संस्कृत सूची|संस्कृत स्तोत्र साहित्य|पुराण|श्री स्कंद पुराण|माहेश्वरखण्ड|कौमारिकाखण्डः| अध्यायः ४० कौमारिकाखण्डः अध्यायः ०१ अध्यायः ०२ अध्यायः ०३ अध्यायः ०४ अध्यायः ०५ अध्यायः ०६ अध्यायः ०७ अध्यायः ०८ अध्यायः ०९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ विषयानुक्रमणिका कौमारिकाखण्डः - अध्यायः ४० भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे. Tags : puransanskritskand puranपुराणसंस्कृतस्कंद पुराण अध्यायः ४० Translation - भाषांतर ॥अर्जुन उवाच ॥महाकालस्त्वसौ कश्च कथं सिद्धिमुपागतः ॥अस्मिंस्तीर्थे मुनिश्रेष्ठ महदाश्चर्य मत्र मे ॥१॥सर्वमेतत्समाख्याहि श्रद्दधानाय पृच्छते ॥२॥॥ नारद उवाच ॥नमस्कृत्य महाकालं वरदं स्थाणुमव्ययम् ॥शक्तितश्चरितं तस्य वक्ष्ये पांडुकुलोद्वह ॥३॥वाराणस्यां पुरि पुरा बभूव जपतां वरः ॥रुद्रजापी महाभागो मांटिर्नाम महायशाः ॥४॥तस्यापुत्रस्य पुत्रार्थे रुद्रान्संजपतः किल ॥गतं वर्षशतं तुष्टस्ततस्तं प्राह शंकरः ॥५॥मांटे तव सुतो धीमान्मत्प्रभावपराक्रमः ॥वंशस्य तव सर्वस्य समुद्धर्ता भविष्यति ॥६॥इति श्रुत्वा रुद्रवचो मांटिर्हर्षं परं गतः ॥ततः काले कियन्मात्रे पत्नी मांटेर्महात्मनः ॥७॥दधार गर्भं चटिका तपोमूर्तिधरा यथा ॥तस्य गर्भस्य वर्षाणि चत्वारि किल संययुः ॥८॥न पुनर्मातुरुदरंत्यक्त्वा निर्गच्छते बहिः ॥ततो मांटिरुपामंत्र्य सामभिस्तमवोचत ॥९॥वत्स सामान्यपुत्रोऽपि पित्रोः सुखकरः सदा ॥शुद्धायां मातरि भवो मत्तः किं पीडयस्यलम् ॥१०॥वत्स मानुष्यवासस्य स्पृहा तुभ्यं कथं न हि ॥यत्र धर्मार्थकामानां मोक्षस्यापि च संततिः ॥११॥कदा मनुष्या जायेम पूजा यत्र महाफला ॥पितॄणां देवतानां च नानाधर्माश्च यत्र हि ॥१२॥इति भूतानि शोचंति नानायोनिगतान्यपि ॥तत्त्वं मानुष्यमतुलं स्पृहणीयं दिवौकसाम् ॥अनादृत्य कथं ब्रूहि स्थितश्चोदर एव च ॥१३॥ ॥गर्भ उवाच ॥तात जानाम्यहं सर्वमेतत्परम दुर्लभम् ॥किं तु बिभेमि चातिमात्रं कालमार्गस्य नित्यशः ॥१४॥द्वौ मार्गौ किल वेदेषु प्रोक्तौ कालोऽर्चिरेव च ॥अर्चिषा मोक्षमायांति कालमार्गेण कर्मणि ॥१५॥स्वर्गे वा नरके वापि कालमार्गगतो ह्ययम् ॥न शर्म लभते क्वापि व्याधविद्धमृगो यथा ॥१६॥तस्यैव हेतोः प्रयतेत्कोविदो यन्न दुःखवित् ॥कालेन घोररूपेण गंभीरेण समाहितः ॥१७॥तच्चेन्मम मनस्तात नानादोषैर्न मोह्यते ॥ततोऽहं दुर्लभं जन्म मानुष्यं शीघ्रमाप्नुयाम् ॥१८॥ततस्तस्य पिता पार्थ कांदिशीको महेश्वरम् ॥जगाम शरणं देवं त्राहित्राहि महेश्वर ॥१९॥त्वां विना कोऽपरो देव पुत्रस्याभीष्टदोऽस्ति मे ॥त्वयैव दत्तस्त्वं चामुं जन्म प्रापय मे सुतम् ॥२०॥ततस्तस्यातिभक्त्यासौ प्राह तुष्टो महेश्वरः ॥विभूतीः स्वा धर्मज्ञानवैराग्यैश्वर्यमेव च ॥२१॥विपरीतश्च शीघ्रं भो मांटिपुत्रः प्रबोध्यताम् ॥ततस्ता द्योतयंत्यश्च विभूत्यो गर्भमूचिंरे ॥२२॥महामते मांटिपुत्र न धार्यं ते भयं हृदि ॥चत्वारस्त्वां हि धर्माद्या मनस्त्यक्ष्यामहे न ते ॥२३॥ततोऽपरास्त्वधर्माद्याः प्रोचुर्नैव तथा वयम् ॥भविष्यामो मनस्तुभ्यमस्मत्तव भयं न हि ॥२४॥इत्युक्ते स विभूतीभिः शीघ्रमेव कुमारकः ॥निःससार बहिर्जातश्चकंपेति रुरोद च ॥२५॥ततो विभूतयः प्राहुर्मांटे तव सुतस्त्वसौ ॥अद्यापि कालमार्गस्य भीतः कम्पति रोदिति ॥२६॥कालभीतिरिति ख्यातस्तस्मादेष भविष्यति ॥इति दत्त्वा वरं ताश्च महादेवांतिकं ययुः ॥२७॥सोऽपि बालः प्रववृधे शुक्लपक्ष इवोडुपः ॥संस्कृतः स च संस्कारैर्धीमान्पशुपतिव्रती ॥२८॥पंचमंत्राञ्जपञ्छुद्धस्तीर्थयात्रापरोऽभवत् ॥रुद्रक्षेत्रेषु सस्नौ स जपन्मन्त्रांश्च भारत ॥२९॥कालभीतिगुप्तक्षेत्रगुणाञ्छ्रुत्वाभ्युपाययौ ॥स्नात्वा ततो महीतोये जप्त्वा मन्त्रांश्च कोटिशः ॥३०॥निवृत्तो नातिदूरेथ बिल्ववृक्षं ददर्श सः ॥दृष्ट्वा तं तस्य चाधस्तल्लक्षमेकं जजाप सः ॥३१॥जपतस्तस्य विप्रस्य इंद्रियाणि लयं ययुः ॥केवलं परमानंदस्वरूपोऽसावभूत्क्षणात् ॥३२॥तस्यानंदस्य नौपम्यं स्वर्गादीनां भवेत्क्वचित् ॥गंगोदकस्येव मानं केवलं सोऽप्यसावपि ॥३३॥तत्र लीनो मुहुर्तेन पुनश्चाभूद्यथा पुरा ॥ततो विसिष्मिये पार्थ कालभीतिरुवाच ह ॥३४॥नायं मम महानन्दो वाराणस्यां न नमिषे ॥न प्रभासे न केदारे न चाप्यमरकण्टके ॥३५॥श्रीपर्वते न चान्यत्र यादृशोद्यप्रवर्त्तते ॥निर्विकाराणि स्वच्छानि गंगांबांसीवखानि मे ॥३६॥भूतेषु परमा प्रीतिस्त्रिजगद्द्योतते स्फुटम् ॥धर्ममेकं परं मह्यं चेतश्चाप्यवगच्छति ॥३७॥अहो स्थानप्रभावोऽयं स्फुटं चाप्यत्र प्रोच्यते ॥निर्दोषं यच्छुचि स्तान सर्वोपद्रववर्जितम् ॥३८॥तत्र स्थितस्य धर्मार्थस्तद्वद्भूयात्सहस्रधा ॥तदस्माच्च प्रभावाद्धि जानामीतः स्वचेतसि ॥३९॥विशिष्टं काशिमुख्येभ्यस्तीर्थेभ्यः स्थानकं त्विदम् ॥तस्मादत्रैव संस्थोहं तपस्तप्स्यामि पुष्कलम् ॥४०॥इदं चेदं तीर्थमिति सदा यस्तृषितश्चरेत् ॥न स सिद्धिमवाप्नोति क्लेशेनैव म्रियेत सः ॥४१॥इति संचिंत्य बिल्वस्य वृक्षस्याधो व्यवस्थितः ॥जजाप मन्त्रान्रुद्रस्य अंगुष्ठाग्रेण धिष्ठितः ॥४२॥गृहीत्वा नियमं तोयबिंदुं वर्षशतेऽग्निवत् ॥ततो वर्षशते याते जपतस्तस्य भारत ॥४३॥कश्चित्तोयभृतं कुम्भं गृहीत्वा नर आव्रजत् ॥सतं प्रणम्य प्राहेदं कालभीतिं प्रहर्षतः ॥४४॥अद्य ते नियमः पूर्णस्तोयमेतन्महामते ॥गृहाण सफलं मह्यं श्रमं कर्तुमिहार्हसि ॥४५॥ ॥कालभीतिरुवाच ॥को भवान्वर्णतो ब्रूहि किमाचारश्च तत्त्वतः ॥जन्माचारौ विदित्वा ते ग्रहीष्याम्यन्यथा न हि ॥४६॥ ॥नर उवाच ॥न जाने पितरौ स्वीयौ नष्टौ वा सर्वथा न हि ॥एवमेवापि पश्यामि सर्वदाऽहं स एव च ॥४७॥आचारैश्चापि धर्मैश्च न कार्यं मम किंचन ॥तस्माद्वक्ष्यामि नाप्येतन्न चाप्यस्मि समाचरे ॥४८॥ ॥कालभीतिरुवाच ॥यद्येवं नोदकं तुभ्यं ग्रहीष्याम्यस्मि कर्हिचित् ॥श्रृणुष्वात्र वचो यन्मे गुरुराह श्रुतीरितम् ॥४९॥न ज्ञायते कुलं यस्य बीजशुद्धिं विना ततः ॥तस्य खादन्पिबन्वापि साधुः सीदति तत्क्षणात् ॥५०॥यश्च रुद्रं न जानाति रुद्रभक्तश्च यो नहि ॥अन्नोदकं तस्य भुञ्जन्पातकी स्यान्न संशयः ॥५१॥अज्ञात्वा यः शिवं भुंक्ते कथ्यते सोऽत्र ब्रह्महा ॥मार्ष्टि च ब्रह्महान्नादे तस्मात्तस्य न भक्षयेत् ॥५२॥गंगोदकुम्भः स्याद्यद्वत्तन्मध्ये मद्यबिंदुना ॥अशिवज्ञस्य यो भुंक्ते शिवज्ञोऽपि तथैव सः ॥५३॥हीनवर्णश्च यः स्याद्धि शिवभक्तोऽपि नैव सः ॥प्रतिगृह्यौ गुणौ तस्माद्विलोक्यौ द्वौ प्रतिग्रहे ॥५४॥ ॥नर उवाच ॥एतेन तव वाक्येन हास्यं संजायते मम ॥अहो मुग्धोऽसि मिथ्या त्वमपस्मारी जडोऽपि च ॥५५॥सदा सर्वेषु भूतेषु शिवो वसति नित्यशः ॥साध्वसाधु ततो वाक्यं नैव निन्दा शिवस्य सा ॥५६॥आत्मनश्च परस्यापि यः करोत्यंतरो हरम् ॥तस्य भिन्नदृशो मृत्युर्विदधे भयमुल्बणम् ॥५७॥अथवा का हि पानीये भवेदशुचिता वद ॥मृत्तिकोद्भवकुम्भोऽयं पावकेनापि पाचितः ॥५८॥पूर्णश्च पयसा कस्मिन्नेषामशुचिता कुतः ॥५९॥अथ चेन्मम संसर्गादशुचित्वं च मीयते ॥तदस्यां संस्थितः पृथ्व्यामहंत्वं च कुतो वद ॥६०॥कुतः पृथिव्यां चरसि खे त्वं नैव चरस्युत ॥एवं विचार्यमाणे ते भाषितं मुग्धवद्भवेत् ॥६१॥ ॥कालभीतिरुवाच ॥सर्वभूतेषु चेदेवं शिव एवेति चोच्यते ॥नास्तिकां मृत्तिका कस्माद्भक्षयंति नभस्यके ॥६२॥शुद्ध्यर्थं तेन विश्वस्य स्थापिता संस्थितिर्यथा ॥फलेन पालिता सा च नान्यथा तां श्रृणुष्व च ॥६३॥ससर्जेति पुरा धाता रूपात्मकमिदं जगत् ॥तच्च नामप्रपञ्चेन बद्धं दाम्ना च गौर्यथा ॥६४॥स च नामप्रपञ्चस्तु चतुर्द्धा भिद्यते किल ॥ध्वनिर्वर्णाः पदं वाक्यमित्यास्पदचतुष्टयम् ॥६५॥तत्र ध्वनिर्नादमयो वर्णाश्चाकारपूर्वकाः ॥पदं `श वमि' ति प्रोक्तं वाक्यं चेति शिवं' भजेत् ॥६६॥तच्चापि वाक्यं त्रिविधं भवेदिति श्रुतेर्मतम् ॥प्रभुसम्मतमेकं च सुहृत्संमतमेव च ॥६७॥कांतासंमतमेवापि वाक्यं हि त्रिविधं विदुः ॥प्रभुः स्वामी यथा भृत्यमादिशत्येतदाचर ॥६८॥तथा श्रुतिस्मृती चोभे प्राहतुः प्रभुसंमतम् ॥इतिहासपुराणादि सुहृत्संमतमुच्यते ॥६९॥सुहृद्वत्प्रतिबोध्यैनं प्रवर्तयति तत्त्वतः ॥काव्यालापादिकं यच्च कांतासंमतमुच्यते ॥७०॥प्रभुवाक्यं स्मृतं यच्च सबाह्याभ्यंतरं शुचि ॥सुहृद्वाक्यं तथा शौचं पालयेत्स्वर्गकांक्षया ॥७१॥तदेतत्पालनीयं स्याद्भूमिजानां श्रुतिर्वदेत् ॥त्वया नास्तिक्यवाक्येन चेदेतदभिधीयते ॥७२॥एतेन श्रुतिशास्त्राणि पुराणं च वृतैव किम् ॥अग्रे सप्तर्षिपूर्वा ये ब्राह्मणाः क्षत्रिया भवन् ॥७३॥मुग्धाः सर्वेऽभवन्दक्षा ये हि वेदं गता ह्यनु ॥तथा वेदांतवचनं सत्त्वस्था ह्यूर्ध्वगामिनः ॥७४॥तिष्ठंति राजसा मध्ये ह्यधो गच्छंति तामसाः ॥सत्त्वाहारैः सत्त्ववृत्त्या स्वर्गगामी भवेत्ततः ॥७५॥न चैतदप्य सूयामो यद्भूतेषु शिवो न हि ॥अस्त्येव सर्वभूतेषु श्रृण्वत्राप्युपमानकम् ॥७६॥यथा सुवर्णजातानि भूषणानि बहूनि च ॥कानिचिच्छुद्धरूपाणि हीनरूपाणि कानिचित् ॥७७॥स्वर्णं सर्वेषु चास्त्येव तथैव स सदाशिवः ॥हीनरूपं शोधितं सच्छुद्धिमेति न चैकताम् ॥७८॥तथेदं शोधितं देहं शुद्धं दिवि व्रजेत्स्फुटम् ॥तस्मात्सर्वात्मना हीनान्न ग्राह्यं बत धीमता ॥७९॥चेदिदं शोधयेद्देहं नैव ग्राह्यं समंततः ॥सर्वतो यः प्रतिग्राही निहाराहारयोर्न च ॥८०॥शुचिः स्यादल्पदिवसात्पाषाणोऽसौ भवेत्स्फुटम् ॥तस्मात्सर्वात्मना नैव ग्रहीष्येहं जलं स्फुटम् ॥८१॥साधुवाप्यथवाऽसाधु प्रमाणं नः श्रुतिः परा ॥एवमुक्ते स च नरः प्रहसन्दक्षिणेन च ॥८२॥अंगुष्ठेन लिखन्भूमिं चक्रे गर्तं महोत्तमम् ॥तत्र चिक्षेप तत्तोयं तेन गर्तः स्म पूरितः ॥८३॥अत्यरिच्यत तोयं च चक्रे पादेन संलिखन् ॥चक्रे सरः पूरितं चाप्यतिरिक्तजलेन तत् ॥८४॥तदद्भुतं महद्दृष्ट्वा नैव विप्रो विसिष्मिये ॥यतो बहुविधं चित्रं भवेद्भूताद्युपासिषु ॥८५॥तच्चित्रेण न जह्याच्च श्रुतिमार्गं सनातनम् ॥८६॥ ॥नर उवाच ॥अतिमूर्खोसि विप्र त्वं प्रज्ञावादांश्च भाषसे ॥किं न श्रुतस्त्वया श्लोकः पुराविद्भिरुदीरितः ॥कूपोन्यस्य घटोऽन्यस्य रज्जुरन्यस्य भारत ॥८७॥पायंत्यन्ये पिबंत्यन्ये सर्वे ते समभागिनः ॥तज्जलं मम कस्मात्त्वं धर्मज्ञो न पिबस्यसि ॥८८॥॥ नारद उवाच ॥ततो विममृशे श्लोको बहुधा समभागिनाम् ॥अनिश्चयाद्विचार्यासौ घटाद्यैः समभागिता ॥८९॥बहुपोतद्रव्यक्षेपः सर्वैः सा समभागिता ॥एवं कर्तुः फलैः सर्वैः समं स्याच्च पुनःपुनः ॥९०॥यः शुचिश्च शिवं ध्यायन्प्रासादकूपकर्तरि ॥जलप्रतिग्रहाभावात्पिबतोऽस्य समं फलम् ॥९१॥इति निश्चित्य प्रोवाच कालभीतिर्नरं च तम् ॥सत्यमेत्किं तु कुंभपयसा गर्तपूरणे ॥९२॥दृष्ट्वा प्रत्यक्षतो मादृक्कथं पिबति भो वद ॥साधु वाप्यथवाऽसाधु न पिबेयं कथंचन ॥९३॥एवं विनिश्चयं दृष्ट्वास्य स्थिरं कुरुनंदन ॥पुरुषोऽसौ प्रहस्यैव क्षणादंतर्दधे ततः ॥९४॥कालभीतिश्च परमं विस्मयं समुपागतः ॥वृत्तांतः कोयमित्येव चिंतयामास भूयसा ॥९५॥ततश्चिंतयतस्तस्य बिल्वाधस्तात्सुशोभनम् ॥उच्छ्रितं सुमहालिंगं पृथिव्या द्योतयद्दिशः ॥९६॥प्रादुर्भावे ततस्तस्य महालिंगस्य भारत ॥ननर्त खेप्सरोवृंदं गधर्वा ललितं जगुः ॥९७॥पारिजातमयीं पुष्पवृष्टिमिंद्रो मुमोच ह ॥जयेति देवा मुनयस्तुष्टुवुर्विविधैः स्तवैः ॥९८॥तस्मिन्महति कौरव्य वर्तमाने महोत्सवे ॥कालभीतिः प्रमुदितः प्रणम्य स्तोत्रमैरयत् ॥९९॥पापस्य कालं भवपंककालं कलाकलं कालमार्गस्य कालम् ॥देवं महाकालमहं प्रपद्ये श्रीकालकंठं भवकालरूपम् ॥१००॥ईशानवक्त्रं प्रणमामि त्वाहं स्तौति श्रुतिः सर्वविद्येश्वरस्त्वम् ॥भूतेश्वरस्त्वं प्रपितामहस्त्वं तस्मै नमस्तेस्तु महेश्वराय ॥१०१॥यं स्तौति वेदस्तमहं प्रपद्ये तत्पुरुषसंज्ञं शरणं द्वितीयम् ॥त्वां विद्महे तच् नस्त्वं प्रदेहि श्रीरुद्र देवेश नमोनमस्ते ॥१०२॥अघोरवक्त्रं त्रितयं प्रपद्ये अथर्वजुष्टं तव रूपकाणि ॥अघोरघोराणि च घोरघोराण्यहं सदानौमि भूतानि तुभ्यम् ॥१०३॥चतुर्थवक्त्रं च सदा प्रपद्ये सद्योभिजाताय नमोनमस्ते ॥भवेभवेनादिभवो भवस्व भवोद्भवो मां शिव तत्रतत्र ॥१०४॥नमोस्तु ते वामदेवाय ज्येष्ठरुद्राय कालाय कलाविकारिणे ॥बलंकरायापि बलप्रमाथिने भूतानि हंत्रे च मनोन्मनाय ॥१०५॥त्रियंबकं त्वां च यजामहे वयं सुपुण्यगंधैः शिवपुष्टिवर्धनम् ॥उर्वारुकं पक्वमिवोग्रबंधनाद्रक्षस्व मां त्र्यंबक मृत्युमार्गात् ॥१०६॥षडक्षरं मंत्रवरं तवेश जपंति ये मुनयो वीतरागाः ॥तेषां प्रसन्नोऽसि जपामहेतं त्वोंकारपूर्वं च नमः शिवाय ॥१०७॥एवं स्तुतो महादेवो लिंगान्निःसृत्य भारत ॥त्रिजगद्द्योतयन्मभासा प्रत्यक्षः प्राह च द्विजम् ॥१०८॥यत्त्वयात्र महातीर्थे भृशमाराधितो द्विज ॥तेनाति तुष्टस्ते वत्स नेशः कालः कथंचन ॥१०९॥अहं च नररूपी यो दृष्ट्वा ते धर्मसंस्थितिम् ॥धन्यस्तद्धर्ममार्गोऽयं पाल्यते यद्भवद्विधैः ॥११०॥सर्वतीर्थोदकैर्गरतः पूरितो मे सरस्तथा ॥जलमेतन्महापुण्यं त्वदर्थं मे समाहृतम् ॥१११॥सप्तमंत्ररहस्यं च यत्कृतं स्तवनं मम ॥अनेन पठ्यमानेन सप्तमंत्रफलं भवेत् ॥११२॥अभीष्टं च वरं मत्तो वृणीष्व मनसेप्सितम् ॥त्वयातितोषितो ह्यस्मिनादेयं विद्यते तव ॥११३॥ ॥कालभीतिरुवाच ॥धन्योऽस्म्यनुगृहीतोऽस्मि यत्त्वं तुष्टोऽसि शंकर ॥त्वत्तोषात्सफला धर्माः श्रमायैवान्यतामताः ॥११४॥यदि तुष्टोऽसि सांनिद्यं लिंगेऽत्र क्रियतां सदा ॥अक्षयं तत्कृतं चास्तु यल्लिंगे क्रियतेऽत्र च ॥११५॥जपतो यत्फलं देवपंचमंत्रायुतेन च ॥तत्फलं जायतां नणामस्य लिंगस्य दर्शने ॥११६॥कालमार्गादहं यस्मान्मोचितोऽहं महेश्वर ॥महाकालमिति ख्यातं लिंगं तस्माद्भवत्विदम् ॥११७॥अस्मिंश्च कूपे यो मर्त्यः स्नात्वा तर्पयते पितॄन् ॥सर्वतीर्थफलं चास्तु पितॄणामक्षया गतिः ॥११८॥इति तस्यवचः श्रुत्वा प्रीतस्तं शंकरोऽब्रवीत् ॥स्वायंभुवं यत्र लिंगं तत्र नित्यं वसाम्यहम् ॥११९॥स्वयंभुबाणरत्नोत्थदातुपाषाणलोहजम् ॥लिंगं क्रमेण फलदमंत्यात्पूर्वं दशोत्तरम् ॥१२०॥आकाशे तारकालिंगं पाताले हाटकेश्वरम् ॥स्वायंभुवं धारपृष्ठे तदेतत्त्रितयं समम् ॥१२१॥विशेषात्प्रार्थितं यच्च तच्च भविष्यति ॥अत्र पुष्पं फलं पूजा नैवेद्यं स्तवनक्रिया ॥१२२॥दानं वान्यश्च यत्किंचिदक्षयं तद्भविष्यति ॥माघासितचतुर्दश्यां शिवयोगे च पुत्रक ॥१२३॥लिंगाच्च पूर्वतः कूपेस्नात्वा यस्तर्पयेत्पितॄन् ॥सर्वतीर्थफलावाप्तिः पितॄणां चाक्षया गतिः ॥१२४॥तस्यां रात्रौ महाकालं यामेयामे प्रपूजयेत् ॥यः क्षिपेत्सर्वलिंगेषु स जागरफलं लभेत् ॥१२५॥जितेंद्रियश्च यो नित्यं मां लिंगेत्र प्रपूजयेत् ॥भुक्तिमुक्ती न दूरस्थे तस्य नित्यं द्विजोत्तम ॥१२६॥माघे चतुर्दश्यष्टम्यां सोमवारे च पर्वणि ॥स्नात्वा सरसि योऽभ्यर्च्य लिंगमेतच्छिवं व्रजेत् ॥१२७॥दानं तपो रुद्रजापः सर्वमक्षयमेव च ॥त्वं च नन्दी द्वितीयो मे प्रतीहारो भविष्यसि ॥१२८॥कालमार्गजयाद्वत्स महाकाला भिधश्चिरम् ॥करंधमोऽत्र राजर्षिरचिरादागमिष्यति ॥१२९॥तस्य प्रोच्य भवान्धर्मांस्ततो मल्लोकमाव्रज ॥इत्युक्त्वा भगवान्रुद्रो लिंगमध्ये न्यलीयत ॥१३०॥महाकालोऽपि मुदितस्तत्र तेपे महत्तपः ॥१३१॥ ॥इति महाकालप्रादुर्भावः ॥॥ नारद उवाच ॥अथ केनापि कालेन पार्थ राजा करंधमः ॥विशेषमिच्छुर्धर्मेषु श्रुत्वा तीर्थमहागुणान् ॥१३२॥महाकालचरित्रं च तत्रैव समुपाययौ ॥महीसागर तोयेऽसौ स्नात्वा लिंगान्यथार्चयत् ॥१३३॥महाकालमनुप्राप्य परमां प्रीतिमागतः ॥स पश्यन्सुमहालिंगं नातृप्यत जनेश्वरः ॥१३४॥यथा दरिद्रः कृपणो निधिकुम्भमवाप्य च ॥सफलं जीवितं मेने महाकालं निरीक्ष्य सः ॥१३५॥पंचमंत्रायुतजपफलं यस्येह दर्शनात् ॥ततः सपर्ययाक्ष्यर्च्य महत्यासौ प्रणम्य च ॥१३६॥श्रुत्वा च लिंगप्रवरं महाकालमुपासदत् ॥ततो रुद्रवचः स्मृत्वा महाकालः स्मयन्निव ॥१३७॥प्रत्युद्गम्य नृपं पूजामर्घं च प्रत्यपादयत् ॥ततः कुशलप्रश्नादि कृत्वा शांतमुखं नृपः ॥१३८॥महाकालमुपामंत्र्य कथांते वाक्यमब्रवीत् ॥भगवन्संशयो मह्यं सदाऽयं परिवर्तते ॥१३९॥यदिदं तर्पणंनाम पितॄणां क्रियते नृभिः ॥जलमध्ये जलं याति कथं तृप्यंति पूर्वजाः ॥१४०॥एवं पिंडादिपूजा च सर्वमत्रैव दृश्यते ॥कथमेवं स्म मन्यामः पित्राद्यैरुपभुज्यते ॥१४१॥न चैतदस्ति यत्तेषां नोपतिष्ठति किंचन ॥स्वप्ने यथाक्रम्य नरं दृश्यंते याचकाश्च ते ॥१४२॥देवानां चापि दृश्यंते प्रत्यक्षाः प्रत्ययाः सदा ॥तत्कथं प्रतिगृह्णन्ति मनो मेऽत्र प्रमुह्यति ॥१४३॥ ॥महाकाल उवाच ॥योनिरेवंविदा तेषां पितॄणां च दिवौकसाम् ॥दूरोक्तं दूरपूजा च दूरस्तुतिरथापि यत् ॥१४४॥भव्यं भूतं भविष्यच्च सर्वं जानंति यांति च ॥पंचतन्मात्ररूपं च मनोबुद्धिरहंजडाः ॥१४५॥नवतत्त्वमयं देहं दशमः पुरुषो मतः ॥तस्माद्गंधेन तृप्यंति रसतत्त्वेन ते तथा ॥१४६॥शब्दतत्त्वेन तुष्यंति स्पर्शतत्त्वं च गृह्णते ॥शुचि दृष्ट्वा त तुष्यंति नात्र राजन्भवेन्मृषा ॥१४७॥यथा तृणं पशूनां च नराणामन्नमुच्यते ॥एवं दैवतयोनीनामन्नसारस्य भोजनम् ॥१४८॥शक्तयः सर्वभावानामचिंत्या ज्ञानगोचराः ॥तस्मात्तत्त्वं प्रगृह्णन्ति शेषमत्रैव दृश्यते ॥१४९॥ ॥करंधम उवाच ॥पितृभ्यो दीयते श्राद्धं स्वकर्मवशगाश्च ते ॥स्वर्गस्था नरकस्था वा कथं तैरुपभुज्यते ॥१५०॥अथ स्वर्गेऽथ नरेक स्थिताः कर्माभियंत्रिताः ॥शक्नुवंति वरानेतान्दातुं ते चेश्वराः कथम् ॥१५१॥आयुः प्रजां धनं विद्यां स्वर्गं मोक्षं सुकानि च ॥प्रयच्छन्तु तथा राज्यं प्रीता नॄणां पितामहाः ॥१५२॥ ॥महाकाल उवाच ॥सत्यमेततस्वकर्मस्थाः पितरो यन्नृपोत्तम ॥किं तु देवासुराणां च यक्षादीनाममूर्तकाः ॥१५३॥मूर्ताश्चतुर्णां वर्णानां पितरः सप्तधा स्मृताः ॥ते हि सर्वे प्रयच्छंति दातुं सर्वं यतोप्सितम् ॥१५४॥एकत्रिंशद्गणा येषां पितॄणां प्रबला नृप ॥कृतं च तदिदं श्राद्धं तर्पयेत्तान्परान्पितॄन् ॥१५५॥ते तृप्तास्तर्पयन्त्यस्य पूर्वजान्यत्र संस्थितान् ॥एवं स्वानां चोपतिष्ठेच्छ्राद्धं यच्छंति ते वरान् ॥१५६॥ ॥राजोवाच ॥भूतादिभ्यो यथा विप्र नाम्ना वोद्दिश्य दीयते ॥सुरादीनां कथं चैव संक्षेपेण न दीयते ॥१५७॥इदं पितृभ्यो देवेभ्यो द्विजेभ्यः पावकाय च ॥एवं कस्माद्विस्तराः स्युर्मनः कायादिकष्टदाः ॥१५८॥ ॥महाकाल उवाच ॥उचिता प्रतिपत्तिश्च कार्या सर्वेषु नित्यशः ॥प्रतिपत्तिं चोचितां ते विना गृह्णन्ति नैव च ॥१५९॥यथा श्वा गृहद्वारस्थो बलिं गृह्णाति किं तथा ॥प्रधानपुरुषो राजन्गृह्णाति च शुना समः ॥१६०॥एवं ते भूतवद्देवा न हि गृह्णन्ति कर्हिचित् ॥शुचि कामं जुषंते न हविरश्रद्दधानतः ॥१६१॥विना मंत्रैश्च यद्दत्तं न तद्गृह्णन्ति तेऽमलाः ॥श्रुतिरप्यत्र प्राहेदं मंत्राणां विषये नृप ॥१६२॥"मंत्रा दैवता यद्यद्विद्वान्मन्त्रवत्करोति देवताभिरेव तत्करोति यद्ददानि देवताभिरेव तद्ददाति यत्प्रतिगृह्णाति देवताभिरेव तत्प्रतिगृह्णाति तस्मान्नामन्त्रवत्प्रतिगृह्णीयात् नामन्त्रवत्प्रतिपद्यते" इति ॥१६३॥तस्मान्मंत्रैः सदा देयं पौराणैर्वैदिकैरपि ॥अन्यथा ते न गृह्णन्ति भूतानामुपतिष्ठति ॥१६४॥ ॥राजोवाच ॥दर्भांस्तिलानक्षतांश्च तोयं चैतैः सुसंयुतम् ॥कस्मात्प्रदीयते दानं ज्ञातुमिच्छामि कारणम् ॥१६५॥ ॥महाकाल उवाच ॥पुरा किल प्रदत्तानि भूमेर्दानानि भूरिशः ॥प्रत्यगृह्णन्त दैत्याश्च प्रविश्याभ्यंतरं बलात् ॥१६६॥ततो देवाश्च पितरः प्रत्यूचुः पद्मसंभवम् ॥१६७॥स्वामिन्नः पश्यतामेव सर्वं दैत्यैः प्रगृह्यते ॥विधेहि रक्षां तेषां त्वं न नष्टः स्मो यथा वयम् ॥१६८॥ततो विमृश्यैव विधी रक्षोपायमचीकरत् ॥तिलैर्युक्तं पितॄणां च देवानामक्षतैः सह ॥१६९॥तोयं दर्भांश्च सर्वत्र एवं गृह्णन्ति नासुराः ॥एतान्विना प्रदत्तं यत्फलं दैत्यैः प्रगृह्यते ॥१७०॥निःश्वस्य पितरो देवा यांति दातुः फलं न हि ॥तस्माद्युगेषु सर्वेषु दानमेव प्रदीयते ॥१७१॥ ॥करंधम उवाच ॥चतुर्युगव्यवस्थानं श्रोतुमिच्छमि तत्त्वतः ॥महतीयं विवित्सा मे सदैव परिवर्तते ॥१७२॥ ॥महाकाल उवाच ॥आद्यं कृतयुगं विद्धिततस्त्रेतायुगं स्मृतम् ॥द्वापरं च कलिश्चेति चत्वारश्च समासतः ॥१७३॥सत्त्वं कृतं रजस्त्रेता द्वापरं च रजस्तमः ॥कलिस्तमस्तु विज्ञेयं युगवृत्तं युगेषु च ॥१७४॥ध्यानं परं कृतयुगे त्रेतायां यज्ञ उच्यते ॥वृत्तं च द्वापरे सत्यं दानमेव कलौ युगे ॥१७५॥कृते तु मानसी सृष्टिर्वृत्तिः साक्षाद्रसोल्लसा ॥तेजोमय्यः प्रजास्तृप्ताः सदानंदाश्च भोगिनः ॥१७६॥अधमोत्तमो न तासां ता निर्विशेषाः प्रजाः शुभाः ॥तुल्यमायुः सुखं रूपं तासां तस्मिन्कृते युगे ॥१७७॥न चाप्रीतिर्न च द्वंद्वो न द्वेषो नापि च क्लमः ॥पर्वतोदधिवासिन्यो ह्यनुक्रोशप्रियास्तु ताः ॥१७८॥वर्णाश्रमव्यवस्था च तदासीन्न हि संकरः ॥एकमन्यं न ध्यायंति परमं ते सदा शिवम् ॥१७९॥चतुर्थे च ततः पादे नष्ट साऽभूद्रसोल्लसा ॥प्रादुरासंस्ततस्तासां वृक्षाश्वगृहसंज्ञिताः ॥१८०॥वस्त्राणि च प्रसूयंते फलान्याभरणानि च ॥तेष्वेव जायते तासां गंधवर्णरसान्वितम् ॥१८१॥सुमाक्षिकं महावीर्यं पुटके पुटके मधु ॥तेन ता वर्तयंति स्म कृतस्यांते प्रजास्तदा ॥१८२॥हृष्टपुष्टास्तथा वृद्धाः प्रजा वै विगतज्वराः ॥ततः कालेन केनापि तासां वृद्धे रसेंद्रिये ॥१८३॥युगभावात्तथा ध्याने स्वल्पीभूते शिवस्य च ॥वृक्षांस्तान्पर्यगृह्णंत मधु वा माक्षिकं बलात् ॥१८४॥तासां तेनोपचारेण लोभदोषकृतेन वै ॥प्रनष्टा मधुना सार्धं कल्पवृक्षाः क्वचित्क्वचित् ॥१८५॥तस्यां चाप्यल्पशिष्टायां द्वंद्वान्यभ्युत्थितानि वै ॥शीतातपैर्मनोदुःखैस्ततस्ता दुःखिता भृशम् ॥१८६॥चक्रुरावरणार्थं हि केतनानि ततस्ततः ॥ततः प्रदुर्बभौ तासां सिद्धिस्त्रेतायुगे पुनः ॥१८७॥वृष्ट्या बभूवुरौषध्यो ग्राम्यारण्याश्चतुर्दश ॥अकृष्टपच्यानूप्तास्तोयभूमिसमागमात् ॥१८८॥ऋतु पुष्पफलैश्चैव वृक्षगुल्माश्च जज्ञिरे ॥तैश्च वृत्तिरभूत्तासां धान्यैः पुष्पैः फलैस्तथा ॥१८९॥ततः पुनरभूत्तासां रागो लोभश्च सर्वतः ॥कालवीर्येण वा गृह्य नदीक्षेत्राणि पर्वतान् ॥१९०॥वृक्षगुल्मौषधीश्चैव प्रसह्याशु यथाबलम् ॥विपर्ययेण चौषध्यः प्रनष्टाश्च चतुर्दश ॥१९१॥नत्वा धरां प्रविष्टास्ता ओषध्यः पीडिताः प्रजाः ॥दुदोह गां पृथुर्वैन्यः सर्वभूतहिताय वै ॥१९२॥तदा प्रभृति चौषध्यः फालकृष्टाः प्रजास्ततः ॥वार्त्तया वर्तयंति स्म पाल्यमानाश्च क्षत्रियैः ॥१९३॥वर्णाश्रमप्रतिष्ठा च यज्ञस्त्रेतासु चोच्यते ॥सदाशिवध्यानमयं त्यक्त्वा मोक्षमचेतनाः ॥१९४॥पुष्पितां वाचमाश्रित्य रागात्स्वर्गमसाधयन् ॥द्वापरे च प्रवर्तंते मतिभेदास्ततो नृणाम् ॥१९५॥मनसा कर्मणा वाचा कृच्छ्राद्वार्ता प्रसिध्यति ॥लोभोऽधृतिः शिवं त्यक्त्वा धर्माणां संकरस्तथा ॥१९६॥वर्णाश्रमपरिध्वंसाः प्रवर्तंते च द्वापरे ॥तदा व्यासैश्चतुर्द्धा च व्यस्यते द्वापरात्ततः ॥१९७॥एको वेदश्चतुष्पादैः क्रियते द्विजहेतवे ॥इतिहासपुराणानि भिद्यंते लोकगौरवात् ॥१९८॥ब्राह्मं पाद्मं वैष्णवं च शैवं भागवतं तथा ॥तथान्यन्नारदीय च मार्कंडेयं च सप्तमम ॥१९९॥आग्नेयमष्टमं प्रोक्तं भविष्यं नवमं स्मृतम् ॥दशमं ब्रह्मवैवर्तं लैंगमेकादशं तथा ॥२००॥वाराहं द्वादशं चैव स्कांदं चैव त्रयोदशम् ॥चतुर्दशं वामनं च कौर्मं पंचदशं स्मृतम् ॥२०१॥मात्स्यं षोडशकं प्रोक्तं गारुडं च ततः परम् ॥अतः परं तु ब्रह्मांडमेवञ्चाष्टादशानि हि ॥२०२॥अस्मिन्वाराहकल्पे च व्यासानाकर्णयस्व च ॥ऋतुः सत्यो भार्गवश्च अंगिराः सविता तथा ॥२०३॥मृत्युः शतक्रतुर्धीमान्वसिष्ठो भविताऽधुना ॥सारस्वतस्त्रिधामा च वेदवित्त्रिवृतो मुनिः ॥२०४॥शततेजाः स्वयं विष्णुर्नारायण इति स्मृतः ॥करकश्चारुणिर्धीमास्तथा देव ऋतंजयः ॥२०५॥कृतंजयो भरद्वाजो गौतमः कविसत्तमः ॥वाजश्रवा मुनिश्चैव तथा युष्मायणो मुनिः ॥२०६॥तृणबिंदुस्तथा ऋक्षः शक्तिः पाराशरस्तथा ॥जातूकर्ण्योऽथ विष्णुश्च स्वयंद्वैपायनो मुनिः ॥२०७॥अश्वत्थाममुखाश्चैते भविष्याः सूचितास्तव ॥धर्मशास्त्राणि लोकार्थं भिद्यंते चापि द्वापरे ॥२०८॥मन्वत्रिविष्णुहारितयाज्ञवल्क्योशनोंगिराः ॥यमापस्तंबसंवर्ताः कात्यायनबृहस्पती ॥२०९॥पराशरव्यासशंखलिखिता दक्षगौतमौ ॥शातातपो वसिष्ठश्च धर्मशास्त्रप्रयोजकाः ॥२१०॥ततो द्वापरसंध्यायां प्रवर्तति कलौ युगे ॥नश्यमाने शैवयोगे जायंते योगनंदनाः ॥२११॥आद्ये श्वेतकलौरुद्रः सुतारस्तारणस्तथा ॥सुहोत्रः कंकणश्चैव लोकाख्यश्च महामुनिः ॥२१२॥जैगीषव्यश्च भाव्यो वै भगवान्दधिवाहनः ॥ऋषभश्च मुनिर्धर्मउग्रश्चात्रिः सबालकः ॥२१३॥गौतमौ वेदशीर्णश्च गोकर्णश्च शिखंडिभृत् ॥गृहावासी जटामाली अट्टहासश्च दारुणः ॥२१४॥लांगली संयमी शूली डिंडी जुण्डीश्वरः स्वयम् ॥सहिष्णुः सोमशर्मा च लकुलीशश्च पार्थिव ॥२१५॥कायावरोहणो भावीत्याद्या योगेश्वराः क्रमात् ॥एते संक्षिप्त वक्ष्यंति शिवधर्मं कलौ युगे ॥२१६॥एवं कलियुगे राजञ्छास्त्रसंक्षेप उच्यते ॥श्रृणु तिष्यप्रवृत्तिं च हर्षोद्वेगकरीं किल ॥२१७॥तिष्ये मायामसूयां च वधं चैव तपस्विनाम् ॥साधयंति नरास्तत्र तमसा व्याकुलेंद्रियाः ॥२१८॥कलौ प्रमाथको रागः सततं क्षुद्भयानि च ॥अनावृष्टिभयं घोरं देशानां च विपर्ययः ॥२१९॥न प्रमाणं श्रुतेरस्ति नृणां चाधर्मसेवनात् ॥अधार्मिकास्त्वनाचारा महाकोपाल्पतेजसः ॥२२०॥अनृतं ब्रुवते लुब्धा नारीप्रायाश्च दुष्प्रजाः ॥दुरिष्टैर्दुरधीतैश्च दुराचारैर्दुरागमैः ॥२२१॥विप्राणां कर्मदोषैश्च प्रजानां जायते क्षयः ॥उत्सीदंति क्षत्रविशो वर्धंते शूद्रविप्रकाः ॥२२२॥शूद्रा विप्रैः सहासंते शयनासनभोजनैः ॥शूद्राश्च ब्राह्मणाचाराः शूद्राचाराश्च ब्राह्मणाः ॥२२३॥राजवृत्त्यां स्थिताश्चौराश्चौराचाराश्च पार्थिवाः ॥एकपत्न्यो न शिष्यंति वर्धयंत्यभिसारिकाः ॥२२४॥तदा ह्यल्पफला भूमिः क्वचिच्चापि महाफला ॥अरक्षितारो हर्तारो राजानः पापनिर्भयाः ॥२२५॥अक्षत्रियास्तु राजानो विप्राः शूद्रोपजीविनः ॥शूद्रा विवादिनः सर्वे ब्राह्मणैरभिनंदिताः ॥२२६॥आसनस्थान्द्विजान्दृष्ट्वा चलंत्यत्यल्पबुद्धयः ॥आस्ये निधाय वै हस्तं कर्णे शूद्रास्य च द्विजाः ॥२२७॥नीचस्यापि तदा वाक्यं वक्ष्यंति विनयेन तम् ॥उच्चासनस्थाञ्छूद्रांश्च द्विजानां पश्यतामपि ॥२२८॥ज्ञात्वा न हिंसते राजा पश्य कालबलं नृप ॥पुष्पैः शुभसितैश्चैव तथान्यैर्मंडनैर्द्विजाः ॥२२९॥शूद्रानभ्यर्चयंत्यल्पश्रुतभाग्यबलान्विताः ॥पाषंडिनां च गृह्णंति ब्राह्मणाः कुप्रतिग्रहम् ॥२३०॥येन ते रौरवं यांति सुदुस्तारं द्विजाधमाः ॥तपोयज्ञफलानां च विक्रेतारो द्विजास्तथा ॥२३१॥यतयश्च भविष्यंति बहवः कोटिशः कलौ ॥पुरुषाल्पबहुस्त्रीको नृणां चापत्यसंभवः ॥२३२॥निंदंति वेदवाक्यानि वेदार्थांश्च कलौ युगे ॥शूद्रैः स्वयं निर्मितं यत्प्रमाणं शास्त्रमेव तत् ॥२३३॥श्वापदप्रबलत्वं च गवां चापि परिक्षयः ॥कस्यचिद्दानप्रभृतिधर्मस्यास्ति न शुद्धता ॥२३४॥साधूनां बहवो नाशाः पार्थिवाश्चाप्यरक्षिणः ॥अट्टशूला जनपदाः शिवशूलाश्चतुष्पथाः ॥२३५॥प्रमदाः केशशूलिन्यो भविष्यंति कलौ युगे ॥स्त्रीप्रधानानि गेहानि कुचैलास्ताश्च कर्कशाः ॥२३६॥बहुभक्ष्यावलिप्ताश्च कृत्या इव भवंति च ॥सर्वे वणिग्जनाश्चापि चित्रवर्षी च वासवः ॥२३७॥कुशीलचर्यापाषंडैर्वृथारूपैः समावृतः ॥बहुयाचनको लोको भविष्यति परस्परी ॥२३८॥अशंकश्चैव पापेषु तदा लोको भविष्यति ॥हर्तारः पररत्नानां परदारप्रधर्षकाः ॥२३९॥ऊनषोडशवर्षाश्च प्रजायंते युगक्षये ॥तथा द्वादशवर्षाश्च प्रसवंति स्त्रियस्तदा ॥२४०॥चौराश्चौरस्य हर्तारो हर्तुर्हर्त्ता तथापरः ॥ज्ञानकर्मण्युपरते लोके निष्क्रियतां गते ॥२४१॥कीटमूषकसर्पाश्च धर्षयिष्यंति मानवान् ॥वर्णाश्रमाणां ये चान्ये पाषंडाः परिपंथिनः ॥२४२॥ते तदा प्रोद्भविष्यंति तेषआं वृद्धिश्च पार्थिव ॥दुःखं पुत्रकलत्राद्यं देहोत्सादः सरोगता ॥२४३॥अधर्माभिनिवेशत्वात्तमसो जायते कलौ ॥कलेर्दोषनिधेश्चैव श्रृणुष्वैवं महागुणम् ॥२४४॥तदाल्पेनैव काले न सिद्धिं गच्छंति मानवाः ॥त्रियुगीना वदंत्येवं धन्या धर्मं चरंति ये ॥२४५॥श्रुतिस्मृतिपुराणोक्तं कलौ श्रद्धापरायणाः ॥त्रेतायां वार्षिको धर्मो द्वापरे मासिकः स्मृतः ॥२४६॥यथा क्लेशं चरन्प्राज्ञस्तदह्ना प्राप्यते कलौ ॥युगत्रयेण तावंतः सिद्धिं गच्छंति पार्थिवः ॥२४७॥यावंतः सिद्धिमायांति कलौ हरिहरव्रताः ॥अष्टाविंशे कलौ यच्च भावि तत्त्वं निबोध मे ॥२४८॥त्रिषु वर्षसहस्रेषु कलेर्यातेषु पार्थिवः ॥त्रिशतेषु दशन्यूनेष्वस्यां भुवि भविष्यति ॥२४९॥शूद्रकोनाम वीराणामधिपः सिद्धिमत्र सः ॥चर्चितायां समाराध्य लप्स्यते भूभरापहः ॥२५०॥ततस्त्रिषु सहस्रेषु दशाधिकशतत्रये ॥भविष्यं नंदराज्यं च चाणक्यो यान्हनिष्यति ॥२५१॥शुक्लतीर्थे सर्वपापनिर्मुक्तिं योऽभिलप्स्यति ॥ततस्त्रिषु सहस्रेषु विंशत्या चाधिकेषु च ॥२५२॥भविष्यं विक्रमादित्यराज्यं सोऽथ प्रलप्स्यते ॥सिदधिप्रसादाद्दुर्गाणां दीनान्यो ह्युद्धरिष्यति ॥२५३॥ततः शतसहस्रेषु शतेनाप्यधिकेषु च ॥शकोनाम भविष्यश्च योऽतिदारिद्र्यहारकः ॥२५४॥ततस्त्रिषु सहस्रेषु षट्शतैरधिकेषु च ॥मागधे हेमसदनादंजन्यां प्रभविष्यति ॥२५५॥विष्णोरंशो धर्मपाता बुधः साक्षात्स्वयं प्रभुः ॥तस्य कर्माणि भूरिणि भविष्यंति महात्मनः ॥२५६॥ज्योतिर्बिदुमुखानुग्रान्स हनिष्यति कोटिशः ॥चतुःषष्टिं स वर्षाणि भुक्त्वा द्वीपानि सप्त च ॥२५७॥भक्तेभ्यः स्वयशो मुक्त्वा दिवं पश्चाद्गमिष्यति ॥सर्वेषां चावताराणआं गुणैः समधिको यतः ॥२५८॥ततो वक्ष्यंति तं भक्त्या सर्वपापहरं बुधम् ॥चतुर्षु च सहस्रेषु शतेष्वपि चतुर्षु च ॥२५९॥साधिकेषु महान्राजा प्रमितिः प्रभविष्यति ॥गोत्रेषु वै चंद्रमसो बहुसेनापतिर्बली ॥२६०॥म्लेच्छान्स कोटिशो हत्वा पाषंडानि च सर्वशः ॥वैदिकं केवलं शुद्धं सद्धर्मं वर्तयिष्यति ॥२६१॥गंगायमुनयोर्मध्ये निष्ठां यास्यति पार्थिवः ॥ततः प्रजाश्च कालेन केनापि भृशपीडिताः ॥२६२॥घोरं वा धर्ममाश्रित्य शाठ्येन च भवंति ताः ॥अप्रग्रहास्ततस्ता वै लोभाविष्टाश्च वृंदशः ॥२६३॥उपहिंसंति चान्योन्यं व्याकुलाः श्रमपीडिताः ॥नष्टे श्रौते तथा स्मार्ते परस्परहतास्तदा ॥२६४॥निर्मर्यादा निष्करुणा निस्स्नेहा निरपत्रपाः ॥गृहदाराणि संत्यज्य ह्रस्वकाः पंटविंशतिः ॥२६५॥हाहाभूताश्चरिष्यंति विषादव्याकुलेंद्रियाः ॥अनावृष्टिहताश्चैव वार्तामुत्सृज्य दुःखिताः ॥२६६॥प्रत्यंतांस्ता निषेवंति हित्वा जनपदान्स्वकान् ॥सरित्सागरकूलांश्च सेवंते पर्वतांस्तथा ॥२६७॥मांसैर्मूलफलैस्चैव वर्तयंति सुदुःखिताः ॥चीरपत्राजिनधरा निष्क्रिया निष्परिग्रहाः ॥२६८॥धर्मस्य वासमात्रं च शाल्वो म्लेच्छो हनिष्यति ॥उत्तमाधममध्यत्वं सर्वमुच्छिद्य घोरकृत् ॥२६९॥ततस्तस्य वधार्थाय विष्णुः साक्षाज्जगत्पतिः ॥शंभले विष्णुयशसो भूत्वा पुत्रो नृपोत्तम ॥२७०॥द्विजोत्तमैः परिवृतः शाल्वं तं संहरिष्यति ॥कोटिशोऽर्बुदशः पापान्निहत्य च निखर्वशः ॥२७१॥पालयिष्यति तं धर्मं यो धर्मः श्रुतिपूर्वकः ॥२७२॥कृत्वा पोतं धर्मरूपं साधूनां परमेश्वरः ॥गमिष्यति परं लोकं कृत्वा कर्माणि भूरिशः ॥२७३॥ततः कृतयुगं भूयः प्रवर्तिष्यति पार्थिव ॥आद्यं कृतयुगं चान्यं तदन्येभ्यो विशिष्यते ॥२७४॥अष्टाविंशकलिश्चैव शेषः प्रावर्त अन्यतः ॥ततः कृते सूर्यवंशः प्रवत्स्यति ॥२७५॥मरुराजाच्च देवापेः श्रुतदेवाच्च ब्राह्मणाः ॥इति चातुर्युगी राजन्व्यवस्था परिवर्तते ॥चतुर्युगे च ते धन्या ये भजंति हराच्युतौ ॥२७६॥ इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां प्रथमे माहेश्वरखण्डे कौमारिकाखण्डे महाकालकरन्धमसंवादे चतुर्युगव्यवस्थावर्णनंनाम चत्वारिंशत्तमोऽध्यायः ॥४०॥ N/A References : N/A Last Updated : July 23, 2024 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP