कौमारिकाखण्डः - अध्यायः २६
भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.
॥ नारद उवाच ॥
अथ ब्रह्मा महादेवमभिवाद्य कृतांजलिः ॥
उद्वाहः क्रियतां देव इत्युवाच महेश्वरम् ॥१॥
तस्य तद्वचनं श्रुत्वा प्राहेदं भगवान्हरः ॥
पराधीना वयं ब्रह्मन्हिमाद्रेस्तव चापि यत् ॥२॥
यद्युक्तं क्रियतां तद्धि वयं युष्मद्वशेऽधुना ॥
ततो ब्रह्मा स्वयं दिव्यं पुरं रत्नमयं शुभम् ॥३॥
उद्वाहार्थं महेशस्य तत्क्षणात्समकल्पयत् ॥
शतयोजनविस्तीर्णं प्रासादशतशोभितम् ॥४॥
पुरेतस्मिन्महादेवः स्वयमेव व्यतिष्ठत ॥
ततः सप्तमुनीन्देवश्चिंतिताब्यागतान्पुरः ॥५॥
प्राहिणोदंबिकायाश्च स्थिरपत्रार्थमीश्वरः ॥
सारुंधतीकास्ते तत्र ह्लादयंतो हिमाचलम् ॥६॥
सभार्यामीश्वरगुणैः स्थिरपत्राणि चादधुः ॥
ततः संपूजितास्तेन पुनरागम्य तेऽचलात् ॥७॥
न्यवेदयंस्र्यंबकाय स च तानभ्यनंदत ॥
उद्वाहार्थं ततो देवो विश्वं सर्वं न्यमंत्रयत् ॥८॥
समागतं च तत्सव विना दैत्यैर्दुरात्मभिः ॥
स्थावरं जंगमं यच्च विश्वं विष्णुपुरोगमम् ॥९॥
सब्रह्यकं पुरारातेर्महिमानमवर्धयत् ॥
ततस्तं विधिराहेदं गन्धमादनपर्वते ॥१०॥
पुरे स्थितं विवाहस्य देव कालः प्रवर्तते ॥
ततस्तस्य जटाजूटे चंद्रखंडं पितामहः ॥११॥
बबंध प्रणयोदारविस्फारितविलोचनः ॥
कपर्द्दं शोभनं विष्णुः स्वय चक्रेऽस्य हर्षतः ॥१२॥
कपालमालां विपुलां चामुण्डा मूर्ध्न्यबंधत ॥
उवाच चापि गिरिशं पुत्रं जनय शंकर ॥१३॥
यो दैत्येंद्रकुलं हत्वा मां रक्तैस्तर्पयिष्यति ॥
सूर्यो ज्वलच्छिखारक्तं भाबासितजगत्त्रयम् ॥१४॥
बबंध देवदेवस्यच स्वयमेव प्रमोदतः ॥
शेषवासुकिमुख्याश्च ज्वलंतस्तेजसा शुभाः ॥१५॥
आत्मानं भूषणस्थाने स्वयं ते चक्रुरीश्वरे ॥
वायवश्च ततस्तीक्ष्णश्रृंगं हिमगिरिप्रभम् ॥१६॥
वृषं विभूषयामासुर्नानारत्नोपपत्तिभिः ॥
शक्रो गजजिनं गृह्य स्वयमग्रे व्यवस्थितः ॥१७॥
विना भस्म समाधाय कपाले रजतप्रभम् ॥
मनुजास्थिमयीं मालां प्रेतनाथश्च वन्दनम् ॥१८॥
वह्निस्तेजोमयं दिव्यमजिनं प्रददौ स्थितः ॥
एवं विभूषितः सर्वैर्भृत्यैरीशो बभौ भृशम् ॥१९॥
ततो हिमाद्रेः पुरुषा वीरकं प्रोचिरे वचः ॥
मा भूत्कालात्ययः शीघ्रं भवस्यैतन्निवेद्यताम् ॥२०॥
ततो देवं प्रणम्याह वीरकः करसंपुटी ॥
त्वरयंति महेशानं हिमाद्रेः पुरुषास्त्वमी ॥२१॥
इति श्रुत्वा वचो देवः शीघ्रमित्येव चाब्रवीत् ॥
सप्त वारिधयस्तस्य चक्रुर्दर्पणदर्शनम् ॥२२॥
तत्रैक्षत महादेवः स्वरूपं स जगन्मयम् ॥
ततो बद्धांजलिर्धीमान्स्थाणुं प्रोवाच केशवः ॥२३॥
देवदेव महादेव त्रिपुरांतक शंकर ॥
शोभसेऽनेन रूपेण जगदानंददायिना ॥२४॥
महेश्वर यथा साक्षादपरस्त्वं महेश्वरः ॥
ततः स्मयन्महादेवो जयेति भुवने श्रुतः ॥२५॥
करमालंब्य विष्णोश्च वृषभं रुरुहेशनैः ॥
ततश्च वसवो देवाः शूलं तस्य न्यवेदयन् ॥२६॥
धनदो निदिभिर्युक्तः समीपस्थस्ततोऽभवत् ॥
स शूलपाणिर्विश्वात्मा संचचाल ततो हरः ॥२७॥
देवदुंदुभिनादैश्च पुष्पासारैश्च गीतकैः ॥
नृत्यद्भिरप्सरोभिश्च जयेति च महास्वनैः ॥२८॥
सव्यदक्षिणसंस्थानौ ब्रह्मविष्णूतु जग्मतुः ॥
हंसं च गरुडं चैव समारुह्य महाप्रभौ ॥२९॥
अथादितिर्दितिः सा च दनुः कद्रूः सुपर्णजा ॥
पौलोमी सुरसा चैव सिंहिका सुरभिर्मुनिः ॥३०॥
सिद्धिर्माया क्षमा दुर्गा देवी स्वाहा स्वधा सुधा ॥
सावित्री चैव गायत्री लक्ष्मीः सा दक्षिणा द्युतिः ॥३१॥
स्पृहामतिर्धृतिर्बुद्धिर्मंथिर्ऋद्धिः सरस्वती ॥
राका कुहूः सिनीवाली देवी भानुमती तथा ॥३२॥
धरणी धारणी वेला राज्ञी चापि च रोहिणी ॥
इत्येताश्चान्यदेवानां मातरः पत्नयस्तथा ॥३३॥
उद्वाहं देवदेवस्य जग्मुः सर्वा मुदान्विताः ॥
उरगा गरुडा यक्षा गंधर्वाः किंनरा नराः ॥३४॥
सागरा गिरयो मेघा मासाः संवत्सरास्तथा ॥
वेदा मंत्रास्तथा यज्ञाः श्रौता धर्माश्च सर्वशः ॥३५॥
हुंकाराः प्रणवाश्चैव इतिहासाः सहस्रशः ॥
कोटिशश्च तथा देवा महेंद्राद्याः सवाहनाः ॥३६॥
अनुजग्मुर्महादेवं कोटिशोऽर्बुदशश्च हि ॥
गणाश्च पृष्ठतो जग्मुः शंखवर्णाश्च कोटिशः ॥३७॥
दशभिः केकराख्याश्च विद्युतोऽष्टाभिरेव च ॥
चतुःषष्ट्या विशाखाश्च नवभिः पारियात्रिकाः ॥३८॥
षड्भिः सर्वांतकः श्रीमांस्तथैव विकृताननः ॥
ज्वालाकेशो द्वादशभिः कोटिभिः संवृतो ययौ ॥३९॥
सप्तभिः समदः श्रीमान्दुंदुभोष्ठाभिरेव च ॥
पंचभिश्च कपालीशः षड्भिः संह्रादकः शुभः ॥४०॥
कोटिकोटिभिरेवैकः कुंडकः कुंभकस्तथा ॥
विष्टंभोऽष्टाभिरेवेह गणपः सर्वसत्तमः ॥४१॥
पिप्पलश्च सहस्रेण सन्नादश्च तथा बली ॥
आवेशनस्तथाष्टाभिः सप्तभिश्चंद्रतापनः ॥४२॥
महाकेशः सहस्रेण नंदिर्द्वादशभिस्तथा ॥
नगः कालः करालश्च महाकालः शतेन च ॥४३॥
अग्निकः शतकोट्या वै कोट्याग्निमुख एव च ॥
आदित्यमूर्धा कोट्या च कोट्या चैव धनावहः ॥४४॥
सन्नागश्च शतेनैव कुमुदः कोटिभिस्त्रिभिः ॥
अमोघः कोकिलश्चैव कोटिकोट्या सुमंत्रकः ॥४५॥
काकपादस्तता षष्ट्या षष्ट्या संतानको गणः ॥
महाबलश्च नवभिर्मधुपिंगश्च पिंगलः ॥४६॥
नीलो नवत्या सप्तत्या चतुर्वक्त्रश्च पूर्वपात् ॥
वीरभद्रश्चश्चतुःषष्ट्या करणो बालकस्तथा ॥४७॥
पंचाक्षः शतमन्युश्च मेघमन्युश्च विंशतिः ॥
काष्ठकोटिश्चतुःषष्ट्या सुकोशो वृषभस्तथा ॥४८॥
विश्वरूपस्तालकेतुः पंचाशच्च सिताननः ॥
ईशानो वृद्धदेवश्च दीप्तात्मा मृत्युहा तथा ॥४९॥
विषादो यमहा चैव गणो भृंगरिटिस्तथा ॥
अशनी हासकश्चैव चतुःषष्ट्या सहस्रपात् ॥५०॥
एते चान्ये च गणपा असंख्याता महाबलाः ॥
सर्वे सहस्रहस्ताश्च जटामुकुटधारीणः ॥५१॥
चंद्रलेखावतंसाश्च नीलकंठास्त्रिलोचनाः ॥
हारकुंडलकेयूरमुकुटाद्यैरलंकृताः ॥५२॥
अणिमादिगुणैर्युक्ताः शक्ताः शापप्रसादयोः ॥
सूर्यकोटिप्रतीकाशास्तत्राजग्मुर्गणेश्वराः ॥५३॥
पातालांबरभूमिस्थाः सर्वलोकनिवासिनः ॥
तुंबुरुर्नारदो हाहा हूहूश्चैव तु सामगाः ॥५४॥
तंत्रीमादाय वाद्यांश्चाऽवादयञ्छंकरोत्सवे ॥
ऋषयः कृत्स्नशश्चैव वेदगीतांस्तपोधनाः ॥५५॥
पुण्यान्वैवाहिकान्मंत्राञ्जेषुः संहृष्टमानसाः ॥
एवं प्रतस्थेगिरिशो वीज्यमानश्च गंगया ॥५६॥
तथा यमुनया चापांपतिना धृतच्छत्रया ॥
स्त्रीभिर्नानाविधालापैलाजाभिश्चानुमोदितः ॥५७॥
महोत्सवेन देवेशो गिरिस्थानं विवेश सः ॥
प्रभासत्स्वर्णकलशं तोरणानां शतैर्युतम् ॥५८॥
वैडूर्यबद्धभूमिस्थं रत्नजैश्च गृहैर्युतम् ॥
तत्प्रविश्य स्तूयमानो द्वारमभ्याससाद ह ॥५९॥
ततो हिमाचलस्तत्र दृश्यते व्याकुलाकुलः ॥
आदिशदात्मभृत्यानां महादेव उपस्थिते ॥६०॥
ततो ब्रह्माणमचलो गुरुत्वे प्रार्थयत्तदा ॥
कृत्यानां सर्वभारेषु वासुदेवं च बुद्धिमान् ॥६१॥
प्रत्याह च विवाहऽस्मिन्कुमारीभ्रातरं विना ॥
भविष्यति कथं विष्णो लाजहोमादिकर्मसु ॥६२॥
सुतो हि मम मैनाकः स प्रविष्टोऽर्णवे स्थितः ॥
इति चिंताविषण्णं तं विष्णुराहमहामतिः ॥६३॥
अत्र चिंता न कर्तव्या गिरिराज कथंचन ॥
अहं भ्राता जगन्मातुरेतदे वं च नान्यथा ॥६४॥
ततः प्रमुदितः शैलः पार्वतीं च स्वलंकृताम् ॥
सखीभिः कोटिसंख्याभिर्वृतां प्रवेशयत्सदः ॥६५॥
ततो नीलमयस्तंभं ज्वलत्कांचनकुट्टिमम् ॥
मुक्ताजालपरिष्कारं ज्वलितौ षधिदीपितम् ॥६६॥
रत्नासनसहस्राढ्यं शतयोजनविस्तृतम् ॥
विवाहमंडपं शर्वो विवेशानुचरावृतः ॥६७॥
ततः शैलः सपत्नीकः पादौ प्रक्षाल्य हर्षितः ॥
भवस्य तेन तोयेन सिषिचे स्वं जगत्तथा ॥६८॥
पाद्यमाचमनं दत्त्वा मधुपर्कं च गां तथा ॥
प्रदानस्य प्रयोगं च संचिंतयंति ब्राह्मणाः ॥६९॥
दौहित्रीं कव्यवाहानां दद्मि पुत्रीं स्वकामहम् ॥
इत्युक्त्वा तस्थिवाञ्छैलो न जानाति हरस्य सः ॥७०॥
ततः सर्वानपृच्छत्स कुलं कोऽपि न वेद तत् ॥
ततो विष्णुरिदं प्राह पृछ्यंतेऽन्ये किमर्थतः ॥७१॥
अज्ञातकुलतां तस्य पृछ्यतामयमेव च ॥
अहिरेव अहेः पादान्वेत्ति नान्यो हिमाचल ॥७२॥
स्वगोत्रं यदि न ब्रूते न देया भगिनी मम ॥
ततो हासस्तदा जज्ञे सर्वेषां सुमहास्वनः ॥७३॥
निवृत्तश्च क्षणाद्भूयः किं वक्ष्यति हरस्त्विति ॥
ततो विमृश्य बहुधा किंचिद्भीताननो यता ॥७४॥
लज्जाजडः स्मितं चक्रे ततः पार्थ स वै हरः ॥
ततो विशिष्टा ब्रुवति शीघ्रं कालोऽतिवर्तते ॥७५॥
हरिः प्राह महेशानं बिभ्यदावेद्मयहं तव ॥
मातामहं च पितरं प्रयोगं श्रृणु भूधर ॥७६॥
आत्मपुत्राय ते शंभो आत्मदौहित्रकाय ते ॥
इत्युक्ते विष्णुना सर्वे साधुसाध्विति ते जगुः ॥७७॥
देवोऽप्युदाहरेद्वुद्धिं सर्वेभ्योऽप्यधिकां वराम् ॥
ततः शैलस्तथा चोक्त्वा दत्त्वा देवीं च सोदकम् ॥७८॥
आत्मानं चापि देवाय प्रददौ सोदकं नगः ॥
ततः सर्वे तुष्टुवुस्तं विवाहं विस्मयान्विताः ॥७९॥
दाता महीभृतां नाथो होता देवश्चतुर्मुखः ॥
वरः पशुपतिः साक्षात्कन्या विश्वरणिस्तथा ॥८०॥
ततः स्तुवत्सु मुनिषु पुष्पवर्षे महत्यपि ॥
नदत्सु देवतूर्येषु करं जग्राह त्र्यम्बकः ॥८१॥
देवो देवीं समालोक्य सलज्जां हिमशैलजाम् ॥
न तृप्यति न चाह्लादत्सा च देवां वृषध्वजम् ॥८२॥
तत्र ब्रह्मादिमुनयो देवीमद्भुतरूपिणीम् ॥
पश्यंतः शरणं जग्मुर्मनसा परमेश्वरम् ॥८३॥
मा मुह्याम पार्वतीं च यथा नारदपर्वतौ ॥
ततस्तथैव तच्चक्रे सर्वेषामीप्सितं वचः ॥८४॥
ततो देवैश्च मुनिभिः संस्तुतः परमेश्वरः ॥
प्रविवेश शुभां वेदीं मूर्तिमज्ज्वलनाश्रिताम् ॥८५॥
वेधाः श्रुतीरितैर्मं त्रैर्मूर्तिमद्भिरुपस्थितैः ॥
मूर्तमग्निं जुहाव त्रिः परिक्रम्य च तं हरः ॥८६॥
लाजाहोम उमाभ्राता प्राह तं सस्मितं हरिः ॥
बहवो मिलिताः संति लोकाः संमर्द ईश्वर ॥८७॥
सावधानेन रक्ष्याणि भूषणानि त्वया हर ॥
ततो हरश्च तं प्राह स्वजने माऽतिगोपय ॥८८॥
किंचित्प्रार्थय दास्यामि प्राह विष्णुस्ततो वरम् ॥
त्वयि भक्तिर्दृढा मेऽस्तु स च तद्दुर्लभं ददौ ॥८९॥
ददतुः सृष्टिसंरक्षां ब्रह्मणे दक्षिणामुभौ ॥
अग्नये यज्ञभागांश्च प्रीतौ हरजनार्दनौ ॥९०॥
भृग्वादीनां ततो दत्त्वा श्रुतिरक्षणदक्षिणाम् ॥
ततो गीतैश्च नृत्यैश्च भोजनैश्च यथेप्सितैः ॥९१॥
महोत्सवैरनेकैश्च विस्मयं समपद्यत ॥
विसृज्य लोकं तं सर्वं किमिच्छादानकैर्भवः ॥९२॥
सरस्वत्या च पितरौ देव्याश्चाऽऽश्वास्य दुःखितौ ॥
आमंत्र्य हिमशैलेंद्रं ब्रह्मणं च सकेशवम् ॥९३॥
जगाम मंदरगिरिं गिरिणा यानुगोर्चितः ॥९४॥
ततो गते भगवति नीललोहिते सहोमया गिरिममलं हि भूधरः ॥
सबांधवो रुदिति हि कस्य नो मनो विसंष्ठँलं जगति हि कन्यकापितुः ॥९५॥
इमं विवाहं गिरिराजपुत्र्याः श्रृणोति चाध्येति च यो नरः शुचिः ॥
विशेषतश्चापि विवाहमंगले स मंगलं वृद्धिमवाप्नुते चिरम् ॥९६॥
इति श्रीस्कांदे महापुराम एकाशीतिसाहस्र्यां संहितायां प्रथमे माहेश्वरखण्डे कौमारेशमाहात्म्ये हरगौरीविवाहवर्णनंनाम षडिंशोऽध्यायः ॥२६॥
N/A
References : N/A
Last Updated : July 23, 2024
TOP