संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|माहेश्वरखण्ड|कौमारिकाखण्डः| अध्यायः २० कौमारिकाखण्डः अध्यायः ०१ अध्यायः ०२ अध्यायः ०३ अध्यायः ०४ अध्यायः ०५ अध्यायः ०६ अध्यायः ०७ अध्यायः ०८ अध्यायः ०९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ विषयानुक्रमणिका कौमारिकाखण्डः - अध्यायः २० भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे. Tags : puransanskritskand puranपुराणसंस्कृतस्कंद पुराण अध्यायः २० Translation - भाषांतर ॥ नारद उवाच ॥तं दृष्ट्वा दानवाः सर्वे क्रुद्धाः स्वैःस्वैर्बलैर्वृताः ॥सरघा इव माक्षिकं रुरुधुः सर्वतस्ततः ॥१॥पर्वताभे गजे भीमे मदस्राविणि दुर्दमे ॥सितचित्रपताके तु प्रभिन्नकरटामुखे ॥२॥स्वर्णवर्णांचिते यद्वन्नगे दावाग्निसंवृते ॥आरुह्यजौ निमिर्दैत्यो हरिं प्रत्युद्ययौ बली ॥३॥तस्यासन्दानवा रौद्रा गजस्य परिरक्षिणः ॥सप्तविंशतिकोट्यश्च किरीटकवचोज्जवलाः ॥४॥अश्वमारुह्य शैलाभं हरिमाद्रवत् ॥पंचयोजनप्रग्रीवमुष्ट्रमास्थाय जंभकः ॥५॥शुम्भो मेषं समारुह्याव्रजद्द्वादशयोजनम् ॥अपरे दानवेन्द्राश्च यत्ता नानास्त्रापाणयः ॥६॥आजग्मुः समरे क्रुद्धा विष्णुमक्लिष्टकारिणम् ॥परघेण निमिर्दैत्यो मथनो मुद्गरेण च ॥७॥शुम्भः शूलेन तीक्ष्णेन प्रासेन ग्रसनस्तथा ॥चक्रेण क्रथनः क्रुद्धो जंभः शक्त्या महारणे ॥८॥जघ्नुर्नारायणं शेषा विशिखैर्मर्मभेदिभिः ॥तान्यस्त्राणि प्रयुक्तानि विविशुः पुरुषोत्तमम् ॥९॥उपदेशा गुरोर्यद्वत्सच्छिष्यं बहुधेरिताः ॥ततः क्रुद्धो हरिर्गृह्य धनुर्बाणांश्च पुष्कलान् ॥१०॥ममर्द दैत्यसेनां तद्धर्ममर्थवचो यथा ॥निमिं विव्याध विंशत्या वाणैरनलवर्चसैः ॥११॥मथनं दशभिश्चैव शुम्भं पंचभिरेव च ॥शतेन महिषं क्रुद्धो विव्याधोरसि माधवः ॥१२॥जंभं द्वादशभिस्तीक्ष्णैः सर्वांश्चैकैक शोऽष्टभिः ॥तस्य तल्लाघवं दृष्ट्वा दानवाः क्रोधमूर्छिताः ॥१३॥चक्रुर्गाढतरं यत्नमावृण्वाना हरिं शरैः ॥चिच्छेदाथ धनुर्ज्यां च निमिर्भल्लेन दानवः ॥१४॥हस्ताच्चापं च संरंभाच्चिच्छेद महिषासुरः ॥षीडयामासा गरुडं जंभो बाणायुतैस्त्रिभिः ॥१५॥।भुजावस्य च विव्याध शंभो बाणायुतेन वै ॥ततो विस्मितचित्तस्तु गदां जग्राह माधवः ॥१६॥तां प्राहिणोत्स वेगेन मथनाय महाहवे ॥तामाप्राप्तां निमिर्बाणैर्मुशलाभैः सहस्रशः ॥१७॥आहत्य पातयामास विनदन्कालमेघवत् ॥ततोंऽतरिक्षे हाहेति भूतानां जज्ञिरे कथाः ॥१८॥नैतदस्ति बलं व्यक्तं यत्राशीर्यत सा गदा ॥तां हरिः पतितां दृष्ट्वा अस्थाने प्रार्थनामिव ॥१९॥जग्राह मुद्गरं घोरं दिव्यरत्नपरिष्कृतम् ॥तं मुमोचातिवेगेन निमिमुद्दिश्य दानवम् ॥२०॥तमायांतं वियत्येव त्रयो दैत्या ह्यवारयन् ॥गदया दंभदैत्यस्तु ग्रसनः पट्टिशेन तु ॥२१॥शक्त्या च महिषो दैत्यो विनदंतो महाररवम् ॥निराकृतं तमालोक्य दुर्जनैः सुजनं यथा ॥२२॥जग्राह शक्तिमुग्रोग्रां शतघंटामहास्वनाम् ॥जंभाय तां समुद्दिश्य प्राहिणोद्भीषणेरणे ॥२३॥तामायान्तीमथालोक्य जंभोऽन्यस्य रथात्त्वरात् ॥आप्लुत्य लीलया गृह्णन्कामिनीं कामुको यथा ॥२४॥तयैव गरुडं मूर्ध्नि जघ्ने स प्रहसन्बली ॥ततो भूयो रथं प्राप्य घनुर्गृह्यभ्ययोजयत् ॥२५॥विचेताश्चाभवद्युद्धे गरुडः शक्तिपीडितः ॥ततः प्रहस्य तं विष्णुः साधुसाध्विति भारत ॥२६॥करस्पर्शेन कृतवान्विमोहं विनतात्मजम् ॥समाश्वास्य च तं वाग्भिः शक्तिं दृष्ट्वा च निष्फलाम् ॥२७॥कुभार्यस्य यथा पुंसः सर्वंस्याच्चिंतितं वृथा ॥दृठसारमहामौर्वीमन्यां संयोजयत्ततः ॥२८॥कृत्वा च तलनिर्घोषं रौद्रमस्त्रं मुमोच सः ॥ततोऽस्त्रतेजसा सर्वमाकाशं नैव दृश्यते ॥२९॥भूमिर्दिशश्च विदिशो बामजालमया बुभुः ॥दृष्ट्वा तदस्त्रमाहात्म्यं सेनानीर्ग्रसनोऽसुरः ॥३०॥ब्राह्ममस्त्रं चकाराशु सर्वास्त्रविनिवारणम् ॥तेन तत्प्रशमं यातं रौद्रास्त्रं लोकभीषणम् ॥३१॥अस्त्रे प्रतिहते तस्मिन्विष्णुर्दानवसूदनः ॥कालदंडास्त्रमकरोत्सर्वलोकभयंकरम् ॥३२॥संधीयमानेस्त्रे तस्मिन्मारुतः परुषो ववौ ॥चकंपे च मही देवी भिन्नाश्चांबुधयोऽभवन् ॥३३॥तदस्त्रमुग्रं दृष्ट्वा तु दानवा युद्धदुर्मदाः ॥चक्रुरस्त्राणि दिव्यानि नानारूपाणि संयुगे ॥३४॥नारायणांस्त्रं ग्रसनस्तु चक्रे त्वाष्ट्रं निमिश्चास्त्रवरं मुमोच ॥ऐषीकमस्त्रं च चकार जंभो युद्धस्य दण्डास्त्र निवारणाय ॥३५॥यावच्च संधानवशं प्रयांति नारायणादीनि निवारणाय ॥तावत्क्षणेनैव जघान कोटींदैत्येश्वराणां किल कालदंडः ॥३६॥अनंतरं शांतभयं तदस्त्रं दैत्यास्त्रयोगेन च कालदण्डम् ॥शांतं तदालोक्य हरिः स्वमस्त्रं कोपेन कालानलतुल्यमूर्तिः ॥३७॥जग्राह चक्रं तपना युतप्रभमुग्रारमात्मानमिव द्वितीयम् ॥चिक्षेप सेनापतये ज्वलंतं चतुर्भूजः संयति संप्रगृह्य ॥३८॥तदाव्रजच्चक्रमथो विलोक्य सर्वात्मना दैत्यवराः स्ववीर्यात् ॥नाशक्नुन्वारयितुं प्रचंडं दैवं यथा पूर्वमिवोपपन्नम् ॥३९॥तदप्रतर्क्यं नवहेतितुल्यं चक्रं पपात ग्रसनस्य कण्ठे ॥तद्रक्तधारा रुणघोरनाभि जगाम भूयोपि करं मुरारेः ॥४०॥चक्राहतः संयति दानवश्च पपात भूमौ प्रममार चापि ॥दैत्याश्च शेषा भृशशौकमापुः क्रोधं च केचित्पिपिषुर्भुजांश्च ॥४१॥ततो विनिहते दैत्ये ग्रसने बलनायके ॥निर्मर्यादमयुध्यंत हरिणा सह दानवाः ॥४२॥पट्टिशैर्मुशलैः प्रासैग्नि दाभिः कणपैरपि ॥तीक्ष्णाननैश्च नाराचैश्चक्रैः शक्तिभिरेव च ॥४३॥तदस्त्रजालं तैर्मुक्तं लब्धलक्षो जनार्दनः ॥एकैकं शतधा चक्रे बाणैरग्नि शिखोपमैः ॥४४॥जघान तेषां संक्रुद्धः कोटिकोटिं जनार्दनः ॥ततस्ते सहसा भूत्वा न्यपतन्केशवोपरि ॥४५॥गरुडं जगृहुः केचित्पादयोः शतशोऽसुराः ॥ललंबिरे च पक्षाभ्यां मुखे चान्ये ललंबिरे ॥४६॥केशवस्यापि धनुषि भुजयोः शीर्ष एव च ॥ललंबिरे महादैत्या निनदंतो मुहुर्मुहुः ॥४७॥तदद्भुतं महद्दृष्ट्वा सिद्धचारणवार्तिकाः ॥हाहेति मुमुचुर्नादसंबरे चास्तुवन्हरिम् ॥४८॥ततो हरिर्विनिर्धूय पातयामास तान्भुवि ॥यथा प्रबुद्धः पुरुषो दोषान्संसारसंभवान् ॥४९॥विकोशं च ततः नंदकं खड्गमुत्तमम् ॥चर्म चाप्यमलं विष्णुः पदातिस्तानधावत ॥५०॥ततो मुहूर्तमात्रेण पद्मानि दश केशवः ॥चकर्त्त मार्गे बहुभिर्विचरन्दैत्यसत्तमान् ॥५१॥ततो निमिप्रभृतयो विनद्यासुरसत्तमाः ॥अधावंत महेष्वासाः केशवं पादचारिणम् ॥५२॥गरुत्मांश्चाभ्ययात्तूर्णमारुरोह च तं हरिः ॥उवाच च गरुत्मंतं तस्मिंश्च तुमुले रणे ॥५३॥९अश्रांतो यदि तार्क्ष्यासि मथनं प्रति तद्व्रज ॥श्रांतश्चेच्च मुहूर्तं त्वं रणादपसृतो भव ॥५४॥ ॥तार्क्ष्य उवाच ॥न मे श्रमोऽस्ति लोकेश किंचित्संस्मरतश्च मे ॥यन्मे सुतान्वाहनत्वे कल्पयामास तारकः ॥५५॥इति ब्रवन्रणे दैत्यं मथनं प्रति सोऽगमत् ॥दैत्यस्तवभिमुखं दृष्ट्वा शंखचक्रगदाधरम् ॥५६॥जघान भिंडिपालेन शितधारेण वक्षसि ॥तं प्रहारमचिंत्यैव विष्णुस्तस्मिन्महाहवे ॥५७॥जघान पंचभिर्बाणैर्गिरींद्रस्यापि भेदकैः ॥आकर्णकृष्टैर्दशभिः पुनर्विद्धः स्तनांतरे ॥५८॥विचेतनो मुहूर्तात्स संस्तभ्य मथनः पुनः ॥गृहीत्वा परिघं मूर्ध्नि जनार्दनमताडयत् ॥५९॥विष्णुस्तेन प्रहारेण किंचिदाघूर्णितोऽभवत् ॥ततः कोपविवृत्ताक्षो गदां जग्राह माधवः ॥६०॥तया संताडयामास मथनं हृदये दृढम् ॥स पपात तथा भूमौ चूर्णितांगो ममार च ॥६१॥तस्मिन्निपतिते भूमौ मथने मथिते भृशम् ॥अवसादं युयुर्दैत्याः सर्वे ते युद्धमण्डले ॥६२॥ततस्तेषु विषण्णेषु दानवेष्वतिमानिषु ॥चुकोप रक्तनयनो महिषो दानवेश्वरः ॥६३॥प्रत्युद्ययौ हरिं रौद्रः स्वबाहुबलमाश्रितः ॥रीक्ष्णधारेण शूलेन महिषो हरिमर्दयन् ॥६४॥शक्त्या च गरुडं वीरो हृदयेऽभ्यहनद्दृढम् ॥ततो विवृत्य वदनं महामलगुहानिभम् ॥६५॥ग्रस्तुमैच्छद्रणे दैत्यः सगरुत्मंतमच्युतम् ॥अथाच्युतोऽपि विज्ञाय दानवस्य चिकीर्षितम् ॥६६॥वदनं पूरयामास दिव्यैस्त्रैर्महाबलः ॥स तैर्बाणैरभिहतो महिषोऽचलसंनिभः ॥६७॥परिवर्तितकायार्धः पपाताथ ममार च ॥महिषं पतितं दृष्ट्वा जीवयित्वा पुनर्हरिः ॥६८॥महिषं प्राह मत्तस्त्वं वधं नार्हसि दानव ॥योषिद्वध्यः पुरोक्तस्त्वं साक्षात्कमलयोनिना ॥६९॥उत्तिष्ठ गच्छ मन्मुक्तो द्रुतमस्मान्महारणात् ॥इत्युक्तो हरिणा तस्माद्देशादपगतोऽसुरः ॥७०॥तस्मिन्पराङ्मुखे दैत्ये महिषे शुंभदानवः ॥संदष्टौष्ठपुटाटोपो भृकुटीकुटिलाननः ॥७१॥निर्मध्य पाणिना पाणिं धनुरादाय भैरवम् ॥सज्जीकृत्य महाघोरान्मुमोच शतशः शरान् ॥७२॥स चित्रयोधी दृढमुष्टिपातस्ततश्व विष्णुं च दैत्यः ॥बाणैर्ज्वलद्वह्निशिखानिकाशैः क्षिप्तैरसंख्यैः प्रतिघाहीनैः ॥७३॥विष्णुश्च दैत्येंद्रशरार्दितो भृशं भुशुंडिमादाय कृतांततुल्याम् ॥तया मुखं चास्य पिपेष संख्ये शुंभस्य जत्रुं च धराधराभम् ॥७४॥ततस्त्रिभिः शंभुभुजं द्विषष्ट्या सूतस्य शीर्षं दशक्षिश्च केतुम् ॥विष्णुर्विकृष्टैः श्रवणावसानं दैत्यस्य बाणैर्ज्वलनार्कवर्णैः ॥७५॥स तैश्च विद्धो व्यथितो बभूव दैत्येश्वरो विस्रुतशोणिताक्तः ॥ततोऽस्य किंचिच्चलितस्य धैर्यादुवाच शंखांबुजसार्ङ्गपाणिः ॥७६॥योषित्सुवध्योऽसि रणं विभुंच शुंभाऽशुभ स्वल्पतरैरहोभिः ॥मत्तोर्हसि त्वं न वृथैव मूढ ततोऽपयातः स च शंभदानवः ॥७७॥जम्भोऽथ तद्विष्णुमुखान्निशम्य जगर्ज चोच्चैः कृतसिंहनादः ॥प्रोवाच वाक्यं च सलीलमाजौ महाट्टहासेन जगद्विकंप्य ॥७८॥किमेभिस्ते जलावास दैत्यैर्हीनपराक्रमैः ॥मामासादय युद्धेऽस्मिन्यदि ते पौरुषं क्वचित् ॥७९॥यत्ते पूर्वं हता दैत्या हिरण्याक्षमुखाः किल ॥जंभस्तदाभवन्नैव पश्य मामद्य संस्थितम् ॥८०॥पश्य तालप्रती काशौ भुजावेतौ हरे मम ॥वक्षो वा वज्रकठिनं मयि प्रहर तत्सुखम् ॥८१॥इत्युक्तः केशवस्तेन सृक्किणी संलिहन्रुषा ॥मुमोच परिघंघोरं विरीणामपि दारणम् ॥८२॥ततस्तस्याप्यनुपदं कालायसमयं दृढम् ॥मुमोच मुद्गरं विष्णुर्द्वितीयं पर्वतं यथा ॥८३॥तदायुधद्वयं दृष्ट्वा जंभो न्यस्य रथे धनुः ॥आप्लुत्य परिघं गृह्य गरुडं तेन जघ्निवान् ॥८४॥द्वितीयं मुद्गरं चानु गृहीत्वा विनदन्रणे ॥सर्वप्राणेन गोविंदं तेन मूर्ध्नि जघान सः ॥८५॥ताभ्यां चातिप्रहाराभ्यामुभौ गरुडकेशवौ ॥मोहाविष्टौ विचेतस्कौ मृतकल्पाविवासताम् ॥८६॥तदद्भुतं महद्दृष्ट्वा जगर्जुर्दैत्यसत्तमाः ॥नैतान्हर्षमदोद्धूतानिदं सेहे जगत्तदा ॥८७॥सिंहनादैस्तलोन्नाहैर्धनुर्नादैश्च बाणजैः ॥जंभं ते हर्षयामासुर्वासांस्यादुधुवुश्च ते ॥८८॥शंखांश्च पूरयामासुश्चिक्षिपुर्देवता भृशम् ॥८९॥संज्ञामवाप्याथ महारणे हरिः सवैनतेयः परिरभ्य जंभम् ॥पराङ्मुखः संयुगादप्रधृष्यात्पलायनं वेगपरश्चकार ॥९०॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां प्रथमे माहेश्वरखण्डे कौमारिकाखंडे दैत्यैः सह विष्णोर्युद्धवर्णनंनाम विंशोऽध्यायः ॥२०॥ N/A References : N/A Last Updated : July 23, 2024 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP