संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|माहेश्वरखण्ड|कौमारिकाखण्डः|
अध्यायः ४०

कौमारिकाखण्डः - अध्यायः ४०

भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.


 ॥अर्जुन उवाच ॥
महाकालस्त्वसौ कश्च कथं सिद्धिमुपागतः ॥
अस्मिंस्तीर्थे मुनिश्रेष्ठ महदाश्चर्य मत्र मे ॥१॥
सर्वमेतत्समाख्याहि श्रद्दधानाय पृच्छते ॥२॥
॥ नारद उवाच ॥
नमस्कृत्य महाकालं वरदं स्थाणुमव्ययम् ॥
शक्तितश्चरितं तस्य वक्ष्ये पांडुकुलोद्वह ॥३॥
वाराणस्यां पुरि पुरा बभूव जपतां वरः ॥
रुद्रजापी महाभागो मांटिर्नाम महायशाः ॥४॥
तस्यापुत्रस्य पुत्रार्थे रुद्रान्संजपतः किल ॥
गतं वर्षशतं तुष्टस्ततस्तं प्राह शंकरः ॥५॥
मांटे तव सुतो धीमान्मत्प्रभावपराक्रमः ॥
वंशस्य तव सर्वस्य समुद्धर्ता भविष्यति ॥६॥
इति श्रुत्वा रुद्रवचो मांटिर्हर्षं परं गतः ॥
ततः काले कियन्मात्रे पत्नी मांटेर्महात्मनः ॥७॥
दधार गर्भं चटिका तपोमूर्तिधरा यथा ॥
तस्य गर्भस्य वर्षाणि चत्वारि किल संययुः ॥८॥
न पुनर्मातुरुदरंत्यक्त्वा निर्गच्छते बहिः ॥
ततो मांटिरुपामंत्र्य सामभिस्तमवोचत ॥९॥
वत्स सामान्यपुत्रोऽपि पित्रोः सुखकरः सदा ॥
शुद्धायां मातरि भवो मत्तः किं पीडयस्यलम् ॥१०॥
वत्स मानुष्यवासस्य स्पृहा तुभ्यं कथं न हि ॥
यत्र धर्मार्थकामानां मोक्षस्यापि च संततिः ॥११॥
कदा मनुष्या जायेम पूजा यत्र महाफला ॥
पितॄणां देवतानां च नानाधर्माश्च यत्र हि ॥१२॥
इति भूतानि शोचंति नानायोनिगतान्यपि ॥
तत्त्वं मानुष्यमतुलं स्पृहणीयं दिवौकसाम् ॥
अनादृत्य कथं ब्रूहि स्थितश्चोदर एव च ॥१३॥
 ॥गर्भ उवाच ॥
तात जानाम्यहं सर्वमेतत्परम दुर्लभम् ॥
किं तु बिभेमि चातिमात्रं कालमार्गस्य नित्यशः ॥१४॥
द्वौ मार्गौ किल वेदेषु प्रोक्तौ कालोऽर्चिरेव च ॥
अर्चिषा मोक्षमायांति कालमार्गेण कर्मणि ॥१५॥
स्वर्गे वा नरके वापि कालमार्गगतो ह्ययम् ॥
न शर्म लभते क्वापि व्याधविद्धमृगो यथा ॥१६॥
तस्यैव हेतोः प्रयतेत्कोविदो यन्न दुःखवित् ॥
कालेन घोररूपेण गंभीरेण समाहितः ॥१७॥
तच्चेन्मम मनस्तात नानादोषैर्न मोह्यते ॥
ततोऽहं दुर्लभं जन्म मानुष्यं शीघ्रमाप्नुयाम् ॥१८॥
ततस्तस्य पिता पार्थ कांदिशीको महेश्वरम् ॥
जगाम शरणं देवं त्राहित्राहि महेश्वर ॥१९॥
त्वां विना कोऽपरो देव पुत्रस्याभीष्टदोऽस्ति मे ॥
त्वयैव दत्तस्त्वं चामुं जन्म प्रापय मे सुतम् ॥२०॥
ततस्तस्यातिभक्त्यासौ प्राह तुष्टो महेश्वरः ॥
विभूतीः स्वा धर्मज्ञानवैराग्यैश्वर्यमेव च ॥२१॥
विपरीतश्च शीघ्रं भो मांटिपुत्रः प्रबोध्यताम् ॥
ततस्ता द्योतयंत्यश्च विभूत्यो गर्भमूचिंरे ॥२२॥
महामते मांटिपुत्र न धार्यं ते भयं हृदि ॥
चत्वारस्त्वां हि धर्माद्या मनस्त्यक्ष्यामहे न ते ॥२३॥
ततोऽपरास्त्वधर्माद्याः प्रोचुर्नैव तथा वयम् ॥
भविष्यामो मनस्तुभ्यमस्मत्तव भयं न हि ॥२४॥
इत्युक्ते स विभूतीभिः शीघ्रमेव कुमारकः ॥
निःससार बहिर्जातश्चकंपेति रुरोद च ॥२५॥
ततो विभूतयः प्राहुर्मांटे तव सुतस्त्वसौ ॥
अद्यापि कालमार्गस्य भीतः कम्पति रोदिति ॥२६॥
कालभीतिरिति ख्यातस्तस्मादेष भविष्यति ॥
इति दत्त्वा वरं ताश्च महादेवांतिकं ययुः ॥२७॥
सोऽपि बालः प्रववृधे शुक्लपक्ष इवोडुपः ॥
संस्कृतः स च संस्कारैर्धीमान्पशुपतिव्रती ॥२८॥
पंचमंत्राञ्जपञ्छुद्धस्तीर्थयात्रापरोऽभवत् ॥
रुद्रक्षेत्रेषु सस्नौ स जपन्मन्त्रांश्च भारत ॥२९॥
कालभीतिगुप्तक्षेत्रगुणाञ्छ्रुत्वाभ्युपाययौ ॥
स्नात्वा ततो महीतोये जप्त्वा मन्त्रांश्च कोटिशः ॥३०॥
निवृत्तो नातिदूरेथ बिल्ववृक्षं ददर्श सः ॥
दृष्ट्वा तं तस्य चाधस्तल्लक्षमेकं जजाप सः ॥३१॥
जपतस्तस्य विप्रस्य इंद्रियाणि लयं ययुः ॥
केवलं परमानंदस्वरूपोऽसावभूत्क्षणात् ॥३२॥
तस्यानंदस्य नौपम्यं स्वर्गादीनां भवेत्क्वचित् ॥
गंगोदकस्येव मानं केवलं सोऽप्यसावपि ॥३३॥
तत्र लीनो मुहुर्तेन पुनश्चाभूद्यथा पुरा ॥
ततो विसिष्मिये पार्थ कालभीतिरुवाच ह ॥३४॥
नायं मम महानन्दो वाराणस्यां न नमिषे ॥
न प्रभासे न केदारे न चाप्यमरकण्टके ॥३५॥
श्रीपर्वते न चान्यत्र यादृशोद्यप्रवर्त्तते ॥
निर्विकाराणि स्वच्छानि गंगांबांसीवखानि मे ॥३६॥
भूतेषु परमा प्रीतिस्त्रिजगद्द्योतते स्फुटम् ॥
धर्ममेकं परं मह्यं चेतश्चाप्यवगच्छति ॥३७॥
अहो स्थानप्रभावोऽयं स्फुटं चाप्यत्र प्रोच्यते ॥
निर्दोषं यच्छुचि स्तान सर्वोपद्रववर्जितम् ॥३८॥
तत्र स्थितस्य धर्मार्थस्तद्वद्भूयात्सहस्रधा ॥
तदस्माच्च प्रभावाद्धि जानामीतः स्वचेतसि ॥३९॥
विशिष्टं काशिमुख्येभ्यस्तीर्थेभ्यः स्थानकं त्विदम् ॥
तस्मादत्रैव संस्थोहं तपस्तप्स्यामि पुष्कलम् ॥४०॥
इदं चेदं तीर्थमिति सदा यस्तृषितश्चरेत् ॥
न स सिद्धिमवाप्नोति क्लेशेनैव म्रियेत सः ॥४१॥
इति संचिंत्य बिल्वस्य वृक्षस्याधो व्यवस्थितः ॥
जजाप मन्त्रान्रुद्रस्य अंगुष्ठाग्रेण धिष्ठितः ॥४२॥
गृहीत्वा नियमं तोयबिंदुं वर्षशतेऽग्निवत् ॥
ततो वर्षशते याते जपतस्तस्य भारत ॥४३॥
कश्चित्तोयभृतं कुम्भं गृहीत्वा नर आव्रजत् ॥
सतं प्रणम्य प्राहेदं कालभीतिं प्रहर्षतः ॥४४॥
अद्य ते नियमः पूर्णस्तोयमेतन्महामते ॥
गृहाण सफलं मह्यं श्रमं कर्तुमिहार्हसि ॥४५॥
 ॥कालभीतिरुवाच ॥
को भवान्वर्णतो ब्रूहि किमाचारश्च तत्त्वतः ॥
जन्माचारौ विदित्वा ते ग्रहीष्याम्यन्यथा न हि ॥४६॥
 ॥नर उवाच ॥
न जाने पितरौ स्वीयौ नष्टौ वा सर्वथा न हि ॥
एवमेवापि पश्यामि सर्वदाऽहं स एव च ॥४७॥
आचारैश्चापि धर्मैश्च न कार्यं मम किंचन ॥
तस्माद्वक्ष्यामि नाप्येतन्न चाप्यस्मि समाचरे ॥४८॥
 ॥कालभीतिरुवाच ॥
यद्येवं नोदकं तुभ्यं ग्रहीष्याम्यस्मि कर्हिचित् ॥
श्रृणुष्वात्र वचो यन्मे गुरुराह श्रुतीरितम् ॥४९॥
न ज्ञायते कुलं यस्य बीजशुद्धिं विना ततः ॥
तस्य खादन्पिबन्वापि साधुः सीदति तत्क्षणात् ॥५०॥
यश्च रुद्रं न जानाति रुद्रभक्तश्च यो नहि ॥
अन्नोदकं तस्य भुञ्जन्पातकी स्यान्न संशयः ॥५१॥
अज्ञात्वा यः शिवं भुंक्ते कथ्यते सोऽत्र ब्रह्महा ॥
मार्ष्टि च ब्रह्महान्नादे तस्मात्तस्य न भक्षयेत् ॥५२॥
गंगोदकुम्भः स्याद्यद्वत्तन्मध्ये मद्यबिंदुना ॥
अशिवज्ञस्य यो भुंक्ते शिवज्ञोऽपि तथैव सः ॥५३॥
हीनवर्णश्च यः स्याद्धि शिवभक्तोऽपि नैव सः ॥
प्रतिगृह्यौ गुणौ तस्माद्विलोक्यौ द्वौ प्रतिग्रहे ॥५४॥
 ॥नर उवाच ॥
एतेन तव वाक्येन हास्यं संजायते मम ॥
अहो मुग्धोऽसि मिथ्या त्वमपस्मारी जडोऽपि च ॥५५॥
सदा सर्वेषु भूतेषु शिवो वसति नित्यशः ॥
साध्वसाधु ततो वाक्यं नैव निन्दा शिवस्य सा ॥५६॥
आत्मनश्च परस्यापि यः करोत्यंतरो हरम् ॥
तस्य भिन्नदृशो मृत्युर्विदधे भयमुल्बणम् ॥५७॥
अथवा का हि पानीये भवेदशुचिता वद ॥
मृत्तिकोद्भवकुम्भोऽयं पावकेनापि पाचितः ॥५८॥
पूर्णश्च पयसा कस्मिन्नेषामशुचिता कुतः ॥५९॥
अथ चेन्मम संसर्गादशुचित्वं च मीयते ॥
तदस्यां संस्थितः पृथ्व्यामहंत्वं च कुतो वद ॥६०॥
कुतः पृथिव्यां चरसि खे त्वं नैव चरस्युत ॥
एवं विचार्यमाणे ते भाषितं मुग्धवद्भवेत् ॥६१॥
 ॥कालभीतिरुवाच ॥
सर्वभूतेषु चेदेवं शिव एवेति चोच्यते ॥
नास्तिकां मृत्तिका कस्माद्भक्षयंति नभस्यके ॥६२॥
शुद्ध्यर्थं तेन विश्वस्य स्थापिता संस्थितिर्यथा ॥
फलेन पालिता सा च नान्यथा तां श्रृणुष्व च ॥६३॥
ससर्जेति पुरा धाता रूपात्मकमिदं जगत् ॥
तच्च नामप्रपञ्चेन बद्धं दाम्ना च गौर्यथा ॥६४॥
स च नामप्रपञ्चस्तु चतुर्द्धा भिद्यते किल ॥
ध्वनिर्वर्णाः पदं वाक्यमित्यास्पदचतुष्टयम् ॥६५॥
तत्र ध्वनिर्नादमयो वर्णाश्चाकारपूर्वकाः ॥
पदं `श वमि' ति प्रोक्तं वाक्यं चेति शिवं' भजेत् ॥६६॥
तच्चापि वाक्यं त्रिविधं भवेदिति श्रुतेर्मतम् ॥
प्रभुसम्मतमेकं च सुहृत्संमतमेव च ॥६७॥
कांतासंमतमेवापि वाक्यं हि त्रिविधं विदुः ॥
प्रभुः स्वामी यथा भृत्यमादिशत्येतदाचर ॥६८॥
तथा श्रुतिस्मृती चोभे प्राहतुः प्रभुसंमतम् ॥
इतिहासपुराणादि सुहृत्संमतमुच्यते ॥६९॥
सुहृद्वत्प्रतिबोध्यैनं प्रवर्तयति तत्त्वतः ॥
काव्यालापादिकं यच्च कांतासंमतमुच्यते ॥७०॥
प्रभुवाक्यं स्मृतं यच्च सबाह्याभ्यंतरं शुचि ॥
सुहृद्वाक्यं तथा शौचं पालयेत्स्वर्गकांक्षया ॥७१॥
तदेतत्पालनीयं स्याद्भूमिजानां श्रुतिर्वदेत् ॥
त्वया नास्तिक्यवाक्येन चेदेतदभिधीयते ॥७२॥
एतेन श्रुतिशास्त्राणि पुराणं च वृतैव किम् ॥
अग्रे सप्तर्षिपूर्वा ये ब्राह्मणाः क्षत्रिया भवन् ॥७३॥
मुग्धाः सर्वेऽभवन्दक्षा ये हि वेदं गता ह्यनु ॥
तथा वेदांतवचनं सत्त्वस्था ह्यूर्ध्वगामिनः ॥७४॥
तिष्ठंति राजसा मध्ये ह्यधो गच्छंति तामसाः ॥
सत्त्वाहारैः सत्त्ववृत्त्या स्वर्गगामी भवेत्ततः ॥७५॥
न चैतदप्य सूयामो यद्भूतेषु शिवो न हि ॥
अस्त्येव सर्वभूतेषु श्रृण्वत्राप्युपमानकम् ॥७६॥
यथा सुवर्णजातानि भूषणानि बहूनि च ॥
कानिचिच्छुद्धरूपाणि हीनरूपाणि कानिचित् ॥७७॥
स्वर्णं सर्वेषु चास्त्येव तथैव स सदाशिवः ॥
हीनरूपं शोधितं सच्छुद्धिमेति न चैकताम् ॥७८॥
तथेदं शोधितं देहं शुद्धं दिवि व्रजेत्स्फुटम् ॥
तस्मात्सर्वात्मना हीनान्न ग्राह्यं बत धीमता ॥७९॥
चेदिदं शोधयेद्देहं नैव ग्राह्यं समंततः ॥
सर्वतो यः प्रतिग्राही निहाराहारयोर्न च ॥८०॥
शुचिः स्यादल्पदिवसात्पाषाणोऽसौ भवेत्स्फुटम् ॥
तस्मात्सर्वात्मना नैव ग्रहीष्येहं जलं स्फुटम् ॥८१॥
साधुवाप्यथवाऽसाधु प्रमाणं नः श्रुतिः परा ॥
एवमुक्ते स च नरः प्रहसन्दक्षिणेन च ॥८२॥
अंगुष्ठेन लिखन्भूमिं चक्रे गर्तं महोत्तमम् ॥
तत्र चिक्षेप तत्तोयं तेन गर्तः स्म पूरितः ॥८३॥
अत्यरिच्यत तोयं च चक्रे पादेन संलिखन् ॥
चक्रे सरः पूरितं चाप्यतिरिक्तजलेन तत् ॥८४॥
तदद्भुतं महद्दृष्ट्वा नैव विप्रो विसिष्मिये ॥
यतो बहुविधं चित्रं भवेद्भूताद्युपासिषु ॥८५॥
तच्चित्रेण न जह्याच्च श्रुतिमार्गं सनातनम् ॥८६॥
 ॥नर उवाच ॥
अतिमूर्खोसि विप्र त्वं प्रज्ञावादांश्च भाषसे ॥
किं न श्रुतस्त्वया श्लोकः पुराविद्भिरुदीरितः ॥
कूपोन्यस्य घटोऽन्यस्य रज्जुरन्यस्य भारत ॥८७॥
पायंत्यन्ये पिबंत्यन्ये सर्वे ते समभागिनः ॥
तज्जलं मम कस्मात्त्वं धर्मज्ञो न पिबस्यसि ॥८८॥
॥ नारद उवाच ॥
ततो विममृशे श्लोको बहुधा समभागिनाम् ॥
अनिश्चयाद्विचार्यासौ घटाद्यैः समभागिता ॥८९॥
बहुपोतद्रव्यक्षेपः सर्वैः सा समभागिता ॥
एवं कर्तुः फलैः सर्वैः समं स्याच्च पुनःपुनः ॥९०॥
यः शुचिश्च शिवं ध्यायन्प्रासादकूपकर्तरि ॥
जलप्रतिग्रहाभावात्पिबतोऽस्य समं फलम् ॥९१॥
इति निश्चित्य प्रोवाच कालभीतिर्नरं च तम् ॥
सत्यमेत्किं तु कुंभपयसा गर्तपूरणे ॥९२॥
दृष्ट्वा प्रत्यक्षतो मादृक्कथं पिबति भो वद ॥
साधु वाप्यथवाऽसाधु न पिबेयं कथंचन ॥९३॥
एवं विनिश्चयं दृष्ट्वास्य स्थिरं कुरुनंदन ॥
पुरुषोऽसौ प्रहस्यैव क्षणादंतर्दधे ततः ॥९४॥
कालभीतिश्च परमं विस्मयं समुपागतः ॥
वृत्तांतः कोयमित्येव चिंतयामास भूयसा ॥९५॥
ततश्चिंतयतस्तस्य बिल्वाधस्तात्सुशोभनम् ॥
उच्छ्रितं सुमहालिंगं पृथिव्या द्योतयद्दिशः ॥९६॥
प्रादुर्भावे ततस्तस्य महालिंगस्य भारत ॥
ननर्त खेप्सरोवृंदं गधर्वा ललितं जगुः ॥९७॥
पारिजातमयीं पुष्पवृष्टिमिंद्रो मुमोच ह ॥
जयेति देवा मुनयस्तुष्टुवुर्विविधैः स्तवैः ॥९८॥
तस्मिन्महति कौरव्य वर्तमाने महोत्सवे ॥
कालभीतिः प्रमुदितः प्रणम्य स्तोत्रमैरयत् ॥९९॥
पापस्य कालं भवपंककालं कलाकलं कालमार्गस्य कालम् ॥
देवं महाकालमहं प्रपद्ये श्रीकालकंठं भवकालरूपम् ॥१००॥
ईशानवक्त्रं प्रणमामि त्वाहं स्तौति श्रुतिः सर्वविद्येश्वरस्त्वम् ॥
भूतेश्वरस्त्वं प्रपितामहस्त्वं तस्मै नमस्तेस्तु महेश्वराय ॥१०१॥
यं स्तौति वेदस्तमहं प्रपद्ये तत्पुरुषसंज्ञं शरणं द्वितीयम् ॥
त्वां विद्महे तच् नस्त्वं प्रदेहि श्रीरुद्र देवेश नमोनमस्ते ॥१०२॥
अघोरवक्त्रं त्रितयं प्रपद्ये अथर्वजुष्टं तव रूपकाणि ॥
अघोरघोराणि च घोरघोराण्यहं सदानौमि भूतानि तुभ्यम् ॥१०३॥
चतुर्थवक्त्रं च सदा प्रपद्ये सद्योभिजाताय नमोनमस्ते ॥
भवेभवेनादिभवो भवस्व भवोद्भवो मां शिव तत्रतत्र ॥१०४॥
नमोस्तु ते वामदेवाय ज्येष्ठरुद्राय कालाय कलाविकारिणे ॥
बलंकरायापि बलप्रमाथिने भूतानि हंत्रे च मनोन्मनाय ॥१०५॥
त्रियंबकं त्वां च यजामहे वयं सुपुण्यगंधैः शिवपुष्टिवर्धनम् ॥
उर्वारुकं पक्वमिवोग्रबंधनाद्रक्षस्व मां त्र्यंबक मृत्युमार्गात् ॥१०६॥
षडक्षरं मंत्रवरं तवेश जपंति ये मुनयो वीतरागाः ॥
तेषां प्रसन्नोऽसि जपामहेतं त्वोंकारपूर्वं च नमः शिवाय ॥१०७॥
एवं स्तुतो महादेवो लिंगान्निःसृत्य भारत ॥
त्रिजगद्द्योतयन्मभासा प्रत्यक्षः प्राह च द्विजम् ॥१०८॥
यत्त्वयात्र महातीर्थे भृशमाराधितो द्विज ॥
तेनाति तुष्टस्ते वत्स नेशः कालः कथंचन ॥१०९॥
अहं च नररूपी यो दृष्ट्वा ते धर्मसंस्थितिम् ॥
धन्यस्तद्धर्ममार्गोऽयं पाल्यते यद्भवद्विधैः ॥११०॥
सर्वतीर्थोदकैर्गरतः पूरितो मे सरस्तथा ॥
जलमेतन्महापुण्यं त्वदर्थं मे समाहृतम् ॥१११॥
सप्तमंत्ररहस्यं च यत्कृतं स्तवनं मम ॥
अनेन पठ्यमानेन सप्तमंत्रफलं भवेत् ॥११२॥
अभीष्टं च वरं मत्तो वृणीष्व मनसेप्सितम् ॥
त्वयातितोषितो ह्यस्मिनादेयं विद्यते तव ॥११३॥
 ॥कालभीतिरुवाच ॥
धन्योऽस्म्यनुगृहीतोऽस्मि यत्त्वं तुष्टोऽसि शंकर ॥
त्वत्तोषात्सफला धर्माः श्रमायैवान्यतामताः ॥११४॥
यदि तुष्टोऽसि सांनिद्यं लिंगेऽत्र क्रियतां सदा ॥
अक्षयं तत्कृतं चास्तु यल्लिंगे क्रियतेऽत्र च ॥११५॥
जपतो यत्फलं देवपंचमंत्रायुतेन च ॥
तत्फलं जायतां नणामस्य लिंगस्य दर्शने ॥११६॥
कालमार्गादहं यस्मान्मोचितोऽहं महेश्वर ॥
महाकालमिति ख्यातं लिंगं तस्माद्भवत्विदम् ॥११७॥
अस्मिंश्च कूपे यो मर्त्यः स्नात्वा तर्पयते पितॄन् ॥
सर्वतीर्थफलं चास्तु पितॄणामक्षया गतिः ॥११८॥
इति तस्यवचः श्रुत्वा प्रीतस्तं शंकरोऽब्रवीत् ॥
स्वायंभुवं यत्र लिंगं तत्र नित्यं वसाम्यहम् ॥११९॥
स्वयंभुबाणरत्नोत्थदातुपाषाणलोहजम् ॥
लिंगं क्रमेण फलदमंत्यात्पूर्वं दशोत्तरम् ॥१२०॥
आकाशे तारकालिंगं पाताले हाटकेश्वरम् ॥
स्वायंभुवं धारपृष्ठे तदेतत्त्रितयं समम् ॥१२१॥
विशेषात्प्रार्थितं यच्च तच्च भविष्यति ॥
अत्र पुष्पं फलं पूजा नैवेद्यं स्तवनक्रिया ॥१२२॥
दानं वान्यश्च यत्किंचिदक्षयं तद्भविष्यति ॥
माघासितचतुर्दश्यां शिवयोगे च पुत्रक ॥१२३॥
लिंगाच्च पूर्वतः कूपेस्नात्वा यस्तर्पयेत्पितॄन् ॥
सर्वतीर्थफलावाप्तिः पितॄणां चाक्षया गतिः ॥१२४॥
तस्यां रात्रौ महाकालं यामेयामे प्रपूजयेत् ॥
यः क्षिपेत्सर्वलिंगेषु स जागरफलं लभेत् ॥१२५॥
जितेंद्रियश्च यो नित्यं मां लिंगेत्र प्रपूजयेत् ॥
भुक्तिमुक्ती न दूरस्थे तस्य नित्यं द्विजोत्तम ॥१२६॥
माघे चतुर्दश्यष्टम्यां सोमवारे च पर्वणि ॥
स्नात्वा सरसि योऽभ्यर्च्य लिंगमेतच्छिवं व्रजेत् ॥१२७॥
दानं तपो रुद्रजापः सर्वमक्षयमेव च ॥
त्वं च नन्दी द्वितीयो मे प्रतीहारो भविष्यसि ॥१२८॥
कालमार्गजयाद्वत्स महाकाला भिधश्चिरम् ॥
करंधमोऽत्र राजर्षिरचिरादागमिष्यति ॥१२९॥
तस्य प्रोच्य भवान्धर्मांस्ततो मल्लोकमाव्रज ॥
इत्युक्त्वा भगवान्रुद्रो लिंगमध्ये न्यलीयत ॥१३०॥
महाकालोऽपि मुदितस्तत्र तेपे महत्तपः ॥१३१॥
 ॥इति महाकालप्रादुर्भावः ॥
॥ नारद उवाच ॥
अथ केनापि कालेन पार्थ राजा करंधमः ॥
विशेषमिच्छुर्धर्मेषु श्रुत्वा तीर्थमहागुणान् ॥१३२॥
महाकालचरित्रं च तत्रैव समुपाययौ ॥
महीसागर तोयेऽसौ स्नात्वा लिंगान्यथार्चयत् ॥१३३॥
महाकालमनुप्राप्य परमां प्रीतिमागतः ॥
स पश्यन्सुमहालिंगं नातृप्यत जनेश्वरः ॥१३४॥
यथा दरिद्रः कृपणो निधिकुम्भमवाप्य च ॥
सफलं जीवितं मेने महाकालं निरीक्ष्य सः ॥१३५॥
पंचमंत्रायुतजपफलं यस्येह दर्शनात् ॥
ततः सपर्ययाक्ष्यर्च्य महत्यासौ प्रणम्य च ॥१३६॥
श्रुत्वा च लिंगप्रवरं महाकालमुपासदत् ॥
ततो रुद्रवचः स्मृत्वा महाकालः स्मयन्निव ॥१३७॥
प्रत्युद्गम्य नृपं पूजामर्घं च प्रत्यपादयत् ॥
ततः कुशलप्रश्नादि कृत्वा शांतमुखं नृपः ॥१३८॥
महाकालमुपामंत्र्य कथांते वाक्यमब्रवीत् ॥
भगवन्संशयो मह्यं सदाऽयं परिवर्तते ॥१३९॥
यदिदं तर्पणंनाम पितॄणां क्रियते नृभिः ॥
जलमध्ये जलं याति कथं तृप्यंति पूर्वजाः ॥१४०॥
एवं पिंडादिपूजा च सर्वमत्रैव दृश्यते ॥
कथमेवं स्म मन्यामः पित्राद्यैरुपभुज्यते ॥१४१॥
न चैतदस्ति यत्तेषां नोपतिष्ठति किंचन ॥
स्वप्ने यथाक्रम्य नरं दृश्यंते याचकाश्च ते ॥१४२॥
देवानां चापि दृश्यंते प्रत्यक्षाः प्रत्ययाः सदा ॥
तत्कथं प्रतिगृह्णन्ति मनो मेऽत्र प्रमुह्यति ॥१४३॥
 ॥महाकाल उवाच ॥
योनिरेवंविदा तेषां पितॄणां च दिवौकसाम् ॥
दूरोक्तं दूरपूजा च दूरस्तुतिरथापि यत् ॥१४४॥
भव्यं भूतं भविष्यच्च सर्वं जानंति यांति च ॥
पंचतन्मात्ररूपं च मनोबुद्धिरहंजडाः ॥१४५॥
नवतत्त्वमयं देहं दशमः पुरुषो मतः ॥
तस्माद्गंधेन तृप्यंति रसतत्त्वेन ते तथा ॥१४६॥
शब्दतत्त्वेन तुष्यंति स्पर्शतत्त्वं च गृह्णते ॥
शुचि दृष्ट्वा त तुष्यंति नात्र राजन्भवेन्मृषा ॥१४७॥
यथा तृणं पशूनां च नराणामन्नमुच्यते ॥
एवं दैवतयोनीनामन्नसारस्य भोजनम् ॥१४८॥
शक्तयः सर्वभावानामचिंत्या ज्ञानगोचराः ॥
तस्मात्तत्त्वं प्रगृह्णन्ति शेषमत्रैव दृश्यते ॥१४९॥
 ॥करंधम उवाच ॥
पितृभ्यो दीयते श्राद्धं स्वकर्मवशगाश्च ते ॥
स्वर्गस्था नरकस्था वा कथं तैरुपभुज्यते ॥१५०॥
अथ स्वर्गेऽथ नरेक स्थिताः कर्माभियंत्रिताः ॥
शक्नुवंति वरानेतान्दातुं ते चेश्वराः कथम् ॥१५१॥
आयुः प्रजां धनं विद्यां स्वर्गं मोक्षं सुकानि च ॥
प्रयच्छन्तु तथा राज्यं प्रीता नॄणां पितामहाः ॥१५२॥
 ॥महाकाल उवाच ॥
सत्यमेततस्वकर्मस्थाः पितरो यन्नृपोत्तम ॥
किं तु देवासुराणां च यक्षादीनाममूर्तकाः ॥१५३॥
मूर्ताश्चतुर्णां वर्णानां पितरः सप्तधा स्मृताः ॥
ते हि सर्वे प्रयच्छंति दातुं सर्वं यतोप्सितम् ॥१५४॥
एकत्रिंशद्गणा येषां पितॄणां प्रबला नृप ॥
कृतं च तदिदं श्राद्धं तर्पयेत्तान्परान्पितॄन् ॥१५५॥
ते तृप्तास्तर्पयन्त्यस्य पूर्वजान्यत्र संस्थितान् ॥
एवं स्वानां चोपतिष्ठेच्छ्राद्धं यच्छंति ते वरान् ॥१५६॥
 ॥राजोवाच ॥
भूतादिभ्यो यथा विप्र नाम्ना वोद्दिश्य दीयते ॥
सुरादीनां कथं चैव संक्षेपेण न दीयते ॥१५७॥
इदं पितृभ्यो देवेभ्यो द्विजेभ्यः पावकाय च ॥
एवं कस्माद्विस्तराः स्युर्मनः कायादिकष्टदाः ॥१५८॥
 ॥महाकाल उवाच ॥
उचिता प्रतिपत्तिश्च कार्या सर्वेषु नित्यशः ॥
प्रतिपत्तिं चोचितां ते विना गृह्णन्ति नैव च ॥१५९॥
यथा श्वा गृहद्वारस्थो बलिं गृह्णाति किं तथा ॥
प्रधानपुरुषो राजन्गृह्णाति च शुना समः ॥१६०॥
एवं ते भूतवद्देवा न हि गृह्णन्ति कर्हिचित् ॥
शुचि कामं जुषंते न हविरश्रद्दधानतः ॥१६१॥
विना मंत्रैश्च यद्दत्तं न तद्गृह्णन्ति तेऽमलाः ॥
श्रुतिरप्यत्र प्राहेदं मंत्राणां विषये नृप ॥१६२॥
"मंत्रा दैवता यद्यद्विद्वान्मन्त्रवत्करोति देवताभिरेव तत्करोति यद्ददानि देवताभिरेव तद्ददाति यत्प्रतिगृह्णाति देवताभिरेव तत्प्रतिगृह्णाति तस्मान्नामन्त्रवत्प्रतिगृह्णीयात् नामन्त्रवत्प्रतिपद्यते" इति ॥१६३॥
तस्मान्मंत्रैः सदा देयं पौराणैर्वैदिकैरपि ॥
अन्यथा ते न गृह्णन्ति भूतानामुपतिष्ठति ॥१६४॥
 ॥राजोवाच ॥
दर्भांस्तिलानक्षतांश्च तोयं चैतैः सुसंयुतम् ॥
कस्मात्प्रदीयते दानं ज्ञातुमिच्छामि कारणम् ॥१६५॥
 ॥महाकाल उवाच ॥
पुरा किल प्रदत्तानि भूमेर्दानानि भूरिशः ॥
प्रत्यगृह्णन्त दैत्याश्च प्रविश्याभ्यंतरं बलात् ॥१६६॥
ततो देवाश्च पितरः प्रत्यूचुः पद्मसंभवम् ॥१६७॥
स्वामिन्नः पश्यतामेव सर्वं दैत्यैः प्रगृह्यते ॥
विधेहि रक्षां तेषां त्वं न नष्टः स्मो यथा वयम् ॥१६८॥
ततो विमृश्यैव विधी रक्षोपायमचीकरत् ॥
तिलैर्युक्तं पितॄणां च देवानामक्षतैः सह ॥१६९॥
तोयं दर्भांश्च सर्वत्र एवं गृह्णन्ति नासुराः ॥
एतान्विना प्रदत्तं यत्फलं दैत्यैः प्रगृह्यते ॥१७०॥
निःश्वस्य पितरो देवा यांति दातुः फलं न हि ॥
तस्माद्युगेषु सर्वेषु दानमेव प्रदीयते ॥१७१॥
 ॥करंधम उवाच ॥
चतुर्युगव्यवस्थानं श्रोतुमिच्छमि तत्त्वतः ॥
महतीयं विवित्सा मे सदैव परिवर्तते ॥१७२॥
 ॥महाकाल उवाच ॥
आद्यं कृतयुगं विद्धिततस्त्रेतायुगं स्मृतम् ॥
द्वापरं च कलिश्चेति चत्वारश्च समासतः ॥१७३॥
सत्त्वं कृतं रजस्त्रेता द्वापरं च रजस्तमः ॥
कलिस्तमस्तु विज्ञेयं युगवृत्तं युगेषु च ॥१७४॥
ध्यानं परं कृतयुगे त्रेतायां यज्ञ उच्यते ॥
वृत्तं च द्वापरे सत्यं दानमेव कलौ युगे ॥१७५॥
कृते तु मानसी सृष्टिर्वृत्तिः साक्षाद्रसोल्लसा ॥
तेजोमय्यः प्रजास्तृप्ताः सदानंदाश्च भोगिनः ॥१७६॥
अधमोत्तमो न तासां ता निर्विशेषाः प्रजाः शुभाः ॥
तुल्यमायुः सुखं रूपं तासां तस्मिन्कृते युगे ॥१७७॥
न चाप्रीतिर्न च द्वंद्वो न द्वेषो नापि च क्लमः ॥
पर्वतोदधिवासिन्यो ह्यनुक्रोशप्रियास्तु ताः ॥१७८॥
वर्णाश्रमव्यवस्था च तदासीन्न हि संकरः ॥
एकमन्यं न ध्यायंति परमं ते सदा शिवम् ॥१७९॥
चतुर्थे च ततः पादे नष्ट साऽभूद्रसोल्लसा ॥
प्रादुरासंस्ततस्तासां वृक्षाश्वगृहसंज्ञिताः ॥१८०॥
वस्त्राणि च प्रसूयंते फलान्याभरणानि च ॥
तेष्वेव जायते तासां गंधवर्णरसान्वितम् ॥१८१॥
सुमाक्षिकं महावीर्यं पुटके पुटके मधु ॥
तेन ता वर्तयंति स्म कृतस्यांते प्रजास्तदा ॥१८२॥
हृष्टपुष्टास्तथा वृद्धाः प्रजा वै विगतज्वराः ॥
ततः कालेन केनापि तासां वृद्धे रसेंद्रिये ॥१८३॥
युगभावात्तथा ध्याने स्वल्पीभूते शिवस्य च ॥
वृक्षांस्तान्पर्यगृह्णंत मधु वा माक्षिकं बलात् ॥१८४॥
तासां तेनोपचारेण लोभदोषकृतेन वै ॥
प्रनष्टा मधुना सार्धं कल्पवृक्षाः क्वचित्क्वचित् ॥१८५॥
तस्यां चाप्यल्पशिष्टायां द्वंद्वान्यभ्युत्थितानि वै ॥
शीतातपैर्मनोदुःखैस्ततस्ता दुःखिता भृशम् ॥१८६॥
चक्रुरावरणार्थं हि केतनानि ततस्ततः ॥
ततः प्रदुर्बभौ तासां सिद्धिस्त्रेतायुगे पुनः ॥१८७॥
वृष्ट्या बभूवुरौषध्यो ग्राम्यारण्याश्चतुर्दश ॥
अकृष्टपच्यानूप्तास्तोयभूमिसमागमात् ॥१८८॥
ऋतु पुष्पफलैश्चैव वृक्षगुल्माश्च जज्ञिरे ॥
तैश्च वृत्तिरभूत्तासां धान्यैः पुष्पैः फलैस्तथा ॥१८९॥
ततः पुनरभूत्तासां रागो लोभश्च सर्वतः ॥
कालवीर्येण वा गृह्य नदीक्षेत्राणि पर्वतान् ॥१९०॥
वृक्षगुल्मौषधीश्चैव प्रसह्याशु यथाबलम् ॥
विपर्ययेण चौषध्यः प्रनष्टाश्च चतुर्दश ॥१९१॥
नत्वा धरां प्रविष्टास्ता ओषध्यः पीडिताः प्रजाः ॥
दुदोह गां पृथुर्वैन्यः सर्वभूतहिताय वै ॥१९२॥
तदा प्रभृति चौषध्यः फालकृष्टाः प्रजास्ततः ॥
वार्त्तया वर्तयंति स्म पाल्यमानाश्च क्षत्रियैः ॥१९३॥
वर्णाश्रमप्रतिष्ठा च यज्ञस्त्रेतासु चोच्यते ॥
सदाशिवध्यानमयं त्यक्त्वा मोक्षमचेतनाः ॥१९४॥
पुष्पितां वाचमाश्रित्य रागात्स्वर्गमसाधयन् ॥
द्वापरे च प्रवर्तंते मतिभेदास्ततो नृणाम् ॥१९५॥
मनसा कर्मणा वाचा कृच्छ्राद्वार्ता प्रसिध्यति ॥
लोभोऽधृतिः शिवं त्यक्त्वा धर्माणां संकरस्तथा ॥१९६॥
वर्णाश्रमपरिध्वंसाः प्रवर्तंते च द्वापरे ॥
तदा व्यासैश्चतुर्द्धा च व्यस्यते द्वापरात्ततः ॥१९७॥
एको वेदश्चतुष्पादैः क्रियते द्विजहेतवे ॥
इतिहासपुराणानि भिद्यंते लोकगौरवात् ॥१९८॥
ब्राह्मं पाद्मं वैष्णवं च शैवं भागवतं तथा ॥
तथान्यन्नारदीय च मार्कंडेयं च सप्तमम ॥१९९॥
आग्नेयमष्टमं प्रोक्तं भविष्यं नवमं स्मृतम् ॥
दशमं ब्रह्मवैवर्तं लैंगमेकादशं तथा ॥२००॥
वाराहं द्वादशं चैव स्कांदं चैव त्रयोदशम् ॥
चतुर्दशं वामनं च कौर्मं पंचदशं स्मृतम् ॥२०१॥
मात्स्यं षोडशकं प्रोक्तं गारुडं च ततः परम् ॥
अतः परं तु ब्रह्मांडमेवञ्चाष्टादशानि हि ॥२०२॥
अस्मिन्वाराहकल्पे च व्यासानाकर्णयस्व च ॥
ऋतुः सत्यो भार्गवश्च अंगिराः सविता तथा ॥२०३॥
मृत्युः शतक्रतुर्धीमान्वसिष्ठो भविताऽधुना ॥
सारस्वतस्त्रिधामा च वेदवित्त्रिवृतो मुनिः ॥२०४॥
शततेजाः स्वयं विष्णुर्नारायण इति स्मृतः ॥
करकश्चारुणिर्धीमास्तथा देव ऋतंजयः ॥२०५॥
कृतंजयो भरद्वाजो गौतमः कविसत्तमः ॥
वाजश्रवा मुनिश्चैव तथा युष्मायणो मुनिः ॥२०६॥
तृणबिंदुस्तथा ऋक्षः शक्तिः पाराशरस्तथा ॥
जातूकर्ण्योऽथ विष्णुश्च स्वयंद्वैपायनो मुनिः ॥२०७॥
अश्वत्थाममुखाश्चैते भविष्याः सूचितास्तव ॥
धर्मशास्त्राणि लोकार्थं भिद्यंते चापि द्वापरे ॥२०८॥
मन्वत्रिविष्णुहारितयाज्ञवल्क्योशनोंगिराः ॥
यमापस्तंबसंवर्ताः कात्यायनबृहस्पती ॥२०९॥
पराशरव्यासशंखलिखिता दक्षगौतमौ ॥
शातातपो वसिष्ठश्च धर्मशास्त्रप्रयोजकाः ॥२१०॥
ततो द्वापरसंध्यायां प्रवर्तति कलौ युगे ॥
नश्यमाने शैवयोगे जायंते योगनंदनाः ॥२११॥
आद्ये श्वेतकलौरुद्रः सुतारस्तारणस्तथा ॥
सुहोत्रः कंकणश्चैव लोकाख्यश्च महामुनिः ॥२१२॥
जैगीषव्यश्च भाव्यो वै भगवान्दधिवाहनः ॥
ऋषभश्च मुनिर्धर्मउग्रश्चात्रिः सबालकः ॥२१३॥
गौतमौ वेदशीर्णश्च गोकर्णश्च शिखंडिभृत् ॥
गृहावासी जटामाली अट्टहासश्च दारुणः ॥२१४॥
लांगली संयमी शूली डिंडी जुण्डीश्वरः स्वयम् ॥
सहिष्णुः सोमशर्मा च लकुलीशश्च पार्थिव ॥२१५॥
कायावरोहणो भावीत्याद्या योगेश्वराः क्रमात् ॥
एते संक्षिप्त वक्ष्यंति शिवधर्मं कलौ युगे ॥२१६॥
एवं कलियुगे राजञ्छास्त्रसंक्षेप उच्यते ॥
श्रृणु तिष्यप्रवृत्तिं च हर्षोद्वेगकरीं किल ॥२१७॥
तिष्ये मायामसूयां च वधं चैव तपस्विनाम् ॥
साधयंति नरास्तत्र तमसा व्याकुलेंद्रियाः ॥२१८॥
कलौ प्रमाथको रागः सततं क्षुद्भयानि च ॥
अनावृष्टिभयं घोरं देशानां च विपर्ययः ॥२१९॥
न प्रमाणं श्रुतेरस्ति नृणां चाधर्मसेवनात् ॥
अधार्मिकास्त्वनाचारा महाकोपाल्पतेजसः ॥२२०॥
अनृतं ब्रुवते लुब्धा नारीप्रायाश्च दुष्प्रजाः ॥
दुरिष्टैर्दुरधीतैश्च दुराचारैर्दुरागमैः ॥२२१॥
विप्राणां कर्मदोषैश्च प्रजानां जायते क्षयः ॥
उत्सीदंति क्षत्रविशो वर्धंते शूद्रविप्रकाः ॥२२२॥
शूद्रा विप्रैः सहासंते शयनासनभोजनैः ॥
शूद्राश्च ब्राह्मणाचाराः शूद्राचाराश्च ब्राह्मणाः ॥२२३॥
राजवृत्त्यां स्थिताश्चौराश्चौराचाराश्च पार्थिवाः ॥
एकपत्न्यो न शिष्यंति वर्धयंत्यभिसारिकाः ॥२२४॥
तदा ह्यल्पफला भूमिः क्वचिच्चापि महाफला ॥
अरक्षितारो हर्तारो राजानः पापनिर्भयाः ॥२२५॥
अक्षत्रियास्तु राजानो विप्राः शूद्रोपजीविनः ॥
शूद्रा विवादिनः सर्वे ब्राह्मणैरभिनंदिताः ॥२२६॥
आसनस्थान्द्विजान्दृष्ट्वा चलंत्यत्यल्पबुद्धयः ॥
आस्ये निधाय वै हस्तं कर्णे शूद्रास्य च द्विजाः ॥२२७॥
नीचस्यापि तदा वाक्यं वक्ष्यंति विनयेन तम् ॥
उच्चासनस्थाञ्छूद्रांश्च द्विजानां पश्यतामपि ॥२२८॥
ज्ञात्वा न हिंसते राजा पश्य कालबलं नृप ॥
पुष्पैः शुभसितैश्चैव तथान्यैर्मंडनैर्द्विजाः ॥२२९॥
शूद्रानभ्यर्चयंत्यल्पश्रुतभाग्यबलान्विताः ॥
पाषंडिनां च गृह्णंति ब्राह्मणाः कुप्रतिग्रहम् ॥२३०॥
येन ते रौरवं यांति सुदुस्तारं द्विजाधमाः ॥
तपोयज्ञफलानां च विक्रेतारो द्विजास्तथा ॥२३१॥
यतयश्च भविष्यंति बहवः कोटिशः कलौ ॥
पुरुषाल्पबहुस्त्रीको नृणां चापत्यसंभवः ॥२३२॥
निंदंति वेदवाक्यानि वेदार्थांश्च कलौ युगे ॥
शूद्रैः स्वयं निर्मितं यत्प्रमाणं शास्त्रमेव तत् ॥२३३॥
श्वापदप्रबलत्वं च गवां चापि परिक्षयः ॥
कस्यचिद्दानप्रभृतिधर्मस्यास्ति न शुद्धता ॥२३४॥
साधूनां बहवो नाशाः पार्थिवाश्चाप्यरक्षिणः ॥
अट्टशूला जनपदाः शिवशूलाश्चतुष्पथाः ॥२३५॥
प्रमदाः केशशूलिन्यो भविष्यंति कलौ युगे ॥
स्त्रीप्रधानानि गेहानि कुचैलास्ताश्च कर्कशाः ॥२३६॥
बहुभक्ष्यावलिप्ताश्च कृत्या इव भवंति च ॥
सर्वे वणिग्जनाश्चापि चित्रवर्षी च वासवः ॥२३७॥
कुशीलचर्यापाषंडैर्वृथारूपैः समावृतः ॥
बहुयाचनको लोको भविष्यति परस्परी ॥२३८॥
अशंकश्चैव पापेषु तदा लोको भविष्यति ॥
हर्तारः पररत्नानां परदारप्रधर्षकाः ॥२३९॥
ऊनषोडशवर्षाश्च प्रजायंते युगक्षये ॥
तथा द्वादशवर्षाश्च प्रसवंति स्त्रियस्तदा ॥२४०॥
चौराश्चौरस्य हर्तारो हर्तुर्हर्त्ता तथापरः ॥
ज्ञानकर्मण्युपरते लोके निष्क्रियतां गते ॥२४१॥
कीटमूषकसर्पाश्च धर्षयिष्यंति मानवान् ॥
वर्णाश्रमाणां ये चान्ये पाषंडाः परिपंथिनः ॥२४२॥
ते तदा प्रोद्भविष्यंति तेषआं वृद्धिश्च पार्थिव ॥
दुःखं पुत्रकलत्राद्यं देहोत्सादः सरोगता ॥२४३॥
अधर्माभिनिवेशत्वात्तमसो जायते कलौ ॥
कलेर्दोषनिधेश्चैव श्रृणुष्वैवं महागुणम् ॥२४४॥
तदाल्पेनैव काले न सिद्धिं गच्छंति मानवाः ॥
त्रियुगीना वदंत्येवं धन्या धर्मं चरंति ये ॥२४५॥
श्रुतिस्मृतिपुराणोक्तं कलौ श्रद्धापरायणाः ॥
त्रेतायां वार्षिको धर्मो द्वापरे मासिकः स्मृतः ॥२४६॥
यथा क्लेशं चरन्प्राज्ञस्तदह्ना प्राप्यते कलौ ॥
युगत्रयेण तावंतः सिद्धिं गच्छंति पार्थिवः ॥२४७॥
यावंतः सिद्धिमायांति कलौ हरिहरव्रताः ॥
अष्टाविंशे कलौ यच्च भावि तत्त्वं निबोध मे ॥२४८॥
त्रिषु वर्षसहस्रेषु कलेर्यातेषु पार्थिवः ॥
त्रिशतेषु दशन्यूनेष्वस्यां भुवि भविष्यति ॥२४९॥
शूद्रकोनाम वीराणामधिपः सिद्धिमत्र सः ॥
चर्चितायां समाराध्य लप्स्यते भूभरापहः ॥२५०॥
ततस्त्रिषु सहस्रेषु दशाधिकशतत्रये ॥
भविष्यं नंदराज्यं च चाणक्यो यान्हनिष्यति ॥२५१॥
शुक्लतीर्थे सर्वपापनिर्मुक्तिं योऽभिलप्स्यति ॥
ततस्त्रिषु सहस्रेषु विंशत्या चाधिकेषु च ॥२५२॥
भविष्यं विक्रमादित्यराज्यं सोऽथ प्रलप्स्यते ॥
सिदधिप्रसादाद्दुर्गाणां दीनान्यो ह्युद्धरिष्यति ॥२५३॥
ततः शतसहस्रेषु शतेनाप्यधिकेषु च ॥
शकोनाम भविष्यश्च योऽतिदारिद्र्यहारकः ॥२५४॥
ततस्त्रिषु सहस्रेषु षट्‌शतैरधिकेषु च ॥
मागधे हेमसदनादंजन्यां प्रभविष्यति ॥२५५॥
विष्णोरंशो धर्मपाता बुधः साक्षात्स्वयं प्रभुः ॥
तस्य कर्माणि भूरिणि भविष्यंति महात्मनः ॥२५६॥
ज्योतिर्बिदुमुखानुग्रान्स हनिष्यति कोटिशः ॥
चतुःषष्टिं स वर्षाणि भुक्त्वा द्वीपानि सप्त च ॥२५७॥
भक्तेभ्यः स्वयशो मुक्त्वा दिवं पश्चाद्गमिष्यति ॥
सर्वेषां चावताराणआं गुणैः समधिको यतः ॥२५८॥
ततो वक्ष्यंति तं भक्त्या सर्वपापहरं बुधम् ॥
चतुर्षु च सहस्रेषु शतेष्वपि चतुर्षु च ॥२५९॥
साधिकेषु महान्राजा प्रमितिः प्रभविष्यति ॥
गोत्रेषु वै चंद्रमसो बहुसेनापतिर्बली ॥२६०॥
म्लेच्छान्स कोटिशो हत्वा पाषंडानि च सर्वशः ॥
वैदिकं केवलं शुद्धं सद्धर्मं वर्तयिष्यति ॥२६१॥
गंगायमुनयोर्मध्ये निष्ठां यास्यति पार्थिवः ॥
ततः प्रजाश्च कालेन केनापि भृशपीडिताः ॥२६२॥
घोरं वा धर्ममाश्रित्य शाठ्येन च भवंति ताः ॥
अप्रग्रहास्ततस्ता वै लोभाविष्टाश्च वृंदशः ॥२६३॥
उपहिंसंति चान्योन्यं व्याकुलाः श्रमपीडिताः ॥
नष्टे श्रौते तथा स्मार्ते परस्परहतास्तदा ॥२६४॥
निर्मर्यादा निष्करुणा निस्स्नेहा निरपत्रपाः ॥
गृहदाराणि संत्यज्य ह्रस्वकाः पंटविंशतिः ॥२६५॥
हाहाभूताश्चरिष्यंति विषादव्याकुलेंद्रियाः ॥
अनावृष्टिहताश्चैव वार्तामुत्सृज्य दुःखिताः ॥२६६॥
प्रत्यंतांस्ता निषेवंति हित्वा जनपदान्स्वकान् ॥
सरित्सागरकूलांश्च सेवंते पर्वतांस्तथा ॥२६७॥
मांसैर्मूलफलैस्चैव वर्तयंति सुदुःखिताः ॥
चीरपत्राजिनधरा निष्क्रिया निष्परिग्रहाः ॥२६८॥
धर्मस्य वासमात्रं च शाल्वो म्लेच्छो हनिष्यति ॥
उत्तमाधममध्यत्वं सर्वमुच्छिद्य घोरकृत् ॥२६९॥
ततस्तस्य वधार्थाय विष्णुः साक्षाज्जगत्पतिः ॥
शंभले विष्णुयशसो भूत्वा पुत्रो नृपोत्तम ॥२७०॥
द्विजोत्तमैः परिवृतः शाल्वं तं संहरिष्यति ॥
कोटिशोऽर्बुदशः पापान्निहत्य च निखर्वशः ॥२७१॥
पालयिष्यति तं धर्मं यो धर्मः श्रुतिपूर्वकः ॥२७२॥
कृत्वा पोतं धर्मरूपं साधूनां परमेश्वरः ॥
गमिष्यति परं लोकं कृत्वा कर्माणि भूरिशः ॥२७३॥
ततः कृतयुगं भूयः प्रवर्तिष्यति पार्थिव ॥
आद्यं कृतयुगं चान्यं तदन्येभ्यो विशिष्यते ॥२७४॥
अष्टाविंशकलिश्चैव शेषः प्रावर्त अन्यतः ॥
ततः कृते सूर्यवंशः प्रवत्स्यति ॥२७५॥
मरुराजाच्च देवापेः श्रुतदेवाच्च ब्राह्मणाः ॥
इति चातुर्युगी राजन्व्यवस्था परिवर्तते ॥
चतुर्युगे च ते धन्या ये भजंति हराच्युतौ ॥२७६॥     
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां प्रथमे माहेश्वरखण्डे कौमारिकाखण्डे महाकालकरन्धमसंवादे चतुर्युगव्यवस्थावर्णनंनाम चत्वारिंशत्तमोऽध्यायः ॥४०॥

N/A

References : N/A
Last Updated : July 23, 2024

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP