कौमारिकाखण्डः - अध्यायः ३०
भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.
॥ नारद उवाच ॥
ततः स्कन्दः सुरैः सार्धं श्वेतपर्वत मस्तकात् ॥
उत्तीर्य तारकं हन्तुं दक्षिणां स दिशं ययौ ॥१॥
ततः सरस्वतीतीरे यानि भूतानि नारद ॥
ग्रहाश्चोपग्रहाश्चैव वेतालाः शाकिनी गणाः ॥२॥
उन्मादा ये ह्यपस्माराः पलादाश्च पिशाचकाः ॥
देवैस्तेषामाधिपत्ये सोऽभ्यषिच्यत पावकिः ॥३॥
यथा ते नैव मर्यादां संत्यजंति दुराशयाः ॥
एतैस्तस्मात्समाक्रांतः शरण्यं पावकिं व्रजेत् ॥४॥
अप्रकीर्णेन्द्रियं दांतं शुचिं नित्यमतंद्रितम् ॥
आस्तिकं स्कन्दभक्तं च वर्जयंति ग्रहादिकाः ॥५॥
महेश्वरं च ये भक्ता भक्ता नारायणं च ये ॥
तेषां दर्शनमात्रेण नश्यंते ते विदूरतः ॥६॥
ततः सर्वैः सुरैः सार्धं महीतीरं ययौ गुहः ॥
तत्र देवैः प्रकथितं महीमाहात्म्यमुत्तमम् ॥७॥
श्रृण्वन्विसिष्मिये स्कन्दः प्रणनाम च तां नदीम् ॥
ततो महीदक्षिणतस्तीरमाश्रित्य धिष्ठितम् ॥८॥
प्रणम्य शक्रप्रमुखा गुहं वचनमब्रुवन् ॥
अभिषिक्तं विना स्कन्द सेनापतिमकल्मषम् ॥९॥
न शर्म लभते सेना तस्मात्त्वमभिषेचय ॥
महीसागरसंभूतैः पुण्यैश्चापि शिवैर्जलैः ॥१०॥
अभिषेक्ष्यामहे त्वां च तत्र नो द्रष्टुमर्हसि ॥
यथा हस्तिपदे सर्वपदांतर्भाव इष्यते ॥११॥
सर्वतीर्थान्तरस्थानं तथार्णवमहीजले ॥
सर्वभूतमयो यद्वत्र्यंबकः परिकीर्त्यते ॥१२॥
सर्वतीर्थमयस्तद्वन्महीसागरसंगमः ॥
अर्धनारीश्वरं रूपं यथा रुद्रस्य सर्वदम् ॥१३॥
तथा महीसमुद्रस्य स्नानं सर्वफलप्रदम् ॥
येनात्र पितरः स्कन्द तर्पिता भक्तिभावतः ॥१४॥
तेन सर्वेषु तीर्थेषु तर्पिता नात्र संशयः ॥
न चैतद्धृदि मंतव्यं क्षारमेतज्जलं हि यत् ॥१५॥
यथा हि कटुतिक्तादि गवा ग्रस्तं हि क्षीरदम् ॥
एवमेतत्त्विदं तोयं पितॄणां तृप्ति दायकम् ॥१६॥
एवं ब्रुवत्सु देवेषु कपिलोऽपि मुनिर्जगौ ॥
सत्यमेतदुमापुत्र सर्वतीर्थमयी मही ॥१७॥
कर्दमो यस्त्वहमपि ज्ञात्वा तीर्थमहा गुणान् ॥
सर्वां भुवं परित्यज्य कृत्वा ह्यश्रममास्तितः ॥१८॥
ततो महेश्वरः प्राह सत्यमेतत्सुरोदितम् ॥
ब्रह्माद्यास्तं तथा प्राहुरत्र भूयोऽप्यथो गुरुः ॥१९॥
अत्राभिषेकं ते वीर करिष्यामः समादिश ॥
ततः सुविस्मितस्तत्र स्नात्वा स्कन्दो महामनाः ॥२०॥
अभिषिञ्चन्तु मां देवा इति तानब्रवीद्वचः ॥
ततोऽभिषेकसंभारान्सर्वान्संभृत्य शास्त्रतः ॥२१॥
जुहुवुर्मंत्रपूतेऽग्नौ चत्वारो मुख्यऋत्विजः ॥
ब्रह्मा च कपिलो जीवो विश्वामित्रश्चतुर्थकः ॥२२॥
अन्ये च शतशस्तत्र मुनयो वेदपारगाः ॥
तत्राद्भुतं महादेवो दर्शयामास भारत ॥२३॥
यदग्निकुण्डमध्यस्थो लिंगमूर्तिर्व्यदृश्यत ॥
अहमेवाग्निमध्यस्थो हविर्गृह्णामि नित्यशः ॥२४॥
एतत्संदर्शनार्थाय लिंगमूर्तिरभूद्विभुः ॥
तल्लिंगमतुलं देवा नमश्चक्रुर्मुदान्विताः ॥२५॥
सर्वपापापहं पार्थ सर्वकामफलप्रदम् ॥
तत्र होमावसाने च दत्ते हिमवता शुभे ॥२६॥
दिव्यरत्नान्विते स्कन्दो निषण्णः परमासने ॥
सर्वमंगलसंभारैर्विधिमंत्रपुरस्कृतम् ॥२७॥
अभ्यषिंचंस्ततो देवाः कुमारं शंकरात्मजम् ॥
इंद्रो विष्णुर्महावीर्यो ब्रह्मरुद्रौ च फाल्गुन ॥२८॥
आदित्याद्य ग्रहाः सर्वे तथोभावनिलानलौ ॥
आदित्या वसवो रुद्राः साध्याश्चैवाश्विनावुभौ ॥२९॥
विश्वेदेवाश्च मरुतो गंधर्वाप्सरसस्तथा ॥
देवब्रह्मर्षयश्चैव वालखिल्या मरीचिपाः ॥३०॥
विद्याधरा योगसिद्धाः पुलस्त्यपुलहादयः ॥
पितरः कश्यपोऽत्रिश्च मरीचिर्भृगुरंगिराः ॥३१॥
दक्षोऽथ मनवो ये च ज्योतींषि ऋतवस्तथा ॥
मूर्तिमत्यश्च सरितो महीप्रभृतिकास्तथा ॥३२॥
लवणाद्याः समुद्राश्च प्रभासाद्याश्च तीर्थकाः ॥
पृथिवी द्यौर्दिशश्चैव पादपाः पार्वतास्तथा ॥३३॥
आदित्याद्या मातरश्च कुर्वंत्यो गुहमंगलम् ॥
वासुकिप्रमुखा नागास्थथोभौ गरुडारुणौ ॥३४॥
वरुणो धनदश्चैव यमः सानुचरस्तथा ॥
राक्षसो निर्ऋतिश्चैव भूतानि च पलाशनाः ॥३५॥
धर्मो बृहस्पतिश्चैव कपिलो गाधिनंदनः ॥
बहुलत्वाच्च ये नोक्ता विविधा देवतागणाः ॥३६॥
ते च सर्वे महीकूले ह्यभ्यषिंचन्मुदा गुहम् ॥
ततो महास्वनामुग्रां देवदैत्यादिदर्पहाम् ॥३७॥
ददौ पशुपतिस्तस्मै सर्वभूतमहाचमूम् ॥
विष्णुर्ददौ वैजयंतीं मालां बलविवर्धिनीम् ॥३८॥
उमा ददौ चारजसी वाससी सूर्यसप्रभा ॥
गंगा कमंडलुं दिव्यममृतोद्भवमुत्तमम् ॥३९॥
मही महानदी तस्य चाक्षमालां ससागरा ॥
ददौ मुदा कुमाराय दंडं चैव बृहस्पतिः ॥४०॥
गरुडो दयितं पुत्रं मयूरं चित्रबर्हिणम् ॥
अरुणस्ताम्रचूडं च प्रददौ चरणायुधम् ॥४१॥
छागं च वरुणो राजा बलवीर्यसमन्वितम् ॥
कृष्णाजिनं तथा ब्रह्मा ब्रह्मण्याय ददौ जयम् ॥४२॥
चतुरोऽनुचरांश्चैव महावीर्यान्बलोत्कटान् ॥
नंदिसेनं लोहिताक्षं घण्टाकर्णं च मानसान् ॥४३॥
चतुर्थं चाप्यतिबलं ख्यातं कुसुममालिनम् ॥
ततः स्थाणुर्ददौ देवो महापारिषदं क्रतुम् ॥४४॥
स हि देवासुरे युद्धे दैत्यानां भीमकर्मणाम् ॥
जघान दोर्भ्यां संक्रुद्धः प्रयुतानि चतुर्दश ॥४५॥
यमः प्रादादनुचरौ यमकालोपमौ तदा ॥
उन्माथं च प्रमाथं च महावीर्यौ महाद्युती ॥४६॥
सुभ्राजौ भास्करस्यैव यौ सदा चानुयायिनौ ॥
तौ सूर्यः कार्तिकेयाय ददौ पार्थ मुदान्वितः ॥४७॥
कैलासश्रृङ्गसंकाशौ श्वेतमाल्यानुलेपनौ ॥
सोमोऽप्यनुचरौ प्रादान्मणिं सुमणिमेव च ॥४८॥
ज्वालजिह्वं ज्योतिषं च ददावग्निर्महाबलौ ॥
परिघं च बलं चैव भीमं च सुमहाबलम् ॥४९॥
स्कंदाय त्रीननुचरान्ददौ विष्णुरुरुक्रमः ॥
उत्क्रोशं पंचजं चैव वज्रदण्डधरावुभौ ॥५०॥
ददौ महेशपुत्राय वासवः परवीरहा ॥
तौ हि शत्रून्महेन्द्रस्य जघ्नतुः समरे बहून् ॥५१॥
वर्धनं बंधनं चैव आयुर्वेदविशारदौ ॥
स्कन्दाय ददतुः प्रीतावश्विनौ भरतर्षभ ॥५२॥
बलं चातिबलं चैव महावक्त्रौ महाबलौ ॥
प्रददौ कार्तिकेयाय वायुश्चानुचरावुभौ ॥५३॥
घसं चातिघसं वीरौ वरुणश्च ददौ प्रभुः ॥
सुवर्चसं महात्मानं तथैवाप्यतिवर्चसम् ॥५४॥
हिमवान्प्रददौ पार्थ साक्षाद्दौहित्रकाय वै ॥
कांचनं च ददौ मेरुर्मेघमालिनमेव च ॥५५॥
उच्छ्रितं चातिशृंगं च महापाषाणयोधिनौ ॥
स्वाहेयाय ददौ प्रीतः स विंध्यः पार्षदौ शुभौ ॥५६॥
संग्रहं विग्रहं चैव समुद्रोऽपि गधाधरौ ॥
प्रददौ पार्षदौ विरौ महीनद्या समन्वितः ॥५७॥
उन्मादं पुष्पदंतं च शंकुकर्णं तथैव च ॥
प्रददावग्निपुत्राय पार्वती शुभदर्शना ॥५८॥
जयं महाजयं चैव नागौ ज्वलनसूनवे ॥
प्रददुर्बलिनां श्रेष्ठौ सुपर्णः पार्षदावुभौ ॥५९॥
एवं साध्याश्च रुद्राश्च वसवः पितरस्तथा ॥
सर्वे जगति ये मुख्या ददुः स्कंदाय पार्षदान् ॥६०॥
नानावीर्यान्महावीर्यान्नानायुधविभूषणान् ॥
बहुलत्वान्न शक्यंते संख्यातुं ते च फाल्गुन ॥६१॥
मातश्च ददुस्तस्मै तदा मातृगणान्प्रभो ॥
याभिर्व्याप्तास्त्रयो लोकाः कल्याणीभिश्चराचराः ॥६२॥
प्रभावती विशालाक्षी गोपाला गोनसा तथा ॥
अप्सुजाता बृहद्दंडी कालिका बहुपुत्रका ॥६३॥
भयंकरी च चक्रांगी तीर्थनेमिश्च माधवी ॥
गीतप्रिया अलाताक्षी चटुला शलभामुखी ॥६४॥
विद्युज्जिह्वा रुद्रकाली शतोलूखलमेखला ॥
शतघंटाकिंकिणिका चक्राक्षी चत्वरालया ॥६५॥
पूतना रोदना त्वामा कोटरा मेघवाहिनी ॥
ऊर्ध्ववेणीधरा चैव जरायुर्जर्जरानना ॥६६॥
खटखेटी दहदहा तथा धमधमा जया ॥
बहुवेणी बहुशीरा बहुपादा बहुस्तनी ॥६७॥
शतोलूकमुखी कृष्णा कर्णप्रावरणा तथा ॥
शून्यालया धान्यवासा पशुदा धान्यदा सदा ॥६८॥
एताश्चान्याश्च बह्व्यश्च मातरो भरतर्षभ ॥
बहुलत्वादहं तासां न संख्यातुमिहोत्सहे ॥६९॥
वृक्षचत्वरवासिन्यश्चतुष्पथनिवेशनाः ॥
गुहास्मशानवासिन्यः शैलप्रस्रवणालयाः ॥७०॥
नानाभरणवेषास्ता नानामूर्तिधरास्तथा ॥
नानाभाषायुधधराः परिवव्रुस्तदा गुहम् ॥७१॥
ततः स शुशुभे श्रीमान्गुहो गुह इवापरः ॥
सैनापत्ये चाभिषिक्तो देवैर्नानामुनीश्वरैः ॥७२॥
ततः प्रणम्य सर्वांस्ता नेकैकत्वेन पावकिः ॥
व्रियतां वर इत्याह भवब्रह्मपुरोगमान् ॥७३॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां प्रथमे माहेश्वरखण्डे कौमारिकाखण्डे कुमारेश्वरमाहात्म्ये कार्तिकेयस्य सेनानीत्वेऽभिषेकवर्णनंनाम त्रिंशोऽध्यायः ॥३०॥
N/A
References : N/A
Last Updated : July 23, 2024
TOP