कौमारिकाखण्डः - अध्यायः ३१
भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.
॥ नारद उवाच ॥
ते चैनं योज्य चाशीर्भिरयाचंत वरं गुहम् ॥
एष एव वरोऽस्माकं यत्पापं तारकं जहि ॥१॥
एवमस्त्विति तानुक्त्वा योगोयोग इति ब्रुवन् ॥
तारकारिमहातेजा मयूरं चाध्यरोहत ॥२॥
शक्तिहस्तो विनद्याथ गुहो देवांस्तदाब्रवीत् ॥
यद्यद्य तारकं पापं नाहं हन्मि सुरोत्तमाः ॥३॥
गोब्राह्मणावमन्तॄणां ततो यामि गतिं स्फुटम् ॥
एवं तेन प्रतिज्ञाते शब्दोऽतिसुमहानभूत् ॥४॥
योगोयोग इति प्राहुराज्ञया शरजन्मनः ॥
अरजो वाससी रक्ते वसानः पार्वतीसुतः ॥५॥
अथाग्रे सर्वदेवानां स्थितो वीरो ययौ मुदा ॥
तस्य केतुरलं भाति चरणायुधशोभितः ॥६॥
चरणाभ्यां चरणाभ्यां गिरीञ्छक्तो यो विदारयितुं रणे ॥
या चेष्टा सर्वभूतानां प्रभा शांतिर्बलं यथा ॥७॥
तन्मया गुहशक्तिः सा भृशं हस्ते व्यरोचत ॥
यद्दार्ढ्यं सर्वलोकेषु तन्मयं कवचं तथा ॥८॥
योत्स्यमानस्य वीरस्य देहेप्रादुरभूत्स्वयम् ॥
धर्मः सत्यमसंमोहस्तेजः कांतत्वमक्षतिः ॥९॥
बलमोजः कृपा चव बद्धा करयुगं तथा ॥
आदेशकारीण्यग्रेऽस्य स्वयं तस्थुर्महात्मनः ॥१०॥
तमग्रे चापि गच्छंतं पृष्ठतोनुययौ हरः ॥
रथेनादित्यवर्णेन पार्वत्या सहितः प्रभुः ॥११॥
निर्मितेन हरेणैव स्वयमीशेन लीलया ॥
सहस्रं तस्य सिंहानां तस्मिन्युक्तं रथोत्तमे ॥१२॥
अभीषून्पुरुषव्याघ्र ब्रह्मा च जगृहे स्वयम् ॥
ते पिबंत इवाकाशं त्रासयंतश्चराचरम् ॥१३॥
सिंहा रथस्य गच्छंतो नदंतश्चारुकेसराः ॥
तस्मिन्रथे पशुपतिः स्थितो भात्युमया सह ॥१४॥
विद्युता मेडितः सूर्यः सेंद्रचापघनो यथा ॥
अग्रतस्तस्य भगवान्धनेशो गुह्यकैः सह ॥१५॥
आस्थाय रुचिरं याति पुष्पकं नरवाहनः ॥
ऐरावणं समास्ताय शक्रश्चापि सुरैः सह ॥१६॥
पृष्ठतोनुययौ यांतं वरदं वृषभध्वजम् ॥
तस्य दक्षिणतो देवा मरुतश्चित्रयोधिनः ॥१७॥
गच्छंति वसुभिः सार्धं रुद्रैश्च सह संगताः ॥
यमश्च मृत्युना सार्धं सर्वतः परिवारितः ॥१८॥
घोरैर्व्याधिशतैश्चापि सव्यतो याति कोपितः ॥
यमस्य पृष्ठतश्चापि घोरस्त्रिशिखरः सितः ॥१९॥
विजयोनाम रुद्रस्य याति शूलः स्वयं कृतः ॥
तमुग्रपाशो भगवन्वरुणः सलिलेश्वरः ॥२०॥
परिवार्य शतैयाति यादोभिर्विविधैर्वृतः ॥
पृष्ठतो विजयस्यापि याति रुद्रस्य पट्टिशः ॥२१॥
गदामुशलशक्त्याद्यैर्वरप्रहरणैर्वृतः ॥
पट्टिशं चान्वगात्पार्थ अस्त्रं पाशुपतं महत् ॥२२॥
बहुशीर्षं महाघोरमेकपादं बहूदरम् ॥
कमंडलुश्चास्य पश्चान्महर्षिगणसेवितः ॥२३॥
तस्य दक्षिणतो भाति दण्डो गच्छञ्छ्रिया वृतः ॥
भृग्वंगिरोभिः सहितो देवैरप्य भिपूजितः ॥२४॥
राक्षसाश्चान्यदेवाश्च गन्धर्वा भुजगास्तथा ॥
नद्यो नदाः समुद्राश्च मुनयोऽप्सरसां गणाः ॥२५॥
नक्षत्राणि ग्रहाश्चैव जंगमं स्थावरं तथा ॥
मातरश्च महादेवमनुजग्मुः क्षुधान्विताः ॥२६॥
सर्वेषां पृष्ठतश्चासीत्तार्क्ष्यस्थो बुद्धिमान्हरिः ॥
पालयन्पृतनां सर्वां स्वपरीवारसंवृतः ॥२७॥
एवं सैन्यसमोपेत उत्तरं तटमागतः ॥
ताम्रप्राकारमाश्रित्य तस्थौ त्र्यंबकनंदनः ॥२८॥
स तारकपुरस्यापि पश्यनृद्धि मनुत्तमाम् ॥
विसिष्मिये महासेनः प्रशशंस तपोऽस्य च ॥२९॥
स्थितः पश्यन्स शुशुभे मयूरस्थो गुहस्तदा ॥
छत्रेण ध्रियमाणेन स्वयं सोमसमस्त्विषा ॥३०॥
वीज्यमानश्चामराभ्यां वाय्वग्रिभ्यां महाद्युतिः ॥
मातृभिश्च सुरैर्दत्तैः स्वैर्गणैरपि संवृतः ॥३१॥
ततः प्रणम्य तं शक्रो देव मध्ये वचोऽब्रवीत् ॥
पश्यपश्य महासेन दैत्यानां बलशालिनाम् ॥३२॥
ये त्वां कालं न जानंति मर्त्या गृहरता इव ॥
एतेषां च गृहे दूतो यस्त्वां शंसतु तारकम् ॥३३॥
वीराणामुचितं त्वेतत्कीर्तिदं च महाजने ॥
अनुज्ञया ततः स्कन्दभक्तं शक्रो धनंजय ॥३४॥
मामादिश्यासुरेन्द्राय प्राहिणोद्दौत्ययोग्यकम् ॥
अहं स्वयं गन्तुकामः शक्रेणापि च प्रेषितः ॥३५॥
प्रासादे स्त्रीसहस्राणां प्रावोचं मध्यतोऽप्यहम् ॥
असुराधमदुर्बुद्धे शक्रस्त्वामाह तच्छृणु ॥३६॥
यज्जगद्दलनादाप्तं किल्बिषं दानव त्वया ॥
तस्याहं नाशकस्तेऽद्य पुरुषश्चेद्भविष्यसि ॥३७॥
शीघ्रं निःसर पापिष्ठ निःसरिष्यसि चेन्न हि ॥
क्षणात्तव पुरं क्षेप्स्ये पावित्र्यायैव सागरे ॥३८॥
इति श्रुत्वा रूक्षवाचं क्रुद्धः स्त्रीगणसंवृतः ॥
मुष्टिमुद्यम्यमाऽधावद्भीतश्चाहं पलायितः ॥३९॥
व्याकुलस्तत्र वृत्तांतं कुमाराय न्यवेदयम् ॥
मयि चाप्यागते दैत्यश्चिंतयामास चेतसि ॥४०॥
नालब्ध संश्रयः शक्रो वक्तुमेतदिहार्हति ॥
निमित्तानि च घोराणि संत्रासं जनयंति मे ॥४१॥
एवं विचिंत्य चोत्थाय गवाक्षं सोध्यरोहत ॥
सहस्रभौमिकावासश्रृङ्गवातायनस्थितः ॥४२॥
अपश्यद्देवसैन्यं स दिवं भूमिं च संवृतम् ॥
रतैर्गजैर्हयैश्चापि नादिताश्च दिशो दश ॥४३॥
विमानैश्चाद्भुताकारैः किंनरोद्गीतनादितैः ॥
दुन्दुभिभिर्गोविषाणैस्तालैः शंखैश्च नादितैः ॥४४॥
अक्षोभ्यामिव तां सेनां दृष्ट्वा सोऽचिंतयत्तदा ॥
एते मया जिताः पूर्वं कस्माद्भूयः समागताः ॥४५॥
इति चिंतापरो दैत्यः शुश्राव कटुकाक्षरम् ॥
देवबंदिभिरुद्वुष्टं घोरं हृदयदारणम् ॥४६॥
जयातु लशक्तिदीधितिपिंजररुचारुणमंडलभुजोद्भासितदेवसैन्य पुरवनकुमुदकाननविकासनेंदो कुमारनाथ जय दितिकुलमहोदधिवडवानल मधुररवमयूररवासुरमुकुटकूटकुट्टितचरणनखांकुर महासेन तारकवंशशुष्कतृमदावानल योगीश्वरयॉ योगिजनहृदयगगनविततचिंतासंतानसंतमसनोदनखरकिरणकल्पनखनिकरविराजितचरणकमल स्कन्द जय बाल सप्तवासर भुवनावलिशोकसंदहन ॥४७॥
नमो नमस्तेस्तु मनोरमाय नमोस्तु ते साधुभयापहाय ॥
नमोस्तु ते बालकृताचलाय नमोनमो नाशय देवशत्रून् ॥४८॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां प्रथमे माहेश्वरखण्डे कौमारिकाखण्डे कुमारेश्वरमाहात्म्ये कुमारस्य तारकासुनरनगरं प्रति गमनवर्णनंनामैकत्रिंशोऽध्यायः ॥३१॥
N/A
References : N/A
Last Updated : July 23, 2024
TOP