संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|माहेश्वरखण्ड|कौमारिकाखण्डः|
अध्यायः ६१

कौमारिकाखण्डः - अध्यायः ६१

भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.


 ॥ सूत उवाच ॥
ततो घटोत्कचो मुक्त्वा तत्र कामकटंकटाम् ॥
पुत्रेणानुगतो धीमान्वियता द्वारकां ययौ ॥१॥
आगच्छन्तं च तंदृष्ट्वा राक्षसं राक्षसानुगम् ॥
द्वारकावासिनो योधाश्चक्रुरत्युल्बणं रवम् ॥२॥
ग्रामे ग्रामे सुसंनद्धा नवलक्षमिता रथाः ॥
राक्षसौ द्वौ समायातौ पात्येतां विशिखैरिति ॥३॥
तान्गृहीतायुधान्दृष्ट्वा यदुवीरान्घटोत्कचः ॥
प्रगृह्य विपुलं बाहुं जगौ तारस्वरेण सः ॥४॥
राक्षसं वित्त मां वीरा भीमपुत्रं घटोत्कचम् ॥
सुप्रियं वासुदेवस्य प्रणामार्थमुपागतम् ॥५॥
निवेदयत मां प्राप्तं यादवेन्द्राय सात्मजम् ॥
इति तस्य वचः श्रुत्वा ते कृष्णाय न्यवेदयन् ॥६॥
आह देवः सभास्थश्च शीघ्रमत्राव्रजत्वसौ ॥
ततः प्रवेशयामासुर्द्वारकां ते घटोत्कचम् ॥७॥
सपुत्रः सोऽपि रम्याणि वनान्युपवनानि च ॥
क्रीडाशैलांश्च हर्म्याणि संपश्यन्नागतः सभाम् ॥८॥
स तत्र उग्रसेनं च वसुदेवं च सात्यकिम् ॥
अक्रूररामप्रमुखान्ववन्दे कृष्णमेव च ॥९॥
तं पादयोर्निपतितं समालिंग्य सहात्मजम् ॥
साशिषं स्वसमीपस्थमुपवेश्येदमब्रवीत् ॥१०॥
पुत्र राक्षसशार्दूल कुरूणां कुलवर्धन ॥
कुशलं सर्वतः कच्चित्किमर्थस्ते समागमः ॥११॥
 ॥ घटोत्कच उवाच
देव युष्मत्प्रसादेन सर्वतः कुशलं मम ॥
श्रूयतां कारणं स्वामिन्यदर्थमहमागतः ॥१२॥
देवोपदिष्ट भार्यायां जातोऽयं तनयो मम ॥
स च प्रश्नं वक्ष्यति त्वां श्रूयतामागतस्त्वतः ॥१३॥
 ॥ श्रीकृष्ण उवाच
वत्स मौर्वेय ब्रूहि त्वं सर्वं पृच्छ यदिच्छसि ॥
यथा घटोत्कचो मह्यं सुप्रियश्च तथा भवान् ॥१४॥
 ॥ बर्बरीक उवाच
प्रणम्य त्वामादिदेवं मनोबुद्धिसमाधिभिः ॥
प्रक्ष्यामि केन श्रेयः स्याज्जंतोर्जातस्य माधव ॥१५॥
केचिच्छ्रेयो धर्ममाहुरैश्वर्यं त्यागभोजनम् ॥
केचिद्दमं तपो द्रव्यं भोगान्मुक्तिं च केचन ॥१६॥
तदेवं शतसंख्येषु श्रेयस्सु पुरुषोत्तम ॥
मम चैवं कुलस्यास्य श्रेयो यद्ब्रूहि निश्चितम् ॥१७॥
 ॥ श्रीकृष्ण उवाच
वत्स पृथक्पृथक्प्रोक्तं वर्णानां श्रेय उत्तमम् ॥
ब्राह्मणानां तपो मूलं दमोऽध्ययनमेव च ॥१८॥
धर्मप्रकटनं चापि श्रेय उक्तं मनीषिभिः ॥
बलं साध्यं पूर्व मेव क्षत्रियाणां प्रकीर्तितम् ॥१९॥
दुष्टानां शासनं चापि साधूनां परिपालनम् ॥
पाशुपाल्यं च वैश्यानां कृषिर्विज्ञानमेव च ॥२०॥
शूद्रस्य द्विजशुश्रूषा तया जीवन्वणिग्भवेत् ॥
शिल्पैर्वा विविधैर्जीवेद्द्विजातिहितमाचरन् ॥२१॥
भार्यारतिर्भृत्यपोष्टा शुचिः श्रद्धा परायणः ॥
नमस्कारेण मन्त्रेण पंचयज्ञान्न हापयेत् ॥२२॥
तद्भवान्क्षत्रियकुले जातोऽसि कुरु तच्छृणु ॥
बलं साधय पूर्वं त्वमतुलं तेन शिक्षय ॥२३॥
दुष्टान्पालय साधूंश्च स्वर्गमेवमवाप्स्यसि ॥
बलं च लभ्यते पुत्र देवीनां सुप्रसादतः ॥२४॥
तद्भवान्बलप्राप्त्यर्थं देव्याराधनमाचर ॥२५॥
 ॥ बर्बरीक उवाच
कस्मिन्क्षेत्रे च कां देवीं कथमाराधयाम्यहम् ॥
एतत्प्रसादप्रवणं मनः कृत्वा निवेदय ॥२६॥
 ॥ सूत उवाच
इति पृष्टः क्षणं ध्यात्वा प्राह दामोदरो विभुः ॥
वत्स क्षेत्रं प्रवक्ष्यामि यत्र तप्स्यसि तत्तपः ॥
गुप्तक्षेत्रमिति ख्यातं महीसागरसंगमे ॥२७॥
तत्र त्रिभुवने याश्च संति देव्यः पृथग्विधाः ॥
नारदेन समानीतास्ताश्चैक्यं सुमहात्मना ॥२८॥
चतस्रस्तस्य दिग्देव्यो नव दुर्गाश्च संति याः ॥
समाराधय ता गत्वा तासामैक्यं हि दुर्लभम् ॥२९॥
नित्यं पूजय ताः पुत्र पुष्पधूपविलेपनैः ॥
स्तुतिभिश्चोपहारैश्च यथा तुष्यति तास्तव ॥३०॥
तुष्टासु देवीषु बलं धनं च कीर्तिश्च पुत्राः सुभगाश्च दाराः ॥
स्वर्गस्तथा मुक्तिपदं च सत्सुखं न दुर्लभं सत्यमेतत्तवोक्तम् ॥३१॥
 ॥ सूत उवाच
एवमुक्त्वा बर्बरीकं कृष्णः प्राह घटोत्कचम् ॥
घटोत्कचार्य पुत्रस्ते दृढं सुहृदयो ह्यसौ ॥३२॥
तस्मात्सुहृदयेत्येवं दत्तं नाम मया द्विकम् ॥
एवमुक्त्वा समालिंग्य संतर्ज्य विविधैर्धनैः ॥३३॥
गुप्तक्षेत्राय भगवान्बर्बरीकं समादिशत् ॥
सोऽथ कृष्णं नमस्कृत्य पितरं यादवांश्च तान् ॥३४॥
अनुज्ञाप्य च तान्सर्वान्गुप्तक्षेत्रं समाव्रजत् ॥
घटोत्कचोऽपि कृष्णेन विसृष्टः स्ववनं ययौ ॥३५॥
स्मरन्पुत्रगुणान्पत्न्या स्वराज्यं समपालयत् ॥
ततः सुहृदयो धीमान्दग्धस्थल्यां कृताश्रमः ॥३६॥
त्रिकालं पूजयामास देवीः कर्मसमाधिभिः ॥
नित्यं पुष्पैश्च धूपैश्च उपहारैः पृथग्विधैः ॥३७॥
तस्याराधयतो देव्यस्तुतुषुर्हायनैस्त्रिभिः ॥
ततः प्रत्यक्षतो भूत्वा बलात्तस्य महात्मनः ॥३८॥
बलं यत्त्रिषु लोकेषु कस्यचिन्नास्ति दुर्लभम् ॥
ऊचुश्च कंचित्कालं त्वं वसात्रैव महाद्युते ॥३९॥
संगत्या विजयस्य त्वं भूयः श्रेयो ह्यवाप्स्यसि ॥
इत्युक्तः सर्वदेवीभिः स तत्रैव व्यवस्थितः ॥४०॥
आजगामाथ विजयो नाम्ना मागधब्राह्मणः ॥
स सर्वां पृथिवीं कृत्वा पादाक्रांतां द्विजोत्तमः ॥४१॥
काश्यां विद्याबलं प्राप्य साधनार्थमुपाययौ ॥
गुहेश्वरमुखान्येष सप्तलिंगान्यपूजयत् ४२॥
आराधयामास चिरं देवीर्विद्याफलाप्तये ॥
ततस्तुष्टास्तस्य देव्यः स्वप्ने प्रोचुरिदं वचः ॥४३॥
विद्यां साधय त्वं साधो सिद्धमातुः पुरोंऽगणे ॥
अयं भक्तः सुहृदयः साहाय्यं ते करिष्यति ॥४४॥
ततस्तद्वचनं श्रुत्वा विजयः स्वप्नमध्यतः ॥
उत्थाय गत्वा देव्यास्तं वव्रे भीमात्म जात्मजम् ॥४५॥
सोऽपि देवीवचः श्रुत्वा मेने साहाय्यकारणम् ॥
ततः कृष्णचतुर्दश्यामुपोष्य विजयः शुचिः ॥४६॥
स्नात्वाभ्यर्च्यैव लिंगानि देवीश्चैवार्चयत्पृथक् ॥
कृत्वा स्नानमुपोष्यैव बर्बरीकोंऽतिकेऽभवत् ॥४७॥
प्रथमायां ततो रात्रौ ययौ सिद्धांबिकापुरः ॥
मंडलं तत्र कृत्वा च भगाकारं करान्नव ॥४८॥
अष्टदिक्ष्वष्टकीलांश्च निखन्यैव ससूत्रकान् ॥
कृष्णाजिनधरो भूत्वा बर्बरीकसमन्वितः ॥४९॥
शिखामाबद्ध्य दिग्बंधं कृत्वा रेभे ततो विधिम् ॥
मध्ये वै मंडलस्यापि कुंडे शुभ्रे त्रिमेखलं ॥५०॥
समर्प्य च ततः खड्गं खादिरं मंत्रतेजितम् ॥
संस्थाप्य कीलानभितो बर्बरीकमथाब्रवीत् ॥५१॥
शुचिर्विनिद्रः संतिष्ठ स्तवं देव्याः समुद्गिरन् ॥
यावत्कर्म करोम्येष यथा विघ्नं न जायते ॥५२॥
इत्युक्ते संस्थिते तत्र बर्बरीके महाबले ॥
विजयः शोषणं दाहं प्लावनं कृतवान्यमी ॥५३॥
ततः सुखासनो भूत्वा गुंगुरुभ्यो नमः इति ॥
मंत्रमष्टोत्तरशतं जप्त्वा गुरुभ्यः प्रणम्य च ॥
ततो गणेश्वरविधानमारब्धवान् ॥५४॥
अथातः संप्रवक्ष्यामि मंत्रं गणपतेः परम् ॥५५॥
सर्वकार्यकरं स्वल्पं महार्थं सर्वसिद्धिदम् ॥५६॥
ॐगांगींगूंगैंगौंगः सप्ताक्षरोऽयं महामंत्रः ॥
ॐगणपतिमंत्रस्य गणको नाम ऋषिः विघ्नेश्वरो देवता गं बीजम् ॐशक्तिः पूजार्थे जपार्थे वा तिलकार्थे वा मनस ईप्सितार्थे होमार्थे वा विनियोग इति ॥
साध कस्य पूर्वं तिलककरणम् ॥
ॐगांगणपतये नमः ॥
इति तिलकस्योपरि अक्षतान्दद्यात् अनेन मन्त्रेण ॥
ॐ गांगणपतये नमः ॥
इति तिलकमंत्रः ॥
ॐगां गणपतये नमः ॥
अनेन मंत्रेण गणेशाय पुष्पांजलित्रयं दद्यात् ॥
मूलमंत्रेणात्र चंदनगंधपुष्पधूपदीपनैवेद्यपूगीफल तांबूलादिकं दद्यात् ॥
अत ऊर्ध्वं मूलमन्त्रेण जपं कुर्यात् ॥
अष्टोत्तरशतं सहस्रं लक्षं कोटिं चेति यथाशक्ति जप्त्वा दशांशहोमार्थे गणेशाग्नये आवाहयामीति अग्निमावाह्य ॥
ॐ गां गणपतये स्वाहेति मन्त्रेण गुग्गुलगुटिकाभिर्होमं विदध्याद्विनियोगं चेति गाणेश्वरो ता?कल्पः ॥
य एवं सर्व विघ्नेषु साधयेन्मन्त्रमुत्तमम् ॥
सर्वविघ्नानि नश्यंति मनोभीष्टं च सिध्यति ॥५७॥
डाकिन्यो यातुधानाश्च प्रेताद्याश्च भयंकराः ॥
शत्रूणां जायते नाशो वशीकरणमेव च ॥५८॥
इमं गाणेश्वरं कल्पं विजानन्विजयोऽपि च ॥
तिलकं विधिना कृत्वा जप्त्वा चाष्टोत्तरं शतम् ॥५९॥
दशांशं गुटिका हुत्वा पूज्य सिद्धिविनायकम् ॥
सिद्धेयक्षेत्रपालस्य चक्रे पूजां ततो निशि ॥६०॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां प्रथमे माहेश्वरखण्डे कौमारिकाखण्डे महाविद्यासाधने गाणेश्वरकल्पवर्णनंनामैकषष्टितमोऽध्यायः ॥६१॥

N/A

References : N/A
Last Updated : July 23, 2024

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP