॥५॥
शुक्लवित्तेन यो धर्मं प्रकुर्याच्छ्रद्धयान्वितः ॥
तीर्थं पात्रं समासाद्य देवत्वे तत्समश्नुते ॥६॥
राजसेन च भावेन वित्तेन शबलेन च ॥
प्रदद्याद्दानमर्थिभ्यो मानुष्यत्वे तदश्नुते ॥७॥
तमोवृतस्तु यो दद्यात्कृष्णवित्तेन मानवः ॥
तिर्यक्त्वे तत्फलं प्रेत्य समश्राति नराधमः ॥८॥
तत्तु याचितद्रव्यं मे राजसं हि स्फुटं भवेत् ॥
अथ ब्राह्मणभावेन नृपं याचे प्रतिग्रहम् ॥९॥
तदप्यहो चातिकष्ट हेतुना तेन मे मतम् ॥
अयं प्रतिग्रहो घोरो मध्वास्वादो विषोपमः ॥१०॥
प्रतीग्रहेण संयुक्तं ह्यमीवमाविशोद्द्विजम् ॥
तस्मादहं निवृत्तश्च पापादस्मात्प्रतिग्रहात् ॥११॥
ततः केनाप्युपायेन द्वयोरन्यतरेण तु ॥
स्वायत्तं स्थानक कुर्म एतत्सञ्चिंतये मुहुः ॥१२॥
यथा कुभार्यः पुरुषश्चिन्तांतं न प्रपद्यते ॥
तथैव विमृशंश्चाहं चिंतांतं न लभाम्यणु ॥१३॥
एतस्मिन्नन्तरे पार्थ स्नातुं तत्र समागताः ॥
बहवो मुनयः पुण्ये महीसागरसंगमे ॥१४॥
अहं तानब्रवं सर्वान्कुतो यूयं समागताः ॥
ते मामूचुः प्रणम्याथ सौराष्ट्रविषये मुने ॥१५॥
धर्मवर्मेति नृपतिर्योऽस्य देशस्य भूपतिः ॥
स तु दानस्य तत्त्वार्थी तेपे वर्षगणान्बहून् ॥१६॥
ततस्तं प्राह खे वाणी श्लोकमेकं नृप श्रृणु ॥
द्विहेतु षडधिष्ठानं षडंगं च द्विपाकयुक् ॥१७॥
चतुःप्रकारं त्रिविधं त्रिनाशं दानमुच्यते ॥
इत्येकं श्लोकमाभाष्य खे वाणी विरराम ह ॥१८॥
श्लोकस्यार्थं नावभाषे पृच्छमानापि नारद ॥
ततो राजा धर्मवर्मा पटहेनान्वघोषयत् ॥१९॥
यस्तु श्लोकस्य चैवास्य लब्धस्य तपसा मया ॥
करोति सम्यगव्याख्यानं तस्य चैतद्ददाम्यहम् ॥२०॥
गवां च सप्त नियुतं सुवर्णं तावदेव तु ॥
सप्तग्रामान्प्रयच्छामि श्लोकव्याख्यां करोति यः ॥२१॥
पटहेनेति नृपतेः श्रुत्वा राज्ञो वचो महत् ॥
आजग्मुर्बहुदेशीया ब्राह्मणाः कोटिशो मुने ॥२२॥
पुनर्दुर्बोधविन्यासः श्लोकस्तैर्विप्रपुंगवैः ॥
आख्यातुं शक्यते नैव गुडो मूकैर्यथा मुने ॥२३॥
वयं च तत्र याताः स्मो धनलोभेन नारद ॥
दुर्बोधत्वान्नमस्कृत्य श्लोकं चात्र समागताः ॥२४॥
दुर्व्याख्येयस्त्वयं श्लोको धनं लभ्यं न चैव नः ॥
तीर्थयात्रां कथं यामीत्येवाचिंत्यात्र चागताः ॥२५॥
एवं फाल्गुन तेषां तु वचः श्रुत्वा महात्मनाम् ॥
अतीव संप्रहृष्टोऽहं तान्विसृज्येत्यचिंतयम् ॥२६॥
अहो प्राप्त उपायो मे स्थानप्राप्तौ न संशयः ॥
श्लोकं व्याख्याय नृपतेर्लप्स्ये स्थानं धनं तथा ॥२७॥
विद्यामूल्येन नैवं च याचितः स्यात्प्रतिग्रहः ॥
सत्यमाह पुराणार्षिर्वासुदेवो जगद्गुरुः ॥२८॥
धर्मस्य यस्य श्रद्धा स्यान्न च सा नैव पूर्यते ॥
पापस्य यस्य श्रद्धास्यान्न च सापि न पूर्यते ॥२९॥
एवं विचिंत्य विद्वांसः प्रकुर्वंति यथारुचि ॥
सत्यमेतद्विभोर्वाक्यं दुर्लभोऽपि यथा हि मे ॥३०॥
मनोरथोऽयं सफलः संभूतोंकुरितः स्फुटम् ॥
एनं च दुर्विदं श्लोकमहं जानामि सुस्फुटम् ॥३१॥
अमूर्तैः पितृभिः पूर्वमेव ख्यातो हि मे पुरा ॥
एवं हर्षान्वितः पार्थ संचिंत्याऽहं ततो मुहुः ॥३२॥
प्रणम्य तीर्थं चलितो महीसागरसंगमम् ॥
वृद्धब्राह्मणरूपेण ततोहं यातवान्नृपम् ॥३३॥
इदं भणितवानस्मि श्लोकव्याख्यां नृप श्रृणु ॥
यत्ते पटहविख्यातं दानं च प्रगुणीकुरु ॥३४॥
एवमुक्ते नृपः प्राह प्रोचुरेवं हि कोटिशः ॥
द्विजोत्तमाः पुनर्नस्यं प्रोक्तुमर्थो हि शक्यते ॥३५॥
के द्विहेतू षडाख्यातान्यधिष्ठानानि कानि च ॥
कानि चैव षडंगानि कौ द्वौ पाकौ तथा स्मृतौ ॥३६॥
के च प्रकाराश्चत्वारः किंस्वित्तत्त्रिविधं द्विज ॥
पयो नाशाश्च के प्रोक्ता दानस्यैतत्स्फुटं वद ॥३७॥
स्फुटान्प्रश्नानिमान्सप्त यदि वक्ष्यसि ब्राह्मण ॥
ततो गवां सप्तनियुतं सुवर्णं तावदेव तु ॥३८॥
सप्त ग्रामांश्च दास्यामि नो चेद्यास्यसि स्वं गृहम् ॥
इत्युक्त्वा वचनं पार्थ सौराष्ट्रस्वामिनं नृपम् ॥३९॥
धर्मवर्माणमस्त्वेवं प्रावोचमवधारय ॥
श्लोकव्याख्यां स्फुटां वक्ष्ये दानहेतू च तौ श्रृणु ॥४०॥
अल्पत्वं वा बहुत्वं वा दानस्याभ्युदयावहम् ॥
श्रद्धा शक्तिश्च दानानां वृद्ध्यक्षयकरेहि ते ॥४१॥
तत्र श्रद्धाविषये श्लोका भवन्ति ॥
कायक्लेशैश्च बहुभिर्न चैवारथस्य राशिभिः ॥४२॥
धर्मः संप्राप्यते सूक्ष्मः श्रद्धा धर्मोऽद्भुतं तपः ॥
श्रद्धा स्वर्गश्च मोक्षश्च श्रद्धा सर्वमिदं जगत् ॥४३॥
सर्वस्वं जीवितं चापि दद्यादश्रद्धया यदि ॥
नाप्नुयात्स फलं किंचिच्छ्रद्दधानस्ततो भवेत् ॥४४॥
श्रद्धया साध्यते धर्मो महद्भिर्नार्थराशिभिः ॥
अकिंचना हि मुनयः श्रद्धावंतो दिवं गताः ॥४५॥
त्रिविधा भवति श्रद्धा देहिनां सा स्वभावजा ॥
सात्त्विकी राजसी चैव तामसी चेति तां श्रृणु ॥४६॥
यजंते सात्त्विका देवान्यक्षरक्षांसि राजसाः ॥
प्रेतान्भूतपिशाचांश्च यजंते तामसा जनाः ॥४७॥
तस्माच्छ्रद्धावता पात्रे दत्तं न्यायार्जितं हि यत् ॥
तेनैव भगवान्रुद्रः स्वल्पकेनापि तुष्यति ॥४८॥
शक्तिविषये च श्लोका भवंति ॥
कुटुंबभुक्तवसनाद्देयं यदतिरिच्यते ॥
मध्वास्वादो विषं पश्चाद्दातुर्धर्मोऽन्यथा भवेत् ॥४९॥
शक्ते परजने दाता स्वजने दुःखजीविनि ॥
मध्वापानविषादः स धर्माणां प्रतिरूपकः ॥५०॥
भृत्यानामुपरोधेन यत्करोत्यौर्ध्वदैहिकम् ॥
तद्भवत्यसुखोदकं जीवतोऽस्य मृतस्य च ॥५१॥
सामान्यं याचितं न्यासमाधिर्दाराश्च दर्शनम् ॥
अन्वाहितं च निक्षेपः सर्वस्वं चान्वये सति ॥५२॥
आपत्स्वपि न देयानि नववस्तूनि पंडितैः ॥
यो ददाति स मूढात्मा प्रायाश्चित्तीयते नरः ॥५३॥
इति ते गदितौ राजन्द्वौ हेतू श्रूयतामतः ॥
अधिष्ठानानि वक्ष्यामि षडेव श्रृणु तान्यपि ॥५४॥
धर्ममर्थं च कामं च व्रीडाहर्षभयानि च ॥
अधिष्ठानानि दानानां षडेतानि प्रचक्षते ॥५५॥
पात्रेभ्यो दीयते नित्यमनपेक्ष्य प्रयोजनम् ॥
केवलं धर्मबुद्ध्या यद्धर्मदानं तदुच्यते ॥५६॥
धनिनं धनलोभेन लोभयित्वार्थमाहरेत् ॥
तदर्थदानमित्याहुः कामदानमतः श्रृणु ॥५७॥
प्रयोजनमपेक्ष्यैव प्रसंगाद्यत्प्रदीयते ॥
अनर्हेषु सरागेण कामदानं तदुच्यते ॥५८॥
संसदि व्रीडयाऽऽश्रुत्य आर्थिभ्यः प्रददाति च ॥
प्रतिदीयते च यद्दानं व्रीडादानमिति श्रुतम् ॥५९॥
दृष्ट्वा प्रियाणि श्रुत्वा वा हर्षवद्यत्प्रदीयते ॥
हर्षदानमिति प्रोक्तं दानं तद्धर्मचिंतकैः ॥६०॥
आक्रोशानर्थहिंसानां प्रतीकाराय यद्भवेत् ॥
दीयतेऽनुपकर्तृभ्यो भयदानं तदुच्यते ॥६१॥
प्रोक्तानि षडधिष्ठानान्यंगान्यपि च षट्च्छ्रुणु ॥
दाता प्रतिग्रहीता च शुद्धिर्देयं च धर्मयुक् ॥६२॥
देशकालौ च दानानामंगान्येतानि षड्विदुः ॥
अपरोगी च धर्मात्मा दित्सुरव्यसनः शुचिः ॥६३॥
अनिंद्याजीवकर्मा च षड्भिर्दाता प्रशस्यते ॥
अनृजुश्चाश्रद्दधानोऽशांतात्मा धृष्टभीरुकः ॥६४॥
असत्यसंधो निद्रालुर्दातायं तामसोऽधमः ॥
त्रिशुक्लः कृशवृत्तिश्च घृणालुः सकलेंद्रियः ॥६५॥
विमुक्तो योनिदोषेभ्यो ब्राह्मः पात्रमुच्यते ॥
सौमुख्यादभिसंप्रीतिरर्थिनां दर्शने सदा ॥
सत्कृतिश्चानसूया च तदा शुद्धिरिति स्मृता ॥६६॥
अपराबाधमक्लेशं स्वयत्नेनार्जितं धनम् ॥
स्वल्पं वा विपुलं वापि देयमित्यभिधीयते ॥६७॥
तेनापि किल धर्मेण उद्दिश्य किल किंचन ॥
देयं तद्धर्मयुगिति शून्ये शून्यं फलं मतम् ॥६८॥
न्यायेन दुर्लभं द्रव्यं देशे कालेपि वा पुनः ॥
दानार्हौ देशकालौ तौ स्यातां श्रेष्ठौ न चान्यथा ॥६९॥
षंडगानीति चोक्तानि द्वौ च पाकावतः श्रृणु ॥
द्वौ पाकौ दानजौ प्राहुः परत्राथ त्विहोच्यते ॥७०॥
सद्भ्यो यद्दीयते किंचित्तत्परत्रोपतिष्ठति ॥
असत्सु दीयते किंचित्तद्दानमिह भुज्यते ॥७१॥
द्वौ पाकाविति निर्दिष्टौ प्रकारांश्चतुरः श्रृणु ॥
ध्रुवमाहुस्त्रिकं काम्यं नैमित्तिकमिति क्रमात् ॥७२॥
वैदिको दानमार्गोऽयं चतुर्धा वर्ण्यते द्विजैः ॥
प्रपारामतडागादिसर्वकामफलं ध्रुवम् ॥७३॥
तदाहुस्त्रिकामित्याहुर्दीयते यद्दिनेदिने ॥
अपत्यविजयैश्वर्यस्त्रीबालार्थं प्रदीयते ॥७४॥
इच्छासंस्थं च यद्दानं काम्यमित्यभिधीयते ॥
कालापेक्षं क्रियापेक्षं गुणापेक्षमिति स्मृतौ ॥७५॥
त्रिधा नौमित्तिकं प्रोक्तं सदा होमविवर्जितम् ॥
इति प्रोक्ताः प्रकारास्ते त्रैविध्यमभिधीयते ॥७६॥
अष्टोत्तमानि चत्वारि मध्यमानि विधानतः ॥
कानीयसानि शेषाणि त्रिविधत्वमिदं विदुः ॥७७॥
गृहप्रासादविद्याभूगोकूपप्राणहाटकम् ॥
एतान्युत्तमदानानि उत्तमद्रव्यदानतः ॥७८॥
अन्नारामं च वासांसि हयप्रभृतिवाहनम् ॥
दानानि मध्यमानीति मध्यमद्रव्यदानतः ॥७९॥
उपानच्छत्रपात्रादिदधिमध्वासनानि च ॥८०॥
दीपकाष्ठोपलादीनि चरमं बहुवार्षिकम् ॥
इति कानीयसान्याहुर्दाननाशत्रयं श्रृणु ॥८१॥
यद्दत्त्वा तप्यते पश्चादासुरं तद्धृथा मतम् ॥
अश्रद्धया यद्ददाति राक्षसं स्याद्वृथैव तत् ॥८२॥
यच्चाक्रुश्य ददात्यंग दत्त्वा वाक्रोशति द्विजम् ॥
पैशाचं तद्वृथा दानंदाननाशास्त्रयस्त्वमी ॥८३॥
इति सप्तपदैर्बद्धं दानमाहात्म्य मुत्तमम् ॥
शक्त्या ते कीर्तितं राजन्साधु वाऽसाधु वा वद ॥८४॥
 ॥धर्मवर्मोवाच ॥
अद्य मे सफलं जन्म अद्य मे सफलं तपः ॥
अद्य ते कृतकृत्योऽस्मि कृतः कृतिमतां वर ॥८५॥
पठित्वा सकलं जन्म ब्रह्मचारि यथा वृथा ॥
बहुक्लेशात्प्राप्तभार्यः सावृथाऽप्रियवादिनी ॥८६॥
क्लेशेन कृत्वा कूपं वा स च क्षारोदको वृथा ॥
बहुक्लेशैर्जन्म नीतं विना धर्मं तथा वृथा ॥८७॥
एवं मे यद्वृथा नाम जातं तत्सफलं त्वया ॥
कृतं तस्मान्नमस्तुभ्यं द्विजेभ्यश्च नमोनमः ॥८८॥
सत्यमाह पुरा विष्णुः कुमारान्विष्णुसद्भनि ॥८९॥
नाहं तथाद्भि यजमानहविर्वितानश्चयोतद्‌घृतप्लुतमदन्हुतभुङ्मुखेन ॥
यद्ब्राह्मणस्य मुखतश्चरतोनुघासं तुष्टस्य मय्यवहितैर्निजकर्मपाकैः ॥९०॥
तन्मयाऽशर्मणा वापि यद्विप्रेष्वप्रियं कृतम् ॥
सर्वस्य प्रभवो विप्रास्तत्क्षमतां प्रसादये ॥९१॥
त्वं च कोसि न सामान्यः प्रणम्याहं प्रसादये ॥
आत्मानं ख्यापय मुने प्रोक्तश्चेत्यब्रवं तदा ॥९२॥
॥ नारद उवाच ॥
नारदोऽस्मि नृपश्रेष्ठ स्थानकार्थी समागतः ॥
प्रोक्तं च देहि मे द्रव्यं भूमिं च स्थानहेतवे ॥९३॥
यद्यपीयं देवतानां भूमिर्द्रव्यं च पार्थिव ॥
तथापि यस्मिन्यः काले राजा प्रार्थ्यः स निश्चितम् ॥९४॥
सहीश्वरस्यावतारो भर्त्ता दाताऽभयस्य सः ॥
तथैव त्वामहं याचे द्रव्यशुद्धिप्सया ॥
पूर्व ममालयं देहि देयार्थे प्रार्थनापरः ॥९५॥
 ॥राजोवाच ॥
यदि त्वं नारदो विप्र राज्यमस्त्वखिलं तव ॥
अहं हि ब्राह्मणानां ते दास्यं कर्ता न संशयः ॥९६॥
॥ नारद उवाच ॥
यद्यस्माकं भवान्भक्तस्तत्ते कार्यं च नो वचः ॥९७॥
सर्वं यत्तद्देहि मे द्रव्यमुक्तं भुवं च मे सप्तगव्यूतिमात्राम् ॥
भूयात्त्वत्तोप्यस्य रक्षेति सोऽपि मेने त्वहं चिंतये चार्थशेषम् ॥९८॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां प्रथमे माहेश्वरखण्डे कौमारि काखण्डे नारदार्जुनसंवादे दानभेदप्रशंसावर्णनंनाम चतुर्थोऽध्यायः ॥४॥

N/A

References : N/A
Last Updated : July 21, 2024

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP