संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|माहेश्वरखण्ड|कौमारिकाखण्डः| अध्यायः ३८ कौमारिकाखण्डः अध्यायः ०१ अध्यायः ०२ अध्यायः ०३ अध्यायः ०४ अध्यायः ०५ अध्यायः ०६ अध्यायः ०७ अध्यायः ०८ अध्यायः ०९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ विषयानुक्रमणिका कौमारिकाखण्डः - अध्यायः ३८ भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे. Tags : puransanskritskand puranपुराणसंस्कृतस्कंद पुराण अध्यायः ३८ Translation - भाषांतर ॥ नारद उवाच ॥भूमेर्योजनलक्षे च कौरव्य रविमंडलम् ॥योजनानां सहस्राणि भास्करस्य रथो नव ॥१॥ईषादंडस्ततैवास्य द्विगुणः परिकीर्तितः ॥सार्धकोटिस्तथा सप्त नियुतानि विवस्वतः ॥२॥योजनानां तु तस्याक्षस्तत्र चक्रं प्रतिष्ठितम् ॥त्रिनाभि तच्च पंचारं षण्नेमि परिकीर्तितम् ॥३॥चत्वारिंशत्सहस्राणि द्वितीयोऽक्षोऽपि विस्तृतः ॥पंच चान्यानि सार्द्धानि स्यन्दनस्य तु पांडव ॥४॥अक्षप्रमाणमुभयोः प्रमाणं तद्युगार्द्धयोः ॥ह्रस्वोऽक्षस्तद्युगार्द्धं च ध्रुवाधारं रथस्य वै ॥५॥द्वितीयोऽक्षस्तथा सव्ये चक्रं तन्मानसे स्थितम् ॥हयाश्च सप्त च्छांदांसि तेषां नामानि मे श्रृणु ॥६॥गायत्री च बृहत्युष्णिग्जगती त्रिष्टुवेव च ॥अनुष्टुप्पंक्तिरित्युक्ताश्छंदांसि हरयो रवेः ॥७॥नैवास्तमनमर्कस्य नोदयः सर्वदा सतः ॥उदयास्तमनाक्यं हि दर्शनादर्शनं रवेः ॥८॥शक्रदीनां पुरे तिष्ठन्स्पृशत्येष पुरत्रयम् ॥विकीर्णोऽतो विकर्णस्थस्त्रिकोणार्धपुरे तथा ॥९॥अयनस्योत्तरस्यादौ मकरं याति भास्करः ॥ततः कुम्भं च मीनं च राशे राश्यंतरं तथा ॥१०॥त्रिष्वेतेष्वथ भुक्तेषु ततो वैषुवतीं गतिम् ॥प्रयाति सविता कुर्वन्नहोरात्रं च तत्समम् ॥११॥ततो रात्रिः क्षयं याति वर्धते तु दिनं दिनम् ॥ततश्च मिथुनस्यांते परां काष्ठामुपागतः ॥१२॥राशिं कर्कटकं प्राप्य कुरुते दक्षिणायांनम् ॥कुलालचक्रपर्यंतो यथा शीघ्रं निवर्तते ॥१३॥दक्षिणायक्रमे सूर्यस्तथा शीघ्रं निवर्तते ॥अतिवेगितया कालं वायुमार्गबलाच्चरन् ॥१४॥तस्मात्प्रकृष्टां भूमिं स कालेनाल्पेन गच्छति ॥कुलालचक्रमध्यस्थो यता मंदं प्रसर्पति ॥१५॥तथोदगयने सूर्यः सर्पते मंदविक्रमः ॥तस्माद्दीर्घेण कालेन भूमिमल्पं निगच्छति ॥१६॥संध्याकाले च मंदेहाः सूर्यमिच्छंति खादितुम् ॥प्रजापतिकृतः शापस्तेषां फाल्गुन रक्षसाम् ॥१७॥अक्षयत्वं शरीराणां मरणं च दिनेदिने ॥ततः सूर्यस्य तैर्युद्धं भवत्यत्यंतदारुणम् ॥१८॥ततो गायत्रिपूतं यद्द्विजास्तोयं क्षिपंति च ॥तेन दह्यंति ते पापाः संध्योपासनतः सदा ॥१९॥ये संध्यां नाप्युपासंते कृतघ्ना यांति रौरवम् ॥प्रतिमासं पृथक्सूर्य ऋषिगन्धर्वराक्षसैः ॥२०॥अप्सरोग्रामणीसर्पैरथो याति च सप्तभिः ॥धातार्यमा मित्रवरुणौ विवस्वानिन्द्र एव च ॥२१॥पूषा च सविता सोऽथ भगस्त्वष्टा च कीर्तितः ॥विष्णुश्चैत्रादिमासेषु आदित्या द्वादश स्मृताः ॥२२॥ततो दिवाकरस्थानान्मंडलं शशिनः स्थितम् ॥लक्षमात्रेण तस्यापि त्रिचक्रो रथ उच्यते ॥२३॥कुंदाभा दश चैवाश्वा वामदक्षिणतो युताः ॥पूर्णे शतसहस्रे च योजनानां निशाकरात् ॥२४॥नक्षत्रमण्डलं कृत्स्नमुपरिष्टात्प्रकाशते ॥चतुर्दश चार्बुदान्यप्यशीतिः सरितांपतिः ॥२५॥विंशतिश्च तथा कोट्यो नक्षत्राणां प्रकीर्तिताः ॥द्वे लक्षे चोत्तरे तस्माद्बुधो नक्षत्रमण्डलात् ॥२६॥वाय्वग्निद्रव्यसंभूतो रथश्चंद्रसुतस्य च ॥पिशंगैस्तुर--- सोष्टाभिर्वायवेगिभिः ॥२७॥द्विलक्षश्चोत्तरे तस्माद्बुधाच्चाप्युशना स्मृतः ॥शुक्रस्यापि रथोष्टाभिर्युक्तोऽभूत्संभवैर्हयैः ॥२८॥लक्षद्वयेन भौमस्य स्मृतो देवपुरोहितः ॥अष्टाभिः पांडुरैरश्वैर्युक्तोऽस्य कांचनोरथः ॥२९॥सौरिर्बृहस्पतेश्चोर्ध्वं द्विलक्षे समुपस्थितः ॥आकाशसंभवैरश्वैरष्टाभिः शबलै रथः ॥३०॥स्वर्भानोस्तुरगाश्चाष्टौ भृंगाभा धूसरारथम् ॥वहंति च सकृद्युक्ता आदित्याधःस्थितास्तथा ॥३१॥सौरेर्लक्षं स्मृतं चोर्ध्वं ततः सप्तर्षिमण्डलम् ॥ऋषिभ्यश्चापि लक्षेण ध्रुवश्चोर्ध्वं व्यवस्थितः ॥३२॥मेढीभूतः समस्तस्य ज्योतिश्चक्रस्य वै ध्रुवः ॥ध्रुवोऽपि शिंशुमारस्य पुच्छाधारे व्यवस्थितः ॥३३॥यमाहुर्वासुदेवस्य रूपमात्मानमव्ययम् ॥वायुपाशैर्ध्रुवे बद्धं सर्वमेतच्च फाल्गुन ॥३४॥नवयोजनसाहस्रं मण्डलं सवितुः स्मृतम् ॥द्विगुणं सूर्यविस्तारान्मण्डलं शशिनः स्मृतम् ॥३५॥तुल्यस्तयोस्तु स्वर्भानुर्भूत्वाधस्तात्प्रसर्पति ॥उद्धृत्य पृथिवीच्छायां निर्मलां मण्डलाकृतिः ॥३६॥चन्द्रस्य षोडशो भागो भार्गवश्च विधीयते ॥भार्गवात्पादहीनस्तु विज्ञेयोऽथ बृहस्पतिः ॥३७॥बृहस्पतेः पादहीनौ वक्रसौरी बुधस्तथा ॥शतानि पंच चत्वारित्रीणि द्वे चैकयोजनम् ॥३८॥योजनार्धप्रमाणानि भानि ह्रस्वं न विद्यते ॥भूमिलोकश्च भूर्लोकः पादगम्यः प्रकीर्तितः ॥३९॥भूमिसूर्यांतरं तच्च भुवर्लोकः प्रकीर्तितः ॥ध्रुवसूर्यांतरं तच्च नियुतानि चतुर्दश ॥४०॥स्वर्लोकः सोऽपि गदितो लोकसंस्थानचिंतकैः ॥ध्रुवादूर्ध्वं तथा कोटचिर्महर्लोकः प्रकीर्तितः ॥४१॥द्वे कोट्यौ च जनो यत्र निवसंति चतुःसनाः ॥चतुर्भिश्चापि कोटीभिस्तपोलोकस्ततः स्मॉतः ॥४२॥वैराजा यत्र ते देवाः स्थिता दाहविवर्जिताः ॥षड्गुणेन तपोलोकात्सत्यलोको विराजते ॥४३॥अपुनर्मरका यत्र ब्रह्मलोको हि स स्मृतः ॥अष्टादस तथा कोट्यो लक्षाण्यशीतिपंच च ॥४४॥शुभं निरुपमं स्थानं तदूर्ध्वं संप्रकाशते ॥भूर्भूवःस्वरिति प्रोक्तं त्रैलोक्यं कृतकं त्विदम् ॥४५॥जनस्तपस्तथा सत्यमिति चाकृतकं त्रयम् ॥कृतकाकृतयोर्मध्ये मर्हर्लोक इति स्मृतः ॥४६॥शून्यो भवति कल्पांते योत्यंतं न विनश्यति ॥एते सप्त समाख्याता लोकाः पुण्यैरुपार्जिताः ॥४७॥यज्ञैर्दानैर्जपैर्होमैस्तीर्थैर्व्रतसमुच्चयैः ॥वेदादिप्रोक्तैरन्यैश्च साध्याँल्लोकानिमान्विदुः ॥४८॥ततश्चांडस्य शिरसो धारा नीरमयी शिवा ॥सर्वलोकान्समाप्लाव्य गंगा मेरावुपागता ॥४९॥ततो महीतलं सर्वं पातालं प्रविवेश सा ॥अंडमूर्ध्नि स्थिता देवी सततं द्वारवासिनी ॥५०॥देवीनां कोटिकोटीभिः संवृता पिंगलेन च ॥तत्र स्थिता सदा रक्षां कुरुतेऽण्डस्य सा शुभा ॥५१॥निहंति दुष्टसंघातान्महाबलपराक्रमा ॥वायुस्कंधानि सप्तापिश्रृणुयद्वत्स्थितान्यपि ॥५२॥पृथिवीं समभिक्रम्य संस्थितो मेघमंडले ॥प्रवहोनाम यो मेघान्प्रवहत्यतिशक्तिमान् ॥५३॥धूमजाश्वोष्मजा मेघाः सामुद्रैयन पूरिताः ॥तोयैर्भवंति नीलांगा वर्षिष्ठाश्चैव भारत ॥५४॥द्वितीयश्चावहो नाम निबद्धः सूर्यमंडले ॥तेन बद्धं ध्रुवेणेदं भ्राम्यते सूर्यमंडलम् ॥५५॥तृतीयश्चोद्वहो नाम चंद्रस्कंधे प्रतिष्ठितः ॥बद्धं ध्रुवेण येनेदं भ्राम्यते चंद्रमंडलम् ॥५६॥चतुर्थः संवहो नाम स्थितो नक्षत्रमण्डले ॥वातरश्मिभिराबद्धं ध्रुवेण सह भ्राम्यते ॥५७॥ग्रहेषु पंचमः सोऽपि विवहो नाम मारुतः ॥ग्रहचक्रमिदं येन भ्राम्यते ध्रुवसंधितम् ॥५८॥षष्ठः परिवहो नाम स्थितः सप्तर्षिमंडले ॥भ्रमंति ध्रुवसंबद्धा येन सप्तर्षयो दिवि ॥५९॥सप्तमश्च ध्रुवे बद्धो वायुर्नाम्ना परावहः ॥येन संस्थापितं ध्रौव्यं चक्रं चान्यानि भारत ॥६०॥यं समासाद्य वेगेन दिशामंतं प्रपेदिरे ॥दक्षस्य दश पुत्राणां सहस्राणि प्रजापतेः ॥६१॥एवमेते दितेः पुत्राः सप्तसप्त व्यवस्थिताः ॥अनारमंतः संवांति सर्वगाः सर्वधारिणः ॥६२॥ध्रुवादूर्ध्वमसूर्यं चाप्यनक्षत्रमतारकम् ॥स्वतेजसा स्वशक्त्या चाधिष्ठितास्ते हि नित्यदा ॥६३॥इत्यूर्ध्वं ते समाख्यांतं पातालान्यथ मे श्रृणु ॥६४॥इति श्रीस्कांदे महापुराण एकाशीतिसाहास्र्यां संहितायां प्रथमे माहेश्वरखण्डे कौमारिकाखण्डे कुमारिकाक्याने लोकव्यवस्थितिवर्मनंनामाष्टत्रिंशोऽध्यायः ॥३८॥ N/A References : N/A Last Updated : July 23, 2024 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP