संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|माहेश्वरखण्ड|कौमारिकाखण्डः|
अध्यायः ४३

कौमारिकाखण्डः - अध्यायः ४३

भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.


 ॥श्रीनारद उवाच ॥
ततोऽहं पार्थ भूयोऽपि जनानुग्रहकाम्यया ॥
प्रत्यक्षदेवं मार्तंडमत्रानेतुमियेष ह ॥१॥

सर्वेषां प्राणिनां यस्मादुडुपो भगवान्रविः ॥
इहामुत्र च कौंतेय विश्वद्धारी रविर्मतः ॥२॥

ये स्मरंति रविं भक्त्या कीर्तयंति च ये नराः ॥
पूजयंति च ये नित्यं कृतार्थास्ते न संशयः ॥३॥

सूर्यभक्तिपरा ये च नित्यं तद्गतमानसाः ॥
ये स्मरंति सदा सूर्यं न ते दुःखस्य भाजिनः ॥४॥

भवनानि मनोज्ञानि विविधाभरणाः स्त्रियः ॥
धनं चादृष्टपर्यंतं सूर्यपूजाविधेः फलम् ॥५॥

दुर्लभा भक्तिः सूर्ये वा दुर्लभं तस्य चार्चनम् ॥
दानं च दुर्लभं तस्मै ततो होमश्च दुर्लभः ॥६॥

नमस्कारादिसंयुक्तं रविरित्यक्षरद्वयम् ॥
जिह्वाग्रे वर्तते यस्य सफलं तस्य जीवितम् ॥७॥

इत्यहं हृदि संचिंत्य माहात्म्यं रविजं महत् ॥
पूर्णं वर्षशतं पार्थ रविं भक्त्या ह्यतोषयम् ॥८॥

जपेन सुविशुद्धेन च्छन्दसां वायुभोजनः ॥
ततः खाद्द्वितीयां मूर्तिं कृत्वा योगबलाद्विभुः ॥९॥

तेजसा दुर्दृशो भास्वान्प्रत्यक्षः समजायत ॥१०॥

तमहं प्रांजलिर्भूत्वा नमस्कृत्य रविं प्रभुम् ॥
सामभिर्विविधैर्देवं पर्यतोषयमीश्वरम् ॥११॥

तुष्टो मामाह वरदो देवर्षे सुचिरं त्वया ॥
तपसाराधितोऽस्मीति वरं वृणु यथेप्सितम् ॥१२॥

इत्युक्तोऽहं लोकनाथं प्रांजलिः प्रास्तुवं वचः ॥
यदि तुष्टो भवान्मह्यं यदि देयो वरो मम ॥१३॥

ततस्ते कामरूपे या कला नाथ प्रवर्तते ॥
राजवर्धनराज्ञा याऽऽराधिता च जनैः पुरा ॥१४॥

तया च कलया भानो सदात्र स्थातुमर्हसि ॥
ततस्तथेति देवेन प्रोक्ते तुष्टेन भारत ॥१५॥

अस्थापयमहं सूर्यं भट्टादित्याभिधानकम् ॥
भट्टेनस्थापितं यस्मान्मया तस्माद्रविर्जगौ ॥१६॥

ततः संपूज्य तं पुष्पैः कृतावेशमहं रविम् ॥
भक्त्युद्रेकाप्लुतांगोऽथ स्तुतिमेतामथाचरम् ॥१७॥

सर्ववेदरहस्यैश्च नामभिश्च शताष्टभिः ॥
सप्तसप्तिरचिंत्यात्मा महाकारुणिकोत्तमः ॥१८॥

संजीवनो जयो जीवो जीवनाथो जगत्पतिः ॥
कालाश्रयः कालकर्ता महायोगी महामतिः ॥१९॥

भूतांतकरणो देवः कमलानन्दनन्दनः ॥
सहस्रपाच्च वरदो दिव्यकुण्डलमण्डितः ॥२०॥

धर्मप्रियोचितात्मा च सविता वायुवाहनः ॥
आदित्योऽक्रोधनः सूर्यो रश्मिमाली विभावसुः ॥२१॥

दिनकृद्दिनहृन्मौनी सुरथो रथिनांवरः ॥
राज्ञीपतिः स्वर्णरेताः पूषा त्वष्टा दिवाकरः ॥२२॥

आकाशतिलको धाता संविभागी मनोहरः ॥
प्रज्ञः प्रजापतिर्धन्यो विष्णुः श्रीशो भिषग्वरः ॥२३॥

आलोककृल्लोकनाथो लोकपालनमस्कृतः ॥
विदिताशयश्च सुनयो महात्मा भक्तवत्सलः ॥२४॥

कीर्तिकीर्तिकरो नित्यो रोचिष्णुः कल्मषापहः ॥
जितानन्दो महावीर्यो हंसः संहारकारकः ॥२५॥

कृतकृत्यः सुसंगश्च बहुज्ञो वचसां पतिः ॥
विश्वपूज्यो मृत्युहारि घृणी धर्मस्य कारणम् ॥२६॥

प्रणतार्तिहरोऽरोग आयुष्यमान्सुखदः सुखी ॥
मङ्गलं पुण्डरीकाक्षो व्रती व्रतफलप्रदः ॥२७॥

शुचिः पूर्णो मोक्षमार्गदाता भोक्ता महेश्वरः ॥
धन्वंतरिः प्रियाभाषी धनुर्वेदविदेकराट ॥२८॥

जगत्पिता धूमकेतुर्विधूतो ध्वांतहा गुरुः ॥
गोपतिश्च कृतातिथ्यः शुभाचारः शुचिप्रियः ॥२९॥

सामप्रियो लोकबन्धुर्नैकरूपो युगादिकृत् ॥
धर्मसेतुर्लोकसाक्षी खेटतऋ सर्वदः प्रभुः ॥३०॥

मयैवं संस्तुतो भानुर्नाम्नामष्टशतेन च ॥
तुष्यतां सर्वलोकानां सर्वलोकप्रियो विभुः ॥३१॥

इत्येवं संस्तवात्प्रीतो भास्करो मामवोचत ॥
सदात्र कलया स्थास्ये देवर्षे त्वत्प्रियेप्सया ॥३२॥

यो मामत्र महाभक्त्या भट्टादित्यं प्रपूजयेत् ॥
सहस्रशः का मरूपे संपूज्याप्नोति तत्फलम् ॥३३॥

मामुद्दिश्य च यो विप्रः स्वल्पं वा यदि वा बहु ॥
दास्यतेऽत्राक्षयं तच्च ग्रहीष्ये करजं यथा ॥३४॥

रक्तोत्पलैश्च कह्लारैः केसरैः करवीरकैः ॥
शतत्रयैर्महाप्दमै रविवारेण मानवः ॥३५॥

सप्तम्यामथ षष्ठ्यां वा येऽर्चयिष्यंति मामिह ॥
यान्यान्प्रार्थयते कामांस्तांतान्प्राप्स्यति निश्चितम् ॥३६॥

दर्शनान्मम भक्त्या च नाशो व्याधिदरिद्रयोः ॥
प्रणामात्स्वर्गमाप्नोति श्रुत्वा मोक्षं च नित्यशः ॥३७॥

अभक्तिं यश्च कर्ता मे स गच्छेन्निश्चिंतं क्षयम् ॥
अष्टोत्तरशतं नाम ममाग्रे यत्त्वयेरितम् ॥३८॥

त्रिकालमेककालं वा पठतः श्रृणुयत्फलम् ॥
कीर्तिमान्सुभगो विद्वान्सुसुखी प्रियदर्शनः ॥३९॥

भवेद्वर्षशतायुश्च सर्वरोगविवर्जितः ॥
यस्त्विदं श्रृणुयान्नित्यं पठेद्वा प्रयतः शुचिः ॥४०॥

अक्षयं स्वल्पमप्यन्नं भवेत्तस्योपसाधितम् ॥
विजयी च भवेन्नित्यं तथा जातिस्मरो भवेत् ॥४१॥

तस्मादेतत्त्वया जाप्यं परं स्वस्त्ययनं महत् ॥
तथा ममाग्रे कुंडं च कुरु स्नानार्थमुत्तमम् ॥४२॥

कामरूपकला यत्र तत्र कुंडं वने भवेत् ॥
एवं दत्त्वा वरान्भानुस्तत्रैवां तरधीयत ॥४३॥

ततो भास्करवाक्येन सिद्धेशस्य च सव्यतः ॥
वनमध्ये मया कुंडं कृतं दर्भशलाकया ॥४४॥

कामरूपभवं कुंडं वृक्षास्ते चापि भारत ॥
संलीनास्तन्महाश्चर्यं ममाजायत चेतसि ॥४५॥

माघमासस्य शुक्लायां सप्तम्यां स्त्री नरोऽपि वा ॥
स्नानं कुंडे शुभं कृत्वा भट्टादित्यं प्रपश्यति ॥४६॥

तस्यानंतं भवेत्पुण्यं रथं यश्च प्रपूजयेत् ॥
रथयात्रां च कुरुते यस्मिन्यस्मिन्नसौ पथि ॥४७॥

ये च पश्यंति लोकास्ते धन्याः सर्वे न संशयः ॥
पुत्रधान्यधनैर्युक्ता नीरुजस्तेजसाऽन्विताः ॥४८॥

भविष्यंति नरास्ते ये कारयंति रथोत्सवम् ॥
गंगादिसर्वतीर्थेषु यत्फलं कीर्तितं बुधैः ॥४९॥

भट्टादित्यस्य कुंडे च तत्फलं सप्तमीदिने ॥
तत्र कुंडे च यः स्नात्वा सूर्यार्घ्यं प्रयच्छति ॥
कपिला गोशतस्यासौ दत्तस्य फलमश्नुते ॥५०॥

 ॥अर्जुर उवाच ॥
वासुदेवादयः सर्वे वदंत्येवं महामुने ॥५१॥

भास्करार्घं विना पातः कृतं सर्वं च निष्फलम् ॥
तस्याहं श्रोतुमिच्छामि विधिं विधिविदां वर ॥५२॥

॥ नारद उवाच ॥
यथा ब्रह्मादयो देवा यच्छंत्यर्घं महात्मने ॥
भास्कराय श्रृणु त्वं तं विधिं सर्वाघनाशनम् ॥५३॥

प्रथमं तावत्प्रत्युषे उदिते सूर्ये शुचिर्भूत्वा गोमयकृतमंडलस्योपरि रक्तचंदनेन मंडलकं कृत्वा ततस्ताम्रपात्रे रक्तचंदनोदकश्वेतचंदनादिद्रव्यैः प्रपूरणं कृत्वा तन्मध्ये हेमाक्षतदूर्वादधिसर्पीषि परिक्षिप्य स्थापयेत् ॥५४॥

स्वशरीरमालभेत् अनेन मंत्रेण ॥
ॐखखोल्काय नमः ॥
सप्तवारानुच्चार्य स्थातव्यम् ॥
तेन शुद्धिरुपसंजायते देहस्यार्चार्हता भवति ॥
पश्चादासनस्थं देवं सवितारं मंडलमध्ये द्वादशात्मकं सुरादिभिः संपूज्यमानं ध्यात्वा पूर्वोक्तमर्घपात्रं शिरसि कृत्वा भूमौ जानुनी निपात्य सूर्याभिमुखस्तद्गतमनाभूत्वार्घमंत्रमुदाहरेत् ॥
तदुच्यते सूर्यवक्त्राद्विनिर्गतमिति ॥५५॥

यस्योच्चारणशब्देन रथं संस्थाप्य भास्करः ॥
प्रतिगृह्णाति चैवार्घ्यं वरमिष्टं च यच्छति ॥५६॥

ॐयस्याहुः सप्त च्छंदांसि रथे तिष्ठंति वाजिनः ॥
अरुणः सारथिर्यस्य रथवाहोऽग्रतः स्थितः ॥५७॥

जया च विजया चैव जयंती पापनाशनी ॥
इडा च पिंगला चैव वहंतोऽश्वमुखास्तथा ॥५८॥

डिंडिश्च शेषनागश्च गणाध्यक्षस्तथैव च ॥
स्कंदरेवंततार्क्ष्याश्च तथा कल्माषपक्षिणौ ॥५९॥

राज्ञी च निक्षुभा देवी ललिता चैव संज्ञिका ॥
तथा यज्ञभुजो देवा ये चान्ये परिकीर्तिताः ॥६०॥

एभिः परिवृतो योऽसावधरोत्तरवासिभिः ॥
तमहं लोककर्तारमाह्वयामि तमोपहम् ॥६१॥

अम्मयो भगवान्भानुरमुं यज्ञं प्रवर्तयन् ॥
इदमर्घ्यं च पाद्यं च प्रगृहाण नमोनमः ॥६२॥

 ॥आवाहनम् ॥
सहस्रकिरण वरद जीवनरूप ते नमः ॥
इति सांनिध्यकरणम् ॥

ॐवषट् इत्युच्चार्य सूर्यस्य चरणयुगलं पश्यन् भुवि पद्म्यां पात्रीं निर्वापयेत् पाद्यं तदुच्यते ॥
एवं पाद्यं दत्त्वा बद्धांजलिः सुस्वागतमिति कुर्यात् ॥
स्वागतं भगवन्नेहि मम प्रसादं विधाय आस्यताम् ॥
इह गृहाण पूजां च प्रसादं च धिया कुरु ॥
तिष्ठ त्वं तावदत्रैव यावत्पूजां करोम्यहम् ॥६३॥

एवं विज्ञापनं दद्यादनेन मंत्रेण कमलासनम् ॥
तत्कमलासनं कमलनंदन उपाविशति ॥
आसन उपविष्टस्य शेषां पूजां नियोजयेत् अनेन विधानेन ॥
ॐसोममूर्तिक्षीरोदपतये नमः ॥
इति क्षीरादिस्नपनम् ॥
ॐभास्कराय नीरव सिने नमः ॥
 ॥इति जलस्नानम् ॥

ततो वासोयुगं शुभ्रं दद्यात् अनेन मंत्रेण ॥
इदं वासोयुगं सूर्य गृहाण कृपया मम ॥
कटिभूषणमेकं ते द्वितीयं चांगप्रावरणम् ॥६४॥

ततो यज्ञोपवीतं दद्यात् अनेन मंत्रेण ॥
सूत्रतंतुमयं शुद्धं पवित्रमिदमुत्तमम् ॥
यज्ञोपवीतं देवेश प्रगृहाण नमोऽस्तु ते ॥६५॥

ततो यथाशक्ति श्वेतमुकुटमुद्रिकादिभूषणानि दद्यात् अनेन मंत्रेण ॥
मुकुटो रत्ननद्धोऽयं मुद्रिकां भूषणानि च ॥
अलंकारं गृहणेमं मया भक्त्या समर्पितम् ॥६६॥

एवमलंकारं निवेद्य पश्चात्केशरकुंकुमकर्पूररक्तचंदनमिश्रमनुलेपनं दद्यात् ॥६७॥

ॐतवातिप्रिय वृक्षाणां रसोऽयं तिग्मदीधिते ॥
स तवैवोचितः स्वामिन्गृहाण कृपया मम ॥६८॥

ततश्चंपकजपाकरवीरकर्णककेसरकोकनदादिभिः पूजां कुर्यात् ॥६९॥

ॐवनस्पतिरसो दिव्यो गंधाढ्यो गंध उत्तमः ॥
आहारः सर्वदेवानां धूपोऽयं प्रतिगृह्यताम् ॥७०॥

 ॥शल्लकीधूपमंत्रः ॥
ततः पायसादिनिष्पन्नं नैवेद्यं निवेदयेदनेन मंत्रेण ॥
नैवेद्यममृतं सर्वभूतानां प्राणवर्धनम् ॥
पूर्णपात्रे मया दत्तं प्रतिगृह्ण प्रसीद मे ॥७१॥

ततः शौचोदकतांबूलदीपारार्तिकशीतलिकापुनः पूजादि निवेद्य यथाशक्त्या स्तुत्वा सुकृतं दुष्कृतं वा क्षमस्वेति प्रोच्य विसर्जयेत् ॥
ततो भूयो नमस्य हेमवस्त्रोपवीतालंकारान् ब्राह्मणाय निवेद्य निर्माल्यं संहृत्यांभसि निक्षिपेत् ॥७२॥

 ॥इत्यर्घ्यदानविधिः ॥

य एवं भास्करायार्घ्यं मूर्तौ मंडलकेऽपि वा ॥
नित्यं निवेदयेत्प्रातः स्याद्रवेरात्मवत्प्रियः ॥७३॥

अनेन विधिना कर्णो भास्करार्घ्यं प्रयच्छति ॥
ततः सूर्यस्य पार्थासावात्मवद्वल्लभो मतः ॥७४॥

अशक्तश्चेन्नित्यमेकमर्घ्यं दद्याद्दिवाकृते ॥
ततोऽत्र रथसप्तम्यां कुंडे देयः प्रयत्नतः ॥७५॥

अश्वमेधफलं प्राप्य सूर्यलोक मवाप्नुयात् ॥
तस्मात्सर्वप्रयत्नेन दातव्योऽर्घोऽत्र भारत ॥७६॥

एवंविधस्त्वसौ देवो भट्टादित्योऽत्र तिष्ठति ॥
भूयानतोऽपि बहुशः पापहा धर्मवर्धनः ॥७७॥

दिव्यमष्टविधं चात्र सद्यः प्रत्ययकारकम् ॥
पापानां चोपभुक्तं हि यथा पार्थ हलाहलम् ॥७८॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां प्रथमे माहेश्वरखण्डे कौमारिकाखण्डे सागरसंगमे भट्टादित्यमाहात्म्यवर्णनंनाम त्रिचत्वारिंशोऽध्यायः ॥४३॥

N/A

References : N/A
Last Updated : July 23, 2024

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP