संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|माहेश्वरखण्ड|कौमारिकाखण्डः|
अध्यायः ३२

कौमारिकाखण्डः - अध्यायः ३२

भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.


॥ नारद उवाच ॥
श्रुत्वैतं संस्तवं दैत्यः संघुष्टं देवबंदिभिः ॥
सस्मार ब्रह्मणो वाक्यं वधं बालादुपस्थितम् ॥१॥

श्रुत्वा स क्लिन्नसर्वांगो द्वाःस्थं राजा वचोऽब्रवीत् ॥
अमात्यान्द्रष्टुमिच्छामि शीघ्रमानय मा चिरम् ॥२॥

ततस्ते राजवचनात्कालनेमि मुखागताः ॥
प्राह तांस्तारको दैत्यः किमिदं वो विचेष्टितम् ॥३॥

यैः शत्रुसंभवा वार्ता कापि न श्रीवितस्त्वहम् ॥
मदिराकाममत्तानां मंत्रित्वं वो न युज्यते ॥
हितं मन्त्रयते राज्ञस्तेन मंत्री निगद्यते ॥४॥

 ॥अमात्या ऊचुः ॥
को जानाति सुरान्दीनान्दैत्यानामिति नो मतिः ॥५॥

मा विषीद महाराज वयं जेष्यामहे सुरान् ॥
बालादपि भयं किं वा लज्जायै चिंतितं त्विदम् ॥६॥

सर्वमेतत्सुसाध्यं च भेरी संताड्यतां दृढम् ॥
ततो दैत्येन्द्रवचनात्संनाहजननी तदा ॥७॥

भृशं संताडिता भेरी कंपयामास सा जगत् ॥
स्मरणाद्दैत्यराजस्य पर्वतेभ्यो महासुराः ॥८॥

निम्नगाभ्यः समुद्रेभ्यः पातालेभ्योंऽबरादपि ॥
सहसा समनुप्राप्ता युगांतानलसप्रभाः ॥९॥

कोटिकोटिसहस्रैस्तु परार्धैर्दशभिः शतैः ॥
सेनापतिः कालनेमिः शीघ्रं देवानुपाययौ ॥१०॥

चतुर्योजनविस्तीर्णे नानाश्चर्यसमन्विते ॥
रथे स्थितो मनाग्दीनस्तारकः समदृश्यत ॥११॥

एतस्मिन्नंतरे पार्थ क्रुद्धैः स्कन्दस्य पार्षदैः ॥
प्राकारः पातितः सर्वो भग्नान्युपवनानि च ॥१२॥

ततश्चचाल वसुधा देवी सवनकानना ॥
जज्वाल खं सनक्षत्रं प्रमूढं भुवनं भृशम् ॥१३॥

तमोभूतं जगच्चसीद्गृध्रैर्व्याप्तं नभोऽभवत् ॥
ततो नानाप्रहरणं प्रलयांबुदसन्निभम् ॥१४॥

कालनेमिमुखं पार्थ अदृश्यत महद्बलम् ॥
तद्धि घोरमसंख्येयं जगर्ज विविधा गिरः ॥१५॥

अभ्यद्रवद्रणे देवान्भगवंतं च शंकरम् ॥
विनदद्भिस्ततो दैत्यैन्देवानीकं महायुधैः ॥१६॥

पर्वतैश्च शतघ्नीभिरायसैः परिधैरपि ॥
क्षणेन द्रावितं सर्वं विमुखं चाप्यदृश्यत ॥१७॥

असुरैर्वध्यमाने तु पावकैरिव काननम् ॥
अपतद्दावभूमिष्ठ महाद्रुमवनं यथा ॥१८॥

ते भिन्नास्थिशि रोदेहाः प्राद्रवंत दिवौकसः ॥
न नाथमध्यगच्छंत वध्यमाना महासुरैः ॥१९॥

अथ तद्विद्रुतं सैन्यं दृष्ट्वाः पुरंदरः ॥
आश्वासयन्नुवाचेदं बलवद्दानवार्दितम् ॥२०॥

भयं त्यजत भद्रं वः शुराः शस्त्राणि गृह्णत ॥
कुरुध्वं विक्रमे बुद्धि मा च काचिद्व्यथास्तु वः ॥२१॥

एष कालानलप्रख्यो मयूरं समुपस्थितः ॥
रक्षिता वो महासेनः कथं भीतिस्तथापि वः ॥२२॥

शक्रस्य वचनं श्रुत्वा समाश्वस्ता दिवोकसः ॥
दानवान्प्रत्ययुध्यंत शक्रं कृत्वा व्यपाश्रयम् ॥२३॥

कालनेमिर्महेन्द्रेण संयुगे समयुज्यत ॥
सहस्राक्षौहिणीयुक्तो जंभकः शंकरेण च ॥२४॥

कुजंभो विष्णुना चैव तावत्य क्षौहिणीवृतः ॥
अन्ये च त्रिदशाः सव मरुतश्च महाबलाः ॥२५॥

प्रत्ययुध्यंतं दैत्येंद्रेः साध्याश्च वसुभिः सह ॥
ततो बहुविधं युद्धं कालनेमिर्विधायच ॥२६॥

उत्सृज्य सहसा पार्थ ऐरावणशिरःस्थितः ॥
स तु पादप्रहारेण मुष्टिना चैव तं गजम् ॥२७॥

शक्रं च चघ्ने विनदन्पेततुस्तावुभौ भुवि ॥
ततः शक्रं समादाय कालनेमिर्विचेतसम् ॥२८॥

रथमाश्रित्य भूयोपि तारकाभिमुखो ययौ ॥
अथ क्रुद्धं तदा देवैः सहसा चांतकादिभिः ॥२९॥

ह्रियते ह्रियते राजा त्राता कोऽपि न विद्यते ॥
एतस्मिन्नंतरे शर्वं पिनाकधनुषश्च्युतैः ॥३०॥

बाणैः ससैन्यं कृत्वा च जंभकं गृध्रमोदनम् ॥
कालनेमिं समागम्य रथस्थो वाक्यमब्रवीत् ॥३१॥

किमेतेन महेन्द्रेण मया युध्यस्व दानव ॥
वीरंमन्य सुदुर्बुद्धे ततो ज्ञास्यसि वीरताम् ॥३२॥

 ॥कानेमिरुवाच ॥
नग्नेन सह को युध्येद्धतेनापि च येन वा ॥
शंसत्सु दैत्यवीराणामुपहासः प्रजायते ॥३३॥

आत्मनस्तु समं किंचिद्विलोक्य सुदुर्मते ॥
तदाकर्ण्य च सावज्ञं वचः शर्वो विसिष्मिये ॥३४॥

ततः कुमारः सहसा मयूरस्थोऽभ्यधावत ॥
कुजंभं सानुगं हत्वा वासुदेवोप्यधावत ॥३५॥

ततो हरिः स्कंदमाह किमेतेन तव प्रभो ॥
दैत्याधमेन पापेन मुहूर्तं पश्य मे बलम् ॥३६॥

एवमुक्त्वा निवार्यैनं केशवो गरुडस्थितः ॥
शार्ङ्गकोदंडनिर्मुक्तैर्बाणैर्दैत्यमवाकिरत् ॥३७॥

स तैर्बाणैस्ताड्यमानो वज्रैरिव महासुरः ॥
विमुच्य वासवं क्रुद्धो बाणांस्तान्व्यधमच्छरैः ॥३८॥

यान्यान्बाणान्हरिर्दिव्यानस्त्राणि च मुमोच ह ॥
निवारयति दैत्यस्तान्प्रहसँल्लीलयैव च ॥३९॥

ततः कौमोदकीं गृह्य क्षिप्रकारी जनार्दनः ॥
मुमोच सैन्यनाथाय सारथिं च व्यचूर्णयत् ॥४०॥

ततो रथादवप्लुत्य विवृत्य वदनं महत् ॥
गरुडं चंचुनादाय स विष्णुं क्षिप्तवान्मुखे ॥४१॥

ततोऽभूत्सर्वदेवानां विमोहो जगतामपि ॥
चचाल वसुधा चेलुः पर्वताः सप्त चार्णवाः ॥४२॥

कालनेमिर्नश्चैव प्रानृत्यत महारणे ॥
असंमूढस्ततो विष्णुस्त्वराकाल उपस्थिते ॥४३॥

कुक्षिं विदार्य चक्रेण भास्करोऽभादिवोदितः ॥
बहिर्भूतो हरिश्चैनं महोयित्वा स्वनिन्दया ॥४४॥

पातालस्य तलं निन्ये तत्र शिश्ये स काष्ठवत् ॥
ततश्चक्रेण दैत्यानां निहता दशकोट्यः ॥४५॥

प्रमोदितास्तथा देवा विमोहास्तत्क्षणाद्बभुः ॥
ततःशर्वस्तमालिंग्य साधुसाधु जनार्दन ॥४६॥

त्वया यद्विहितं कर्म तत्कर्तान्यो न विद्यते ॥
महिषाद्याः सुदुर्जेया देव्या ये विनिपतिताः ॥४७॥

तेषामतिबलो ह्येष त्वया विष्णो विनिर्जितः ॥
तारकामयसंग्रामे वध्यस्तेसौ जनार्दन ॥४८॥

कंसरूपः पुनस्तेऽयं हंतव्योऽष्टमजन्मनि ॥
एवं प्रशंसमानास्ते वासुदेवं जगद्गुरुम् ॥४९॥

शस्त्रजालैर्लब्धसंज्ञान्दैत्यसैन्याननाशयत् ॥
तानि दैत्यशरीराणि जर्जराणि महायुधैः ॥५०॥

अपतन्भूतले पार्थ च्छिन्नाभ्राणीव सर्वशः ॥
ततस्तद्दानवं सैन्यं हतनाथमभूत्तदा ॥५१॥

देवैः स्कंदानुगैश्चैव कृतं शस्त्रैः पराङ्मुखम् ॥
अथो क्रुष्टं तदा हृष्टैः सर्वैर्देवैर्मुदायुतैः ॥५२॥

संहतानि च सर्वाणि तदा तूर्याण्यवादयन् ॥
अथ भग्नं बलं प्रेक्ष्य हतवीरं महारणे ॥५३॥

देवानां च महामोदं तारकः प्राह सारथिम् ॥
सारथे पश्य सैन्यानि द्राव्यमाणानि मे सुरैः ॥५४॥

येस्माभिस्तृणवद्दृष्टाः पश्य कालस्य चित्रताम् ॥
तन्मे वाहय शीघ्रं त्वं रथमेनं सुरान्प्रति ॥५५॥

पश्यंतु मे बलं बाह्वोर्द्रवंतु च सुराधमाः ॥
ब्रुवन्नेवं सारथिं स विधुन्वन्सुमहद्धनुः ॥५६॥

क्रोध रक्तेक्षणो राजा देवसैन्यं समाविशत् ॥
आगच्छमानं तं दृष्ट्वा हरिः स्कंदमथाब्रवीत् ॥५७॥

कुमार पश्य दैत्येंद्रं कालं यद्वद्युगात्यये ॥
अयं स येन तपसा घोरेणाराधितः शिवः ॥५८॥

अयं स येन शक्राद्याः कृता मर्काः समार्बुदम् ॥
अयं स सर्वशस्त्रैगैर्योऽस्माभिर्न जितो रणे ॥५९॥

नावज्ञया प्रद्रष्टव्यस्तारकोऽयं महासुरः ॥
सप्तमं हि दिनं तेऽद्य मध्याह्नोऽयं च वर्तते ॥६०॥

अर्वागस्तमनादेनं जहि वध्योऽन्यथा नहि ॥
एवमुक्त्वा स शक्रादींस्त्वरितः केशवोऽब्रवीत् ॥६१॥

आयासयत दैत्येंद्रं सुखवध्यो यथा भवेत् ॥
ततस्ते विष्णुवचनाद्विनदन्तो दिवौकसः ॥६२॥

तमासाद्य शरव्रातैर्मुदिताः समवाकिरन् ॥
प्रहसन्निव देवांस्तान्द्रावयामास तारकः ॥६३॥

यथा नास्तिकदुर्वृत्तो नानाशास्त्रोपदेशकान् ॥
सोढुं शक्ता न ते वीरं महति स्यंदने स्थितम् ॥६४॥

महापस्मारसंक्रांतं यथैवाप्रियवादिनम् ॥
विधूय सकलान्देवान्क्षणमात्रेण तारकः ॥६५॥

आजगाम कुमाराय विधुवन्स महाधनुः ॥
आगच्छमानं तं दृष्ट्वा स्कंदः प्रत्युद्ययौ ततः ॥६६॥

तस्यारक्षद्भवः पार्श्वं दक्षिणं चैव तं हरिः ॥
पृष्ठे च पार्षदास्तस्य कोटिशोऽर्बदशस्तथा ॥६७॥

ततस्तौ सुमहायुद्धे संसक्तौ देवदैत्ययौः ॥
धर्माधर्माविवोदग्रौ जगदाश्चर्यकारकौ ॥६८॥

ततः कुमारमासाद्य लीलया तारकोऽब्रवीत् ॥
अहो बालातिबालस्त्वं यत्त्वं गीर्वाणवाक्यतः ॥६९॥

आसादयसि मां युद्धे पतंग इव पावकम् ॥
वधेन तव को लाभो मम मुक्तोऽसि बालक ॥७०॥

पिष क्षीरं गृहाणेमं कंदुकं क्रीड लीलया ॥
एवमुक्तः प्रहस्याह तारकं योगिनां गुरुः ॥७१॥

शिशुत्वं मावमंस्था मे शिशुः कष्टो भुजंगमः ॥
दुष्प्रेक्ष्यो भास्करो बालो दुःस्पर्शोऽल्पोऽपि पावकः ॥७२॥

अल्पाक्षरो न मंत्रः किं सस्फुरो दैत्य दृश्यते ॥
एवमुक्त्वा दैत्यमुक्तं गृहीत्वा कंदुकं च तम् ॥७३॥

तस्मिञ्छक्त्यस्त्रमादाय दैत्याय प्रमुमोच ह ॥
तस्य तेन प्रहारेम रथश्चूर्णिकृतोऽभवत् ॥७४॥

चतुर्योजनमात्रो यो नानाश्चर्यसमन्वितः ॥
गरुडस्य सुता ये च शीर्यमाणे रथोत्तमे ॥७५॥

मुक्ताः कथंचिदुत्पत्य सागरांतरमाविशन् ॥
ततः क्रुद्धस्तारकश्च मुद्गरं क्षिप्तवान्गुहे ॥७६॥

विंध्याद्रिमिव तं स्कंदो गृहीत्वा तं व्यताडयत् ॥
स्थिरे तस्योरसि व्यूढे मुद्गरः शतधाऽगमत् ॥७७॥

मेने च दुर्जयं दैत्यस्तदा षड्वदनं रणे ॥
चिंतयामास बुद्ध्या च प्राप्तं तद्ब्रह्मणो वचः ॥७८॥

तं भीतमिव चालक्ष्य दैत्यवीराश्च कोटिशः ॥
नदंतोऽतिमहासेनं नानाशस्त्रैरवाकिरन् ॥७९॥

क्रुद्धस्तेषु ततः स्कंदः शक्तिं घोरामथाददे ॥
अभ्यस्यमाने शक्त्यस्त्रे स्कंदनामिततेजसा ॥८०॥

उल्काजालं महाघोरं पपात वसुधातले ॥
चाल्यमाना तथा शक्तिः सुघोरा भवसूनुना ॥८१॥

ततः कोट्यो विनिष्पेतुः शक्तीनां भर्तर्षभ ॥
स शक्त्यस्त्रेण बलवान्करस्थेनाहनत्प्रभुः ॥८२॥

अष्टौ पद्मानि दैत्वानां दशकोटिशतानि च ॥
तथा नियुतसाहस्रं वाहनं कोटिरेव च ॥८३॥

ह्रंदोदरं च दैत्येंद्रं निखर्वैर्दशभिर्वृतम् ॥
तत्राकुर्वन्सुतुमुलं नादं वध्येषु शत्रुषु ॥८४॥

कुमारानुचराः पार्थ पूरयंतो दिशो दश ॥
शक्त्यस्त्रस्यार्चिः संभूतशक्तिभिः केऽपि सूदिताः ॥८५॥

पताकयावधूताश्च हताः केचित्सहस्रशः ॥
केचिद्धंटारवत्रस्ताश्छिन्नभिन्नहृदोऽपतन् ॥८६॥

केचिन्मयूरपक्षाभ्यां चरणाभ्यां च सूदिताः ॥
कोटिशस्ताम्रचूडेन विदार्यैव च भक्षिताः ॥८७॥

पार्षदैर्मातृभिः सार्धं पद्मशो निहताः परे ॥
एवं निहन्यमानेषु दानवेषु गुहादिभिः ॥८८॥

अभाग्यैरिव लोकेषु तारकः स्कंदमाययौ ॥
जग्राह च गदां दिव्यां लक्षघंटादुरासदाम् ॥८९॥

तया मयूरमाजघ्ने मयूरो विमुखोऽभवत् ॥
दृष्ट्वा पराङ्मुखं लोकेषु वासुदेवोऽब्रवीत्त्वरन् ॥९०॥

देवसेनापते शीघ्रं शक्तिं मुंच महासुरे ॥
प्रतिज्ञामात्मनः पाहि लंबते रविमंडलम् ॥९१॥

॥ स्कंद उवाच ॥
त्वयैव रुद्रभक्तोऽयं जनार्दन ममेरितम् ॥
वधार्थं रुद्रभक्तस्य बाहुः शक्तिं मुंचति ॥९२॥

नारुद्रः पूजयेद्रुद्रं भक्तरूपस्य यो हरः ॥
रुद्ररूपममुं हत्वा कीदृशं जन्मनो भवेत् ॥९३॥

तिरस्कृता विप्रलब्धाः शप्ताः क्षिप्ताः प्रपीडिताः ॥
रुद्रभक्ताः कुलं सर्वं निर्दहंति हताः किमु ॥९४॥

एष चेद्धंति तद्भद्रं हन्यतामेष मां रणे ॥
रुद्रभक्ते पुनर्विष्णो नाहं शस्त्रमुपाददे ॥९५॥

 ॥श्रीभगवानुवाच ॥
नैतत्तवोचितं स्कंद रुद्रभक्तो यथा श्रृणु ॥
द्वे तनू गिरिजाभर्तुर्वेदज्ञा मुनयो विदुः ॥९६॥

एका जीवात्मिका तत्र प्रत्यक्षा च तथापरा ॥
द्रोग्धा भूतेषु भक्तश्च रुद्रभक्तो न स स्मृतः ॥९७॥

भक्तो रुद्रो कृपावांश्च जंतुष्वेव हरव्रतः ॥
तदेनं भूतमर्त्येषु द्रोग्धारं त्वं पिनाकिनः ॥९८॥

जहि नैवात्र पश्यामि दोषं कंचन ते प्रभो ॥
श्रुत्वेति वाचं गोविंदात्सत्यार्थामपि भारत ॥९९॥

हंतुं न कुरुते बुद्धिं रुद्रभक्त इति स्मरन् ॥
तारकस्तु ततः क्रुद्धो ययौ वेगेन केशवम् ॥१००॥

प्राह चैवं सुदुर्बुद्धे हन्मि त्वां पश्य मे बलम् ॥
देवानां चापि धर्माणां मूलं मतिमतां तथा ॥
हत्वा त्वामद्य सर्वांस्तांश्छेत्स्ये पश्याद्य मे बलम् ॥१०१॥

 ॥विष्णुरुवाच ॥
दैत्येंद्र तव चास्माभिः किमहो श्रृणु सत्यताम् ॥१०२॥

रथे य एष शर्वोऽयं हतेऽस्मिन्सकलं हतम् ॥
श्रुत्वेति तारकः क्रुद्धस्तूर्णं रुद्ररथं ययौ ॥१०३॥

अभिसृत्य स जग्राह रुद्रस्य रथकूबरम् ॥
यदा स कूबरं क्रुद्धस्तारकः सहसाऽग्रहीत् ॥१०४॥

रेसतू रोदसी तूर्णं मुमुहुश्च महर्षयः ॥
व्यनदंश्च महाकाया दैत्या जलधरोपमाः ॥१०५॥

आसीच्च निश्चितं तेषां जितमस्माभिरित्युत ॥
तार कस्याप्यभिप्रायं भगवान्वीक्ष्य शंकरः ॥१०६॥

उमया सह संत्यक्त्वा रथं वृषभमावहत् ॥
ओमित्यथ जपन्ब्रह्मा आकाशं सहसाश्रितः ॥१०७॥

ततस्तं शतसिंहं च रथं रुद्रेण निर्मितम् ॥
उत्क्षिप्य पृथ्व्यामास्फोट्य चूर्णयामास तारकः ॥१०८॥

शूलपाशुपतादीनि सहसोपस्थितानि च ॥
वारयामास गिरिशो भवः साध्य इति ब्रुवन् ॥१०९॥

ततः स्ववंचितं ज्ञात्वा रुद्रेणात्मानमीर्ष्यया ॥
विनदन्सहसाऽधावद्वृषभस्थं महेश्वरम् ॥११०॥

ततो जनार्दनोऽधावच्चक्रमुद्यम्य वेगतः ॥
वज्रमिंद्रस्तथोद्यम्य दंडं चापि यमो नदन् ॥१११॥

गदां धनेश्वरः क्रुद्धः पाशं च वरुणो नदन्
वायुर्महांकुशं घोरं शक्तिं वह्निर्महाप्रभाम् ॥११२॥

निर्ऋतिर्निशितं खड्गं रुद्राः शूलानि कोपिताः ॥
धनूंषि साध्या देवाश्च परिघान्वसवस्तथा ॥११३॥

विश्वेदेवाश्च मुसलं चंद्रार्कौ स्वप्रभामपि ॥
ओषधीश्चाश्विनौ देवौ नागाश्च ज्वलितं विषम् ॥११४॥

हिमाद्रि प्रमुखाश्चापि समुद्यम्य महीधरान् ॥
भृशमुन्नदतो देवान्धावतो वीक्ष्य तारकः ॥११५॥

निवृत्तः सहसा पार्थ महागज इवोन्नदन् ॥
स वज्रमुष्टि नाहत्य भुजे शक्रमपातयत् ॥११६॥

दंडं यमादुपादाय मूर्ध्न्याहत्य न्यपातयत् ॥
उरसाहत्य सगदं धनदं भुव्यपातयत् ॥११७॥

वरुणात्पाशमादाय तेन बद्धा न्यपातयत् ॥
महांकुशेन वायुं च चिरं मूर्ध्नि जघान सः ॥११८॥

फूल्कारैरुद्धतं वह्निं शमयामास तारकः ॥
निर्ऋतिंखड्गमादाय हत्वा तेन न्यपातयत् ॥११९॥

शूलैरेव तथा रुद्राः साध्याश्च धनुषार्दिताः ॥
परिघैरेव वसवो मुशलैरेव विश्वकाः ॥१२०॥

रेणुनाच्छाद्य चंद्रार्कौ वल्मीकस्थाविवेक्षितौ ॥
महोग्राश्चौषधीस्तालैरश्विभ्यां सोऽभ्यवर्तयत् ॥१२१॥

सविषाश्च कृता नागा निर्विषाः पादकुट्टनैः ॥
पर्वताः पर्वतैरेव निरुच्छ्वासा भृशं कृताः ॥१२२॥

एवं तद्देवसैन्यं च हाहाभूतमचेतनम् ॥
कृत्वा मुहूर्तादाधावच्चक्रपाणिं तमुन्नदन् ॥१२३॥

ततश्चांतर्दधे सद्यः प्रहसन्निव केशवः ॥
कुयोगिन इव स्वामी सदा बुद्धिमतां वरः ॥१२४॥

अपश्यंस्तारको विष्णुं पुनर्वृषभवा हनम् ॥
आधावत्कुपितो दैत्यो मुष्टिमुद्यम्य वेगतः ॥१२५॥

अचिरांशुरिवालक्ष्यो लक्ष्योथ भगवान्हरिः ॥
आबभाषे ततो देवान्बाहुमुद्यम्यचोच्चकैः ॥१२६॥

पलायध्वमहो देवाः शक्तिश्चेद्वः पलायितुम् ॥
विमूढा हि वयं सर्वे ये बालवचसागताः ॥१२७॥

किं न श्रुतः पुरा गीतः श्लोकः स्वायंभुवेन यः ॥
यथा बालेषु निक्षिप्ताः स्त्रीषु षंडितकेषु च ॥
अपस्मारीषु चैवापि सर्वे ते संशयं गताः ॥१२८॥

प्रत्यक्षं तदिदं सर्वमाधुना चात्र दृस्यते ॥१२९॥

अज्ञासिष्म पुरैवैतद्रुद्रभक्तं न हंत्यसौ ॥
यत्प्रतिज्ञां नाकरिष्यन्न स्यान्नः कदनं महत् ॥१३०॥

अथैष यदि दैत्येंद्रं न निहंति कुबुद्धिमान् ॥
मा भयं वो महाभागा निहनिष्यामि वो रिपून् ॥१३१॥

अद्य मे विपुलं बाह्वोर्बलं पश्यत दैत्याधमं नाशयामि मुष्टिनैकेन पश्यत ॥१३२॥

मया हि दक्षिणो बाहुर्दत्तश्च भवतां सदा ॥
रिपून्वा निहनिष्यामि सत्यं तत्परिपालये ॥१३३॥

येंऽबरे ये च पाताले भुवि ये च महासुराः ॥
क्षणात्तान्नासयिष्यामि महावातो घनानिव ॥१३४॥

एवमुक्ता जगन्नाथो मुष्टिमुद्यम्य दक्षिणम् ॥
निरायुधस्तार्क्ष्यपृष्ठादवप्लुत्याभ्यधावत ॥१३५॥

तस्मिन्धावति गोविंदे चचाल भुवनत्रयम् ॥
विमूर्छितमभूद्विश्वं देवा भीतिं परां ययुः ॥१३६॥

धावतश्चापि कल्पांतं रुद्रकल्पस्य तस्य याः ॥
मुखात्समुद्यजुर्ज्वालास्ताबिः खर्वशतं हतम् ॥१३७॥

ततोंऽतरिक्षे वाचश्च प्रोचुः सिद्धाः स्वयं तदा ॥
जहि कोपं वासुदेव त्वयि क्रुद्धे क्व वै जगत् ॥१३८॥

अनादृत्येव तद्वाक्यं ब्रुवन्नान्यत्करोम्यहम् ॥
आह्वयंश्च महादैत्यं क्रुद्धो हरिरधावत ॥१३९॥

उवाच वाचं साधूंश्च यत्नात्पालयतां फलम् ॥
दुष्टान्विनिघ्नतां चैव तत्फलं मम जायताम् ॥१४०॥

अथापश्यन्महासेनो रुद्रं यांतं च तारकम् ॥
तारकं चान्वधावन्तं पुरामपुरुषं हरिम् ॥१४१॥

जगच्च क्षुब्धमत्यर्थं स्वां प्रतिज्ञां पुरा कृताम् ॥
पश्चिमां प्रतिलंबंतं भास्करं चापि लोहितम् ॥१४२॥

आकाशवाणीं श्रृण्वंश्च किं स्कन्द त्वं विषीदसी ॥
पश्चात्तापो यदि भवेत्कृत्वा ब्रह्मवधं त्वयि ॥१४३॥

स्थापयेर्लिगमीशस्य मोक्षो हत्याशतैरपि ॥
आविवेश महाक्रोधं दिधक्षुरिव मेदिनीम् ॥१४४॥

अथोत्प्लुत्य मयूरात्स प्रहसन्निव केशवम् ॥
बाहुभ्यामप्युपादाय प्रोवाच भवनंदनः ॥१४५॥

जानामि त्वामहं विष्णो महाबुद्धिपराक्रमम् ॥
भूतभव्यविष्यांश्च दैत्यान्हंस्यपि हूंकृतैः ॥१४६॥

त्वमेव हंता दैत्यानां देवानां परिपालकः ॥
धर्मसंस्थापकश्च त्वमेव ते रचितोंऽजलिः ॥१४७॥

क्षणार्धं पश्य मे वीर्यं भास्करो लोहितायते ॥
एवं प्रणम्य स्कन्देन वासुदेवः प्रसादितः ॥१४८॥

विरोषोऽभूत्तमालिंग्य वचनं केशवोऽब्रवीत् ॥
सनाथस्त्वद्य धर्मोऽयं सुराश्चैव त्वया गुह ॥१४९॥

स्मरात्मानं यदर्थं त्वमुत्पन्नोऽसि महेश्वरात् ॥
साधूनां पालनार्थाय दुष्टसंहरणाय च ॥
सुरविप्रकृते जन्म जीवितं च महात्मनाम् ॥१५०॥

रुद्रस्य देव्या गंगायाः कृत्तिकानां च तेजसा ॥
स्वाहावह्नेश्च जातस्त्वं तत्तेजः सफलीकुरु ॥
साधूनां च कृते यस्य धनं वीर्यं च संपदः ॥१५१॥

सफलं तस्य तत्सर्वं नान्यथा रुद्रनंदन ॥१५२॥

अद्य धर्मश्च देवाश्च गावः साध्याश्च ब्राह्मणाः ॥
नंदंतु तव वीर्येण प्रदर्शय निजं बलम् ॥१५३॥

 ॥स्कन्द उवाच ॥
या गतिः शिवत्यागेन त्वत्त्यागेन च केशव ॥
तां गतिं प्राप्नुयां क्षिप्रं हन्मि चेन्न हि तारकम् ॥१५४॥

या गतिः श्रुतित्यागेन साध्वी भार्यातिपीडनात् ॥
साधूनां च परित्यागाद्वृथा जीवितसाधनात् ॥
निष्ठुरस्य गतिर्या च तां गतिं यामि केशव ॥१५५॥

इत्युक्ते सुमहान्नादः संप्रजज्ञे दिवौकसाम् ॥
प्रशशंसुर्गुहं केचित्केचिन्नारायणं प्रभुम् ॥१५६॥

ततस्तार्क्षअयं समारुद्य हरिस्तस्मिन्महारणे ॥
ताम्रचूडं महासेन स्तारकं चाप्यधावताम् ॥१५७॥

लोहितांबरसंवीतो लोहितस्रग्विभूषणः ॥
लोहिताक्षो महाबाहुर्हिरण्यकवचः प्रभुः ॥१५८॥

भुजेन तोलयञ्छक्तिं सर्वभूतानि कम्पयन् ॥
प्राप्य तं तारकं प्राह महासेनो हसन्निव ॥१५९॥

तिष्ठतिष्ठ सुदुर्बुद्धे जीवितं ते मयि स्थितम् ॥
सुहृष्टः क्रियतां लोको दुर्लभः सर्वसिद्धिदः ॥१६०॥

यत्ते सुनिष्ठुरत्वं च धर्मे देवेषु गोषु च ॥
तस्य ते प्रहराम्यद्य स्मर शस्त्रं सुशिक्षितम् ॥१६१॥

एवमुक्ते गुहेनाथ निवृत्तस्यास्य भारत ॥
तारकस्य शिरोदेशात्कापि नारी विनिर्ययौ ॥१६२॥

तेजसा भासयंती तमध ऊर्ध्वं दिशो दश ॥
दृष्ट्वा नारीं गुहः प्राह कासि कस्माच्च निर्गता ॥१६३॥

 ॥नार्युवाच ॥
अहं शक्तिर्गुहाख्याता भूतलेषु सदा स्थिता ॥
अनेन दैत्यराजेन महता तपसार्ज्जिता ॥१६४॥

सुरेषु सर्वेषु वसामि चाहं विप्रेषु शास्त्रार्थरतेषु चाहम् ॥
साध्वीषु नारीषु तथा वसामि विना गुणान्नास्मि वसामि कुत्रचित् ॥१६५॥

तदस्य पुण्यसंघस्य संप्राप्तोद्यावधिर्गुह ॥
तदेनं त्यज्य यास्यामि जह्येनं विश्वहेतवे ॥१६६॥

तस्यां ततो निर्गतायां दैत्यशीर्षं व्यकम्पयत् ॥
कंपितं चास्य तद्देहं गतवीर्योऽभवत्क्षणात् ॥१६७॥

एतस्मिन्नंतरे शक्तिं सोऽक्षिपद्गिरिजात्मजः ॥
उल्काज्वाला विमुञ्चंतीमतिसूर्याग्निसप्रभाम् ॥१६८॥

कल्पांभोधिसमुन्नादां दिधक्षंतीं जगद्यथा ॥
तारकस्यांतकालाय अभाग्यस्य दशामिव ॥१६९॥

दारणीं पर्वतानां च सर्वसत्त्वबलाधिकाम् ॥
उत्क्षिप्य तां विनद्योच्चैरमुञ्चत्कुपितो गुहः ॥१७०॥

धर्मश्चेद्बलवाँल्लोके धर्मो जयति चेत्सदा ॥
तेन सत्येन दैत्योयं प्रलयं यात्वितीरयन् ॥१७१॥

सा कुमारभुजोत्सृष्टा दुर्निवार्या दुरासदा ॥
विभेद हृदयं चास्य भित्त्वा च धरणिं गता ॥१७२॥

निःसृत्य जलकल्लोलपूर्विका स्कंदमाययौ ॥
स च संताडितः शक्त्या विभिन्नहृदयोसुरः ॥
नादयन्वसुधां सर्वां पपातायोमुखो मृतः ॥१७३॥

एवं प्रताप्य त्रैलोक्यं निर्जित्य बहुशः सुरान् ॥
महारणे कुमारेण निहतः पार्थ तारकः ॥१७४॥

एतस्मिन्निहते दैत्ये प्रहर्षं विश्वमाययौ ॥१७५॥

ववुर्वातास्तथा पुण्याः सुप्रभोभूद्दिवाकरः ॥
जज्वलुश्चाग्नयः शांताः शांता दिग्जनितस्वनाः ॥१७६॥

ततः पुनः स्कंदमाह प्रहृष्टः केशवोऽरिहा ॥
स्कंदस्कंद महाबाहो बाणोनाम बलात्मजः ॥१७७॥

क्रौंचपर्वतमादाय देवसंघान्प्रबाधते ॥
सोऽधुना ते भयाद्वीर पलायित्वा नगं गतः ॥
जहि तं पापसंकल्पं क्रौंचस्थं शक्तिवेगतः ॥१७८॥

ततः क्रौंचं महातेजा नानाव्यालविनादितम् ॥
शक्त्या बिभेद बहुभिर्वृक्षैर्जीवैश्च संकुलम् ॥१७९॥

तत्र व्यालसहस्राणि दैत्यकोट्ययुतं तथा ॥
ददाह बाणां च गिरं भित्त्वा शक्तिर्महारवा ॥१८०॥

अद्यापि छिद्रं तत्पार्थ क्रौंचस्य परिवर्तते ॥१८१॥

येन हंसाश्च क्रौंचाश्च मानसाय प्रयांति च ॥
हत्वा बाणं महाशक्तिः पुनः स्कंदं समागता ॥
प्रत्यायाति मनः साधोराहृतं प्रहितं तथा ॥१८२॥

ततो हरींद्रप्रमुखाः प्रतुष्टुवुर्ननृतुश्च रंभाप्रमुखा वरांगनाः ॥
वाद्यानि सर्वाणि च वादयंतस्तं साधुसाध्वित्यमरा जगुर्भुशम् ॥१८३॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां प्रथमे माहेस्वरखण्डे कौमारिकाखण्डे कुमारेश्वरमाहात्म्ये कुमारकृततारकवधवर्णनंनाम द्वात्रिंशोऽध्यायः ॥३२॥

N/A

References : N/A
Last Updated : July 23, 2024

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP