संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|माहेश्वरखण्ड|कौमारिकाखण्डः|
अध्यायः ४९

कौमारिकाखण्डः - अध्यायः ४९

भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.


 ॥ अर्जुन उवाच
अत्यद्भुतानि तीर्थानि लिंगानि च महामुने ॥
श्रुत्वा तव मुखांभोजाद्भृशं मे हृष्यते मनः ॥१॥
महीनगरकस्यापि स्थापितस्य त्वया मुने ॥
यानि तीर्थानि मुख्यानि तानि वर्णय मे प्रभो ॥२॥
 ॥ नारद उवाच
श्रीमन्महीनगरके यानि तीर्थानि फाल्गुन ॥
तानि वक्ष्यामि यत्रास्ते जया दित्यो रविः प्रभुः ॥३॥
जयादित्यस्य यो नाम कीर्तयेदिह मानवः ॥
सर्वरोगविनिर्मुक्तो लभेत्सोऽपि हृदीप्सितम् ॥४॥
यस्य संदर्शनादेव कल्याणैरपि पूर्यते ॥
मुच्यते चाप्यकल्याणैः श्रद्धावान्पार्थ मानवः ॥५॥
तस्य देवस्य चोत्पत्तिं शृणु पार्थ वदामि ते ॥
शृण्वन्वा कीर्तयन्वापि प्रसादं भास्कराल्लभेत् ॥६॥
अहं संस्थाप्य संस्थानमेतत्कालेन केनचित् ॥
प्रयातो भास्करं लोकं दर्शनार्थी यदृच्छया ॥७॥
स मां प्रणतमासीनमभ्यर्च्यार्घेण भास्करः ॥
प्रहसन्निव प्राहेदं देवो मधुरया गिरा ॥८॥
कुत आगम्यते विप्र क्व च वा प्रतिगम्यते ॥
क्व चायं नारदमुने कालस्ते विहृतोऽभवत् ॥९॥
 ॥ नारद उवाच
एवमुक्तो भास्करेण तं तदा प्राब्रवं वचः ॥
भारते विहृतः खण्डे महीनगरकादपि ॥
दर्शनार्थं तव विभो समायातोऽस्मि भास्कर ॥१०॥
 ॥ रविरुवाच
यत्त्वया स्थापितं स्थानं तत्र ये संति ब्राह्मणाः ॥
तेषां गुणान्मम ब्रूहि किंगुणा ननु ते द्विजाः ॥११॥
 ॥ नारद उवाच
एवं पृष्टो भगवता पुनरेवाब्रवं वचः ॥१२॥
यदि तान्भोः प्रशंसामि स्वीयान्स्तौतीति वाच्यता ॥
निंदाम्यनर्हान्कस्माद्वा कष्टमेवोभयत्र च ॥१३॥
अथवा पारमाहात्म्ये सति तेषां महात्मनाम् ॥
अल्पे कृते वर्णने स्याद्दोष एव महान्मम ॥१४॥
मदर्चितद्विजेंद्राणां यदि स्याच्छ्रवणेप्सुता ॥
ततः स्वयं विलोक्यास्ते गत्वेदं मे मतं रवे ॥१५॥
इति श्रुत्वा मम वचो रविरासीत्सुविस्मितः ॥
स्वयं द्रक्ष्यामि चोवाच पुनःपुनरहर्पतिः ॥१६॥
सोऽथ विप्रतनुं कृत्वा मां विसर्ज्यैव भास्करः ॥
प्रतपन्दिवि योगाच्च प्रयातोर्णवरोधसि ॥१७॥
जटां त्रिषवणस्नानपिंगलां धारयन्नथ ॥
वृद्धद्विजो महातेजा ददृशे ब्राह्मणैर्मम ॥१८॥
ततो हारीतप्रमुखाः प्रहर्षोत्फुल्ललोचनाः ॥
उत्थाय ब्रह्मशालायास्ते द्विजा द्विजमाद्रवन् ॥१९॥
नमस्कृत्य द्विजाग्र्यं ते प्रहर्षादिदमब्रुवन् ॥२०॥
अद्य नो दिवसः पुण्यः स्थानमद्योत्तमं त्विदम् ॥
यत्त्वया विप्रप्रवर स्वयमागमनं कृतम् ॥२१॥
धन्यस्य हि गृहस्थस्य कृपयैव द्विजोत्तमाः ॥
आतिथ्यवेषेणायांति पावनार्थं न संशयः ॥२२॥
तत्त्वं गेहानि चास्माकं पादचंक्रमणेन च ॥
दर्शनाद्भोजनात्स्थानादस्माभिः सह पावय ॥२३॥
 ॥ अतिथिरुवाच
भोजनं द्विविधं विप्रा प्राकृतं परमं तथा ॥
तदहं सम्यगिच्छामि दत्तं परमभोजनम् ॥२४॥
इत्येतदतिथेः श्रुत्वा हारीतः पुत्रमब्रवीत् ॥
अष्टवर्षं तु कमठं वेत्सि पुत्र द्विजोदितम् ॥२५॥
 ॥कमठ उवात्र
तात प्रणम्य त्वां वक्ष्ये तादृक्परमभोजनम् ॥
द्विजं च तर्पयिष्यामि दत्त्वा परमभोजनम् २६॥
सुतेन किल जातेन जायते चानृणः पिता ॥
सत्यं करिष्ये तद्वाक्यं संतर्प्यातिथिमुत्तमम् ॥२७॥
भोजनं द्विप्रकारं च प्रविभागस्तयोरयम् ॥
प्राकृतं प्रोच्यते त्वेवमन्यत्परमभोजनम् ॥२८॥
तत्र यत्प्राकृतं नाम प्रकृतिप्रमुखस्य तत् ॥
चतुर्विंशतितत्त्वानां गणस्योक्तं हि तर्पणम् ॥२९॥
षड्रसं भोजनं तच्च पंचभेदं वदंति च ॥
येन भुक्तेन तृप्तं स्यात्क्षेत्रं यद्देहलक्षणम् ॥३०॥
यथापरं परंनाम प्रोक्तं परमभोजनम् ॥
परमः प्रोच्यते चात्मा तस्य तद्भोजनं भवेत् ॥३१॥
ततो नानाप्रकारस्य धर्मस्य श्रवणं हि यत् ॥
तदन्नं प्रोच्यते भोक्ता क्षेत्रज्ञः श्रवणौ मुखम् ॥३२॥
तद्दास्यामि द्विजाग्र्याय पृच्छ विप्र यदिच्छसि ॥
शक्तितस्तर्पयिष्यामि त्वामहं विप्रसंसदि ॥३३॥
 ॥ नारद उवाच
कमठस्यैतदाकर्ण्य सोऽतिथिर्वचनं महत् ॥
मनसैव प्रशस्यामुं प्रश्नमेनमथाकरोत् ॥३४॥
कथं संजायते जंतुः कथं चापि प्रलीयते ॥
भस्मतामथ संप्राप्य क्व चायं प्रति पद्यते ॥३५॥
 ॥ कमठ उवाच
गुरवे प्राङ्नमस्कृत्य धर्माय तदनंतरम् ॥
छंदोगीतममुं प्रश्नं शक्त्या वक्ष्यामि ते द्विज ॥३६॥
जनने त्रिविधं कर्म हेतुर्जंतोर्भवेत्किल ॥
पुण्यं पापं च मिश्रं च सत्त्वराजसतामसम् ॥३७॥
तत्र यः सात्त्विको नाम स स्वर्गं प्रतिपद्यते ॥
स्वर्गात्कालपरिभ्रष्टो धनी धर्मी सुखी भवेत् ॥३८॥
तथा यस्तामसो नाम नरकं प्रतिपद्यते ॥
भुक्त्वा बह्वीर्यातनाश्च स्थावरत्वं प्रपद्यते ॥३९॥
महतां दर्शनस्पर्शैरुपभोगसहासनैः ॥
महता कालयोगेन संसरन्मानवो भवेत् ॥४०॥
सोऽपि दुःखदरिद्राद्यैर्वेष्टितो विकलेंद्रियः ॥
प्रत्यक्षः सर्व लोकानां पापस्यैतद्धि लक्षणम् ॥४१॥
अथ यो मिश्रकर्मा स्यात्तिर्यक्त्वं प्रतिपद्यते ॥
महतामेव संसर्गात्संसरन्मानवो भवेत् ॥४२॥
यस्य पुण्यं पृथुतरं पापमल्पं हि जायते ॥
स पूर्वं दुःखितो भूत्वा पश्चात्सौख्यान्वितो भवेत् ॥४३॥
पापं पृथुतरं यस्य पुण्यमल्पतरं भवेत् ॥
पूर्वं सुखी ततो दुःखी मिश्रस्यैतद्धि लक्षणम् ॥४४॥
तत्र मानुषसंभूतिं शृणु यादृगसौ भवेत् ॥
पुरुषस्य स्त्रियाश्चैव शुक्रशोणितसंगमे ॥४५॥
सर्वदोषविनिर्मुक्तो जीवः संसरते स्फुटम् ॥
गुणान्वितमनोबुद्धिशुभाशुभसमन्वितः ॥४६॥
जीवः प्रविष्टो गर्भं तु कलले प्रतितिष्ठति ॥
मूढश्च कलले तत्र मासमात्रं च तिष्ठति ॥४७॥
द्वितीयं तु तथा मासं घनीभूतः स तिष्ठति ॥
तस्यावयवनिर्माणं तृतीये मासि जायते ॥४८॥
अस्थीनि च तथा मासि जायंते च चतुर्थके ॥
त्वग्जन्म पंचमे मासि पष्ठे रोम्णां समुद्भवः ॥४९॥
सप्तमे च तथा मासि प्रबोधश्चास्य जायते ॥
मातुराहारपीतं च सप्तमे मास्युपाश्नुते ॥५०॥
अष्टमे नवमे मासि भृशमुद्विजते ततः ॥
जरायुणा वेष्टितांगो मुखे बद्धकरांगुलिः ॥५१॥
मध्ये क्लीबस्तु वामे स्त्री दक्षिणे पुरुषस्तथा ॥
तिष्ठत्युदरभागे च पृष्ठेरग्निमुखः किल ॥५२॥
यस्यां तिष्ठत्यसौ योनौ तां च वेत्ति न संशयः ॥
सर्वं स्मरति वृत्तांतं बहूनां जन्मनामपि ॥५३॥
अंधे तमसि किं दृश्यो गंधान्मोहं दृढं लभेत् ॥
शीते मात्रा जले पीते शीतमुष्णं तथोष्णके ॥५४॥
व्यायामे लभते मातुः क्लेशं व्याधेश्च वेदनाम् ॥
अलक्ष्याः पितृमातृभ्यां जायंते व्याधयः पराः ॥५५॥
सौकुमार्याद्रुजं तीव्रां जनयंति च तस्य ते ॥
स्वल्पमप्यथ तं कालं वेत्ति वर्षशतोपमम् ॥५६॥
संतप्यते भृशं गर्भे कर्मभिश्च पुरातनैः ॥
मनोरथांश्च कुरुते सुकृतार्थं पुनःपुनः ॥५७॥
जन्म चेदहमाप्स्यामि मानुष्ये जीवितं तथा ॥
ततस्तत्प्रकरिष्यामि येन मोक्षो भवेत्स्फुटम् ॥५८॥
एवं तु चिंतयानस्य सीमंतोन्नयनादनु ॥
मासद्वयं तद्व्रजति पीडतस्त्रियुगाकृति ॥५९॥
ततः स्वकाले संपूर्णे सूतिमारुतचालितः ॥
भवत्यवाङ्मुखो जंतुः पीडामनुभवन्पराम् ६०॥
अधोमुखः संकटेन योनिद्वारेण निःसरेत् ॥
पीडया पीडमानोऽपि चर्मोत्कर्तनतुल्यया ॥६१॥
करपत्रसमस्पर्शं करसंस्पर्शनादिकम् ॥
असौ जातो विजानाति मासमात्रं विमोहितः ॥६२॥
प्राक्कर्मवशगस्यास्य गर्भज्ञानं च नश्यति ॥
ततः करोति कर्माणि श्वेतरक्तासितानि च ॥६३॥
अस्थिपट्टतुलास्तंभस्नायुबंधेन यंत्रितम् ॥
रक्तमांसमृदालिप्तं विण्मूत्रद्रव्यभाजनम् ॥६४॥
सप्तभित्तिसुसंबद्धं छन्नं रोम तृणैरपि ॥
वदनैकमहाद्वारं गवाक्षाष्टविभूषितम् ॥६५॥
ओष्ठद्वयकपाटं च दंतार्गलविमुद्रितम् ॥
नाडीस्वेदप्रवाहं च कफपित्तपरिप्लुतम् ॥६६॥
जराशोकसमाविष्टं कालवक्त्रानलस्थितम् ॥
रागद्वेषादिभिर्ध्वस्तं षट्कौशिकसमुद्भवम् ॥६७॥
एवं संजायते पुंसो देहगेहमिदं द्विज ॥
यस्मिन्वसति क्षेत्रज्ञो गृहस्थो बुद्धिगेहिनी ॥६८॥
मोक्षं स्वर्गं च नरकमास्ते संसाधयन्नपि ॥६९
इति श्रीस्कान्दे महापुराण एकाशीति साहस्र्यां संहितायां प्रथमे माहेश्वरखण्डे कौमारिकाखंडे कमठसूर्यसंवादे जीवस्य देहोत्पत्तिवर्णनंनामैकोनपञ्चाशत्तमोऽध्यायः ॥४९॥

N/A

References : N/A
Last Updated : July 23, 2024

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP