संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|माहेश्वरखण्ड|कौमारिकाखण्डः|
अध्यायः ६४

कौमारिकाखण्डः - अध्यायः ६४

भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.


एवं तत्र स्थिते तीरे देव्याराधनतत्परे ॥
सप्तलिंगार्चनरते भीमनन्दननन्दने ॥१॥
ततः कालेन केनापि पांडवा द्यूतनिर्जिताः ॥
तत्राजग्मुश्च क्रमतस्तीर्थस्नानकृते भुवम् ॥२॥
प्रागेव चंडिकां देवीं क्षेत्रादीशानतः स्थिताम् ॥
आसेदुर्मार्गखिन्नास्ते द्रौपदीपंचमास्तदा ॥३॥
तत्रैव चोपविष्टोऽभूत्तदानीं चंडिकागणः ॥
बर्बरीकश्च तान्वीरान्समायातानपश्यत ॥४॥
परं नासौ वेद पाण्डून्पाण्डवास्तं च नो विदुः ॥
आजन्म यस्मान्नैवाभूत्पाण्डूनां चास्य संगमः ॥५॥
ततः प्रविश्य वै तस्मिन्देवीमासाद्य पांडवाः ॥
पिंडकाद्यं तत्र मुक्त्वा तृषा प्रैक्षि जलं तदा ॥६॥
ततो भीमः कुण्डमध्यं जलं पातुं विवेश ह ॥
प्रविशंतं च तं प्राह युधिष्ठिर इदं वचः ॥७॥
उद्धृत्य भीम तोयं त्वं पादौ प्रक्षाल्य भो बहिः ॥
ततः पिबाऽन्यथा दोषो महांस्त्वामुपपत्स्यते ॥८॥
एतद्राज्ञो वचो भीमस्तृषा व्याकुललोचनः ॥
अश्रुत्वैव विवेशासौ कुण्डमध्ये जलेच्छया ॥९॥
स च दृष्ट्वा जलं पातुं तत्रैव कृतनिश्चयः ॥
मुखं हस्तौ च चरणौ क्षालयामास शुद्धये ॥१०॥
यतः पीतं जलं पुंसामप्रक्षाल्य च यद्भवेत् ॥
प्रेताः पिशाचास्तद्रूपं संक्रम्य प्रपिबंति तत् ॥११॥
एवं प्रक्षालयाने च पादौ तत्र वृकोदरे ॥
उपरिस्थस्तदा प्राह सत्यं सुहृदयो वचः ॥१२॥
दुर्मते भोः किमेतत्त्वं कुरुषे पापनिश्चयः ॥
देवीकुण्डे क्षालयसि मुखं पादौ करौ च यत् ॥१३॥
यतो देवी सदानेन जलेन स्नाप्यते मया ॥
दत्र प्रक्षिपंस्तोयं मलपापान्न बिभ्यसि ॥१४॥
मलाक्ततोयं यन्नाम अस्पृश्यं तन्नरैरपि ॥
कुतो देवैश्च तत्पापं स्पृश्यते तत्त्वतो वद ॥१५॥
शीघ्रं च त्वं निःसरास्मात्कुण्डाद्भूत्वा बहिः पिब ॥
यद्येवं पाप मूढोऽसि तीर्थेषु भ्रमसे कुतः ॥१६॥
 ॥ भीम उवाच
किमेतद्भाषसे क्रूर परुषं राक्षसाधम ॥
यतस्तोयानि जंतूनामुपभो गार्थमेव हि ॥१७॥
तीर्थेषु कार्यं स्नानं चेत्युक्तं मुनिवरैरपि ॥
अंगप्रक्षालनं स्नानमुक्तं मां निंदसे कुतः ॥१८॥
यदि न क्रियते पानमंगप्रक्षालनं तथा ॥
तत्किमर्थं पूर्तधर्माः क्रियन्ते धर्मशालिभिः ॥१९॥
 ॥ सुहृदय उवाच
स्नातव्यं तीर्थमुख्येषु सत्यमेतन्न संशयः ॥
चरेषु किं तु संविश्य स्थावरेषु बहिः स्थितः ॥२०॥
स्थावरेष्वपि संविश्य तन्न स्नानं विधीयते ॥
न यत्र देवस्नानार्थं भक्तैः संगृह्यते जलम् ॥२१॥
यच्च हस्तशतादूर्ध्वं सरस्तत्र विधीयते ॥
संवेशेऽपि क्रमश्चायं पादौ प्रक्षाल्य यद्बहिः ॥२२॥
ततः स्नानं प्रकर्तव्यमन्यथा दोष उच्यते ॥
किं न श्रुतस्त्वया प्रोक्तः श्लोकः पद्मभुवा पुरा ॥२३॥
मलं मूत्रं पुरीषं च श्लेष्म निष्ठीनाश्रु च ॥
गंडूषाश्चैव मुञ्चति ये ते ब्रह्महणैः समाः ॥२४॥
तस्मान्निःसर शीघ्रं त्वं यद्येवमजितेन्द्रियः ॥
तत्किमर्थं दुराचार तीर्थेष्वटसि बालिश ॥२५॥
यस्य हस्तौ च पादौ च मनश्चैव सुसंयतम् ॥
निर्विकाराः क्रियाः सर्वाः स हि तीर्थफलं लभेत् ॥२६॥
 ॥ भीम उवाच
अधर्मो वापि धर्मोऽस्तु निर्गंतुं नैव शक्नुयाम् ॥
क्षुधा तृषा मया नित्यं वारितुं नैव शक्यते ॥२७॥
 ॥ सुहृदय उवाच
जीवितार्थे भवान्कस्मात्पापं प्रकुरुते वद ॥
किं न श्रुतस्त्वया श्लोकः शिबिना यः समीरितः ॥२८॥
मुहूर्तमपि जीवेत नरः शुक्लेन कर्मणा ॥
न कल्पमपि जीवेत लोकद्वयविरोधिना ॥२९॥
 ॥ भीम उवाच
काकारवेण ते मह्यं कर्णौ बधिरतां गतौ ॥
पास्याम्येव जलं चात्र कामं विलप शुष्य वा ॥३०॥
 ॥ सुहृदय उवाच
क्षत्रियाणां कुले जातस्त्वहं धर्माभिरक्षिणाम् ॥
तस्मात्ते पातकं कर्तुं न दास्यामि कथंचन ॥३१॥
तद्वराकाथ शीघ्रं त्वमस्मात्कुंडाद्विनिःसर ॥३२॥
इष्टकाशकलैः शीघ्रं चूर्णयिष्येऽन्यथा शिरः ॥
इत्युक्त्वा चेष्टकां गृह्य मुमोच शिरसः प्रति ॥३३॥
भीमश्च वंचयित्वा तामुत्प्लुत्य बहिराव्रजत् ॥
भर्त्सयंतौ ततश्चोभावन्योन्यं भीमविक्रमौ ॥३४॥
युयुधाते प्रलंबाभ्यां बाहुभ्यां युद्धपारगौ ॥
व्यूढोरस्कौ दीर्घभुजौ नियुद्धकुशलावुभौ ॥३५॥
मुष्टिभिः पार्ष्णिघातैश्च जानुभिश्चाभिजघ्नतुः ॥
ततो मुहूर्तात्कौरव्यः पर्यहीयत पांडवः ॥३६॥
हीयमानस्ततो भीम उद्यतोऽभूत्पुनः पुनः ॥
अहीयत ततोऽप्यंग ववृधे बर्बरीककः ॥३७॥
ततो भीमं समुत्पाट्य बर्बरीको बलादिव ॥
निष्पिपेष ततः क्रुद्धस्तदद्भुतमिवाभवत् ॥३८॥
मूर्छितं चैवमादाय विस्फुरन्तं पुनःपुनः ॥
सागराय प्रचलितः क्षेप्तुं तत्र महांभसि ॥३९॥
ददृशुः पांडवा नैतद्देव्या नयनयंत्रिताः ॥४०॥
तथा गृहीते कुरुवीरमुख्ये वीरेण तेनाद्भुतविक्रमेण ॥
आश्चर्यमासीद्दिवि देवतानां देवीभिराकाशतले निरीक्ष्य तम् ॥४१॥
सागरस्य ततस्तीरे बर्बरीकं गतं तदा ॥
निरीक्ष्य भगवान्रुद्रो वियत्स्थः समभाषत ॥४२॥
भोभो राक्षसशार्दूल बर्बरीक महाबल ॥
मुंचैनं भरतश्रेष्ठं भीमं तव पितामहम् ॥४३॥
अयं हि तीर्थयात्रायां विचरन्भ्रातृभिर्युतः ॥
कृष्णया चाप्यदस्तीर्थं स्नातुमेवाभ्युपाययौ ॥४४॥
सम्मानं सर्वथा तस्मादर्हः कौरवनंदनः ॥
अपापो वा सपापो वा पूज्य एव पितामहः ॥४५॥
 ॥ सूत उवाच
इति रुद्रवचः श्रुत्वा सहसा तं विमुच्य सः ॥
न्यपतत्पादयोर्हा धिक्कष्टं कष्टं च प्राह सः ॥४६॥
क्षम्यतां क्षम्यतां चेति पुनः पुनरवोचत ॥
शिरश्च ताडयन्स्वीयं रुरोद च मुहुर्मुहुः ॥४७॥
तं तथा परिशोचंतं मुह्यमानं मुहुर्मुहुः ॥
भीमसेनः समालिंग्य आघ्राय च वचोऽब्रवीत् ॥४८॥
वयं त्वां नैव जानीमस्त्वं चास्माञ्जन्मकालतः ॥
अत्र वासश्च ते पुत्र भैमेः कृष्णाच्च संश्रुतः ॥४९॥
परं नो विस्मृतं सर्वं नानादुःखैः प्रमुह्यताम् ॥
दुःखितानां यतः सर्वा स्मृतिर्लुप्ता भवेत्स्फुटम् ॥५०॥
तदस्माकमिदं दुःखं सर्वकालविधानतः ॥
मा शोचस्त्वं च तनय न ते दोषोऽस्ति चाण्वपि ॥५१॥
यतः सर्वः क्षत्रियस्य दंड्यो विपथिसंस्थि तः ॥
आत्मापिदंड्यः साधूनां प्रवृत्तः कुपथाद्यदि ॥५२॥
पितृमातृसुहृद्भ्रातृपुत्रादीनां किमुच्यते ॥
अतीव मम हर्षोऽयं धन्योहं पूर्वजाश्च मे ॥५३॥
यस्य त्वीदृशकः पौत्रो धर्मज्ञो धर्मपालकः ॥
वरार्हस्त्वं प्रशंसार्हो भवान्येषां सतां तथा ॥५४॥
तस्माच्छोकं विहायेमं स्वस्थो भवि तुमर्हसि ॥५५॥
बर्बरीक उवाच
पापं मां ताततात त्वं ब्रह्मघ्नादपि कुत्सितम् ॥
अप्रशस्यं नार्हसीह द्रष्टुं स्प्रष्टुमपि प्रभो ॥५६॥
सर्वेषामेव पापानां निष्कृतिः प्रोच्यते बुधैः ॥
पित्रोरभक्तस्य पुनर्निष्कृतिर्नैव विद्यते ॥५७॥
तद्येन देहेन मया ताततातोऽभिपीडितः ॥
तत्त्वमेव समुत्स्रक्ष्ये महीसागरसंगमे ॥५८॥
मैवं भवेयमन्येषु अपि जन्मसु पातकी ॥
न मामस्मादभिप्रायादर्हः कोऽपि निवर्तितुम् ॥५९॥
यतोंऽशेन विलुप्येत प्रायश्चित्तान्निवारकः ॥
एवमुक्त्वा समुत्प्लुत्य ययौ चैवार्णवं बली ॥६०॥
समुद्रोऽपि चकंपे च कथमेनं निहन्म्यहम् ॥
ततः सिद्धांबिकायाश्च देव्यस्तत्र चतुर्दश ॥६१॥
समालिंग्य च संस्थाप्य रुद्रेण सहिता जगुः ॥
अज्ञातविहिते पापे नास्ति वीरेंद्र कल्मषम् ॥६२॥
शास्त्रेषूक्तमिदं वाक्यं नान्यथा कर्तुमर्हसि ॥
अमुं च पृष्ठलग्नं त्वं पश्य भोः स्वं पितामहम् ॥६३॥
पुत्रपुत्रेति भाषंतमनु त्वा मरणोन्मुखम् ॥
अधुना चेत्स्वकं देहं वीर त्वं परित्यक्ष्यसि ॥६४॥
ततस्त्यक्ष्यति भीमोऽपि पातकं तन्महत्तव ॥
एवं ज्ञात्वा धारय त्वं स्वशरीरं महामते ॥६५॥
अथ चेत्त्यक्तुकामस्त्वं तत्रापि वचनं शृणु ॥
स्वल्पेनैव च कालेन कृष्णाद्देवकिनंदनात् ॥६६॥
देहपातस्तव प्रोक्तस्तं प्रतीक्ष यदीच्छ सि ॥
यतो विष्णुकराद्वत्स देहपातो विशिष्यते ॥६७॥
तस्मात्प्रतीक्ष तं कालमस्माकं प्रार्थितेन च ॥
एवमुक्तो निववृते बर्बरीकोऽपि दुर्मनाः ॥६८॥
रुद्रं देवीश्च चामुंडां सोपालंभं वचोऽब्रवीत् ॥
त्वमेव देवि जानासि रक्ष्यते शार्ङ्गधन्विना ॥६९॥
पांडवा भूमिलाभार्थे तत्ते कस्मादुपेक्षितम् ॥
त्वया च समुपागत्य रक्षितोऽयं वृकोदरः ॥७०॥
 ॥ देव्युवाच
अहं च रक्षयिष्यामि स्वभक्तं कृष्णमृत्युतः ॥
यस्माच्च चंडिकाकृत्ये कृतोऽनेन महारणः ॥
तस्माच्चंडिलनाम्नायं विश्वपूज्यो भविष्यति ॥७१॥
एवमुक्त्वा गताः सर्वे देवा देव्यस्त्वदृश्यताम् ॥
भीमोऽपि तं समादाय पांडुभ्यः सर्वमूचिवान् ॥७२॥
विस्मिताः पांडवास्तं च पूजयित्वा पुनः पुनः ॥
यथोक्तविधिना चक्रुस्तीर्थस्नानमतंद्रिताः ॥७३॥
भीमोपि यत्र रुद्रेण मोक्षितस्तत्र सुप्रभम् ॥
लिंगं संस्थापयामास भीमेश्वरमिति श्रुतम् ॥७४॥
ज्येष्ठमासे कृष्णपक्षे चतुर्दश्यामुपोषितः ॥
रात्रौ संपूज्य भीमेशं जन्मपापाद्विमुच्यते ॥७५॥
यथैव लिंगानि सुपूजितानि सप्तात्र मुख्यानि महाफलानि ॥
भीमेश्वरं लिंगमिदं तथैव समस्तपापापहरं सुपूज्यम् ॥७६
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां प्रथमे माहेश्वरखण्डे कौमारिकाखण्डे भीमेश्वरमाहात्म्यवर्णनंनाम चतुःषष्टितमोऽध्यायः ॥६४॥

N/A

References : N/A
Last Updated : July 23, 2024

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP