कौमारिकाखण्डः - अध्यायः ६३
भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.
॥ सूत उवाच
अश्वत्थलाक्षावह्नौ च सर्षपान्केसरप्लुतान् ॥
जुह्वतो मंत्रमुख्यैश्च बलातिबलसंज्ञकैः ॥१॥
यामे तु प्रथमे याते काचिन्नारी समाययौ ॥
शोणिताक्तैकवसना महोच्चोर्ध्वशिरोरुहा ॥२॥
दारुणाक्षी शुक्लदन्ती भयस्यापि भयंकरी ॥
सा रुरोद महारावं प्राप्य तां होमभूमिकाम् ॥३॥
तां दृष्ट्वा चुक्षुभे सद्यो विजयो भीतिमानिव ॥
बर्बरीकश्च निर्भीतिस्तस्याः संमुखमाययौ ॥४॥
ततः कण्ठं समाश्लिष्य तस्या मतिमतां वरः ॥
रुरोद द्विगुणं वीरो मेघवन्नादयन्बहु ॥५॥
तं दृष्ट्वा विस्मिता सा च यावन्मुंचति कर्तिकाम् ॥
तावन्निष्पीडिते कंठे मोक्तुं तस्मिन्न चाशकत् ॥६॥
पीड्यमाने च बलिना कंठे तस्या मुहुर्मुहुः ॥
मुमुोच विविधाञ्छब्दान्वज्राहत इवाचलः ॥७॥
क्षणं रावांस्ततो मुक्त्वा त्राहि मुञ्चेति वक्त्यणु ॥
ततः कृपालुना मुक्ता पादयोः पतिताऽब्रवीत् ॥८॥
शरणं ते प्रपन्नास्मि दासी कर्मकरी तव ॥
महाजिह्वेति मां विद्धि राक्षसीं कामरूपिणीम् ॥९॥
काशीश्मशाननिलयां देवदानवदर्पहाम् ॥
ददासि यदि मे वीर दुर्लभां प्राणदक्षिणाम् ॥१०॥
ततस्तपश्चरिष्यामि सर्वभूताभयप्रदा ॥
अस्मिन्नर्थे स्वदेवस्य शपथा मे तथात्मनः ॥११॥
यद्येतद्व्यत्ययं कुर्यां भस्मीभूयां ततः क्षणम् ॥
एवं ब्रुवाणां तां वीरो निगृह्य शपथैर्दृढम् ॥१२॥
मुमोच सापि संहृष्टा कृच्छ्रा- न्मुक्ता ययौ वनम् ॥
सोऽपि वीरः खङ्गधारी तत्रैवावस्थितोऽभवत् ॥१३॥
ततो मध्यमरात्रौ च गर्जितं श्रूयते महत् ॥
अन्धकारं च संजज्ञे तमोंऽधनरकप्रभम् ॥१४॥
ददृशे च ततः शैलः शतशृंगोऽतिविस्तरः ॥
नानाशिलाः प्रमुमुचे नानावृक्षांश्च सोच्छ्रयान् ॥१५॥
नानानिर्झर संघोषं ववृषे शोणितं वहु ॥
तं तथा नगमालोक्य निर्भीतो भैमिनंदनः ॥१६॥
पर्वतो द्विगुणो भूत्वा पर्वतं सहसाप्लुतः ॥
तदाभिजघ्ने संहृत्य पर्वतं स्वेन भूभृता ॥१७॥
तदा विशीर्णः सोऽभूच्च पर्वतो भूमिमंडले ॥
ततो योजनदेहात्मा शतशीर्षः शतोदरः ॥१८॥
वक्त्रैर्मुंचन्महाज्वालां रेपलेन्द्रोऽभ्यधावत ॥
तं धावमानं दृष्ट्वैव बर्बरीको महाबलः ॥१९॥
विधाय तादृशं रूपं नर्दन्तं चाप्यधावत ॥
ततो मध्यमरात्रौ ती लघु चित्रं च सुष्ठु च ॥२०॥
युयुधाते बाणजालैर्यथा प्रावृषि तोयदौ ॥
छिन्नचापौ च खङ्गाभ्यां छिन्नखड्गौ च मुष्टिभिः ॥२१॥
पर्वताविव सत्पक्षौ चिरं युयुधतुः स्थिरम् ॥
ततः कक्षे समुत्पाट्य भ्रामयित्वा मुहूर्तकम् ॥२२॥
भूमौ प्रधर्षयामास प्रसृतं च मुमोच ह ॥
चिक्षेप चाग्निकोणे तं महीसागररोधसि ॥२३॥
तद्दूरे रेपलेन्द्राख्यं ग्राममद्यापि वर्तते ॥
एवं स रेपलोनाम वृत्रतुल्यपराक्रमः ॥२४॥
नाथः श्मशानस्यावन्त्या विघ्नकृन्निहतोऽभवत् ॥
तं निहत्य पुनर्वीरो बर्बरीकः स्थितोऽभवत् ॥२५॥
ततस्तृतीययामे च प्रतीच्या दिश आययौ ॥
पर्वताभा महानादा पादैः कम्पयतीव भूः ॥२६॥
दुहद्रुहाख्याश्वतरी मेघभ्रष्टा तडिद्यथा ॥
तामायांतीं तथा दृष्ट्वा सूर्यवैश्वानरप्रभाम् ॥२७॥
उपसृत्य जवाद्भैमी रुरोह प्रहसन्निव ॥
वेगात्ततः प्रद्रवतीं तुण्डे प्राहत्य मुष्टिभिः ॥२८॥
स्थापयामास तत्रैव तस्थौ सा चातिपीडिता ॥
ततः क्रुद्धा महारावं कृत्वाप्लुत्य दुहद्रुहा ॥२९॥
जगत्यामाशु चिक्षेप बर्बरीकं तथेच्छकम् ॥
ततो नदित्वा चातीव पादघातममुंचत ॥३०॥
पादौ च वीरः संगृह्य चिक्षेप भुवि लीलया ॥
ततः पुनः समुत्थाय धावंतीं तां निगृह्य सः ॥३१॥
मुष्टिना पातयित्वैव दंतान्कंठमपीडयत् ॥
क्लिन्नं वास इवापीड्य प्राणानत्याजयद्द्रुतम् ॥३२॥
एवं सीकोत्तरस्थाने स्मशानैकपदो द्भवा ॥
शाकिनीनामधीशा सा बर्बरीकेण सूदिता ॥३३॥
हत्वा तां चापि चिक्षेप प्रतीच्यामेव लीलया ॥
दुहद्रुहाख्यमद्यापि तत्र ग्रामं स्म वर्तते ॥३४॥
ततस्तथैव संतस्थौ बर्बरीकोऽभिरक्षणे ॥
ततश्चतुर्थे यामे च प्राप्तः क्षपणकोऽद्भुतः ॥३५॥
मुंडी नग्नो मयूराणां पिच्छधारी महाव्रतः ॥
प्रोवाच चेदं वचनं हाहा कष्टमतीव भोः ॥३६॥
अहिंसा परमो धर्मस्तदग्निर्ज्वाल्यते कुतः ॥
हूयमाने यतो वह्नौ सूक्ष्मजीववधो महान् ॥३७॥
श्रुत्वेदं वचनं तस्य बर्बरीकोऽब्रवीत्स्मयन् ॥
वदने सर्वदेवानां हूयमाने स्म पावके ॥३८॥
अनृतं भाषसे पाप शिक्षायोग्योऽसि दुर्मते ॥
इत्युक्त्वा सहसोत्पत्य कक्षामध्ये स्थिरोऽस्य च ॥३९॥
दन्तान्मुष्टिप्रहारैश्च समाहत्याभ्यपातयत् ॥
रुधिराविलवक्त्रं तं मुमोच पतितं भुवि ॥४०॥
स क्षणाच्चेतनां प्राप्य घोरदैत्यवपुर्धरः ॥
भयाद्भैमेः प्रदुद्राव गुहाविवरमाविशत् ॥४१॥ ०॥
बहुप्रभेति नगरी षष्टियोजनमायता ॥
तस्यां विवेश सहसा तं चानु बर्बरीककः ॥४२॥
बर्बरीकं ततो दृष्ट्वा नादोऽभूच्च पलाशिनाम् ॥
धावध्वं हन्यतामेष छिद्यतां भिद्यतामिति ॥४३॥
तच्छ्रुत्वा दैत्यवीराणां कोटयो नव भीषणाः ॥
नानायुधधरा वीरं बर्बरीकमुपाद्रवन् ॥४४॥
दृष्ट्वा तान्कोटिशो दैत्यान्क्रुद्धो भीमात्मजात्मजः ॥
निमील्य सहसा नेत्रे तेषां मध्यमधावत ॥४५॥
पादघातैस्ततः कांश्चिद्भुजाघातैस्तथापरान् ॥
हृदयस्याभिघातैश्च क्षणान्निन्ये यमक्षयम् ॥४६॥
यथा नलवनं क्र्रुद्धः कुर्याद्भूमिसमं करी ॥
नवकोटीस्तथा जघ्ने सह तेन पलाशिना ॥४७॥
ततो नागाः समागम्य वासुकिप्रमुखास्तदा ॥
तुष्टुबुर्विविधैर्वाक्यैरूचुः सुहृदयं च ते ॥४८॥
नागानां परमं कृत्यं कृतं ते भैमिनंदन ॥
पलाशीनाम दैत्योयं नीतो यत्सानुगो यमम् ॥४९॥
अनेन हि वयं वीर सानुगेन दुरात्मना ॥
पीडिता विविधोपायैः पातालादप्यधः कृताः ॥५०॥
वरं वृणीष्व त्वं तस्मान्नागेभ्योऽभिमतं परम् ॥
वरदाः सर्व एव स्म वयं तुभ्यं सुतोषिताः ॥५१॥
॥ सुहृदय उवाच
यदि देयो वरो मह्यं तदेनं प्रवृणोम्यहम् ॥
सर्वविघ्नविनिर्मुक्तो विजयः सिद्धिमाप्नुयात् ॥५२॥
ततस्तथेति तं प्रोचुः प्रहृष्टा वायुभोजनाः ॥
स च तेभ्यः पुरीं दत्त्वा निवृत्तो नागपूजितः ॥५३॥
विवरस्य च मध्येन समागच्छन्महाप्रभम् ॥
सर्वरत्नमयं लिंगं स्थितं कल्पतरोरधः ॥५४॥
अर्च्यमानं सुवह्नीभिर्नागकन्याभिरैक्षत ॥
ततोऽसौ विस्मयाविष्टो नागकन्या ह्यपृच्छत ॥५५॥
केनेदं स्थापितं लिंगं सूर्यवैश्वानरप्रभम् ॥
लिंगादपि चतुर्दिक्षु मार्गाश्चेमे तु कीदृशाः ॥५६॥
इति वीरवचः श्रुत्वा बृहत्कटिपयोधरा ॥
सव्रीडं सस्मितापांगनिर्मोक्षमिदमब्रवीत् ॥५७॥
सर्वपन्नगराजेन शेषेण सुमहात्मना ॥
तप स्तप्त्वा महालिंगमिदमत्र प्रतिष्ठितम् ॥५८॥
दर्शनात्स्पर्शनाद्ध्यानादर्चनात्सर्वसिद्धिदम् ॥
लिंगात्पूर्वेण मार्गोयं याति श्रीपर्वतं भुवि ॥५९॥
एलापत्रेण विहितो नागानां तत्र प्राप्तये ॥
दक्षिणेन च मार्गोऽयं याति शूर्पारकं भुवि ॥६०॥
कर्कोटकेन नागेन कृतोऽयं तत्र प्राप्तये ॥
पश्चिमेन च मार्गोऽयं प्रभासं याति सुप्रभम् ॥६१॥
ऐरावतेन विहितो नागानां गमनाय च ॥
उत्तरेण च मार्गोयं येन यातुं भवान्स्थितः ॥६२॥
गुप्तक्षेत्रे सिद्धलिंगं याति शक्तिगुहाऽऽकृतः ॥
विहितस्तक्षकेणासौ यातुं तत्र महात्मना ॥६३॥
इतीदं वर्णितं वीर विज्ञप्तिः श्रूयतां मम ॥
को भवानधुनैवेतो दैत्यपृष्ठ गतोऽभवत् ॥
अधुनैव तथैकाकी समायातोऽत्र नो वद ॥६४॥
वयं च सर्वास्ते दास्यस्त्वां पतिं प्रवृणीमहे ॥
अस्माभिः सहितः क्रीड विविधास्वत्र भूमिषु ॥६५॥
॥ बर्बरीक उवाच
अहं कुरुकुलोत्पन्नः पांडुपुत्रस्य पौत्रकः ॥
बर्बरीक इति ख्यातस्तं दैत्यं हंतुमागतः ॥६६॥
स च दैत्यो हतः पापः पुनर्यास्ये महीतलम् ॥
भवतीभिश्च मे नास्ति कृत्यं भोभोः कथंचन ॥६७॥
ब्रह्मचारिव्रतं यस्मादहं सततमास्थितः ॥
इत्युक्त्वाभ्यर्च्य तल्लिंगं प्रणिपत्य च दण्डवत् ॥६८॥
ऊर्ध्वमाचक्रमे वीरः कातरं ताभिरीक्षितः ॥
ततो बहिः समागत्य सप्रकाशं मुखं तदा ॥६९॥
प्रहर्षेणैव पूर्वस्या विजयं ददृशे दिशः ॥
तस्मिन्काले च विजयः कर्म सर्वं समाप्तवान् ॥७०॥
कांत्या सूर्यसमाभास ऊर्ध्वमाचक्रमे क्षणात् ॥
ततो वियद्गतं देवैः पुष्पवर्षमभून्महत् ॥७१॥
जगुर्गंधर्वमुख्याश्च ननृतुश्चाप्सरोगणाः ॥
विजयो बर्बरीकं च ततो वचनमब्रवीत् ॥७२॥
तव प्रसादाद्वीरेश सिद्धिः प्राप्ता मयातुला ॥
चिरं जीव चिरं नंद चिरं वस चिरं जय ॥७३॥
अत एव हि साधृनां संगमिच्छंति साधवः ॥
औषधं सर्वदोषाणां भवेत्सत्यं गमो यतः ॥७४॥
त्वं च होमस्थितं भस्म सिंदूरसदृशप्रभम् ॥
निःशल्यं सविवरकं पूर्यमाणं गृहाण च ॥७५॥
अक्षय्यमेतत्संग्रामे प्रथमं ते प्रमुंचतः ॥
शत्रूणां स्थानकं मृत्योर्देहं ध्वस्तं करिष्यति ॥७६॥
एवं सुखेन विजयः शत्रूणां ते भविष्यति ॥७७॥
॥ बर्बरीक उवाच
उपकुर्यान्निराकांक्षो यः स साधुरितीर्यते ॥
साकांक्षमुपकुर्याद्यः साधुत्वे तस्य को गुणः ॥७८॥
तद्देहि भस्म चान्यस्मै केनाप्यर्थो न मेऽण्वपि ॥
प्रसादसुमुखां दृष्टिं विना नान्यद्वृणोमि ते ॥७९॥
॥ देवा ऊचुः
कुरूणां पांडवानां च भविष्यति महान्रणः ॥
ततो भूमिस्थितं भस्म प्राप्स्यंति यदि कौरवाः ॥८०॥
महाननर्थो भविता पांडवानां ततः स्फुटम् ॥
तस्माद्गृहाण त्वं भस्म सोपि चक्रे तथो वचः ॥८१॥
देवीभिः सहिता देवाः संमान्य विजयं च ते ॥
सिद्धैश्वर्यं ददुस्तस्मै सिद्धसेनेति नाम च ॥८२॥
एवं स विजयो विप्रः सिद्धिं लेभे सुदुर्लभाम् ॥
बर्बरीकश्च कृत्वैतद्देवीभक्तिरतोऽवसत् ॥८३
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां प्रथमे माहेश्वरखण्डे कौमारिकाखंडे कार्यसिद्धिवर्णनंनाम त्रिषष्टितमोऽध्यायः ॥६३॥
N/A
References : N/A
Last Updated : July 23, 2024
TOP