संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|माहेश्वरखण्ड|कौमारिकाखण्डः|
अध्यायः ५४

कौमारिकाखण्डः - अध्यायः ५४

भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.


 ॥ नारद उवाच
ममापि पार्थ तत्रास्ति मूर्तिर्ब्राह्मणकाम्यया ॥
तत्र नाहं त्यजाम्यंग च्छत्रदण्डविभूषिताम् ॥१॥
कार्तिकस्य तु या शुक्ला भवत्येकादशी शुभा ॥
तस्यां मदर्चनं कृत्वा कलिदोषैर्विमुच्यते ॥२॥
 ॥ अर्जुन उवाच
बाल्यात्प्रभृति संदेहो ममायं हृदि वर्तते ॥
पृच्छतस्तं च मे विप्र न क्रोधं कर्तुमर्हसि ॥३॥
सदा त्वं मोक्षधर्मेषु परिनिष्ठां परां गतः ॥
सर्वभूतसमो दांतो रागद्वेषविवर्जितः ॥४॥
त्यक्तनिंदास्तुतिर्मौनी मोक्षस्थः परिकीर्त्यसे ॥
त्वं च नारद लोकेषु वायुवच्चपलो मुने ॥५॥
सौदामिनीव विचरन्दृश्यसे प्राज्ञसंमतः ॥
सदा कलिकरो लोके निर्दयः सर्वप्राणिषु ॥६॥
बहूनां हि सहस्राणि देवगंधर्वरक्षसाम् ॥
राज्ञां मुनीन्द्रदैत्यानां कलेर्नष्टानि तेऽभवन् ॥७॥
कस्मात्तदेषा चेष्टा ते संदेहं मे हर द्विज ॥
संदेहान्न सुखं शेते बाणविद्धो मृगो यथा ॥८॥
 ॥ सूत उवाच
शौनकेदं वचः श्रुत्वा फाल्गुनान्नारदो मुनिः ॥
प्रहसन्निव बाभ्रव्यवदनं स निरैक्षत ॥९॥
स च बाभ्रव्यनामा वै हारीतस्यान्वयोद्भवः ॥
ब्राह्मणो नारदमुनेः समीपे वर्तते सदा ॥१०॥
स च ज्ञात्वा महाबुद्धिर्नारदस्य मनीषितम् ॥
प्रहसन्निव प्रोवाच फाल्गुनं स्निग्धया गिरा ॥११॥
 ॥ बाभ्रव्य उवाच
सत्यमेतद्यथात्थ त्वं नारदं प्रति पांडव ॥
सर्वोऽपि चात्र वृत्तांते संशयं याति मानवः ॥१२॥
तदहं ते प्रवक्ष्यामि यथा कृष्णान्मया श्रुतम् ॥
स्तोककालांतरे पूर्वं सर्वं यादवनंदनः ॥१३॥
महीसागरयात्रायां कृष्णस्तत्राययौ प्रभुः ॥
उग्रसेनेन सहितो वसुदेवेन बभ्रुणा ॥१४॥
रामेण रौक्मिणेयेन युयुधानादिभिस्तदा ॥
स च ज्ञात्वा ज्ञातिसमं महीसागरसंगमे ॥१५॥
पिंडदानादिकं कृत्वा दत्त्वा दानानि भूरिशः ॥
गुहेश्वरादिलिंगानि यत्नतः प्रतिपूज्य च ॥१६॥
स्नानं कृत्वा कोटितीर्थे जयादित्यं समर्च्य च ॥
पूजयन्नारदमुनिं युक्तः कृष्णो महामनाः ॥१७॥
उग्रसेनेन राज्ञा वै पूर्वजेन जटायुना ॥
मदादिविप्रमुख्यानां बहूनां चोपशृण्वताम् ॥
उग्रसेनो महाराजः कृष्णं प्रोवाच संसदि ॥१८॥
 ॥ उग्रसेन उवाच
कृष्ण प्रक्ष्यामि त्वामेकं संशयं वद तं मम ॥१९॥
योऽयं नाम महाबुद्धिर्नारदो विश्ववंदितः ॥
कस्मादेषोऽतिचपलो वायुवद्भ्रमते जगत् ॥
कलिप्रियश्च कस्माद्वा कस्मात्त्वय्यतिप्रीतिमान् ॥२०॥
 ॥ श्रीकृष्ण उवाच
सत्यं राजंस्त्वया पृष्टमेतत्सर्वं वदामि ते ॥
दक्षेण तु पुरा शप्तो नारदो मुनिसत्तमः ॥२१॥
सृष्टिमार्गांस्तु तान्वीक्ष्य नारदेन विचालितान् ॥
नावस्थानं च लोकेषु भ्रमतस्ते भविष्यति ॥२२॥
पैशुन्य वक्ता च तथा द्वितीयानां प्रचालनात् ॥
इति शापद्वयं प्राप्य द्विविधात्मजचालनात् ॥२३॥
निराकर्तुं समर्थोऽपि मुनिर्मेने तथैव तत् ॥
एतावान्साधुवादो हि यतश्च क्षमते स्वयम् ॥२४॥
विनाशकालं चावेक्ष्य कलिं वर्धयते यतः ॥
सत्यं च वक्ति तस्मात्स न च पापेन लिप्यते ॥२५॥
भ्रमतोऽपि च सर्वत्र नास्य यस्मात्पृथङ्मनः ॥
ध्येयाद्भवति नैव स्याद्भ्रमदोषस्ततोस्य च ॥
यच्च प्रीतिर्मयि तस्य परमा तच्छृणुष्व च ॥२६॥
अहं हि सर्वदा स्तौमि नारदं देवदर्शनम् ॥
महेंद्रगदितेनैव स्तोत्रेण शृणु तन्नृप ॥२७॥
श्रुतचारित्रयोर्जाता यस्याहंता न विद्यते ॥
अगुप्तश्रुत चारित्रं नारदं तं नमाम्यहम् ॥२८॥
अरतिक्रोधचापल्ये भयं नैतानि यस्य च ॥
अदीर्घसूत्रं धीरं च नारदं तं नमाम्यहम् ॥२९॥
कामाद्वा यदि वा लोभाद्वाचं यो नान्यथा वदेत् ॥
उपास्यं सर्वजंतूनां नारदं तं नमाम्यहम् ॥३०॥
अध्यात्मगतितत्त्वज्ञं क्षांतं शक्तं जितेंद्रियम् ॥
ऋजुं यथार्थ वक्तारं नारदं तं नमाम्यहम् ॥३१॥
तेजसा यशसा बुद्ध्या नयेन विनयेन च ॥
जन्मना तपसा वृद्धं नारदं तं नमाम्यहम् ॥३२॥
सुखशीलं सुखं वेषं सुभोजं स्वाचरं शुभम् ॥
सुचक्षुषं सुवाक्यं च नारदं तं नमाम्यहम् ॥३३॥
कल्याणं कुरुते गाढं पापं यस्य न विद्यते ॥
न प्रीयते परानर्थे यो ऽसौ तं नौमि नारदम् ॥३४॥
वेदस्मृतिपुराणोक्तधर्मे यो नित्यमास्थितः ॥
प्रियाप्रियविमुक्तं तं नारदं प्रणमाम्यहम् ॥३५॥
अशनादिष्वलिप्तं च पंडितं नालसं द्विजम् ॥
बहुश्रुतं चित्रकथं नारदं प्रणमाम्यहम् ॥३६॥
नार्थे क्रोधे च कामे च भूतपूर्वोऽस्य विभ्रमः ॥
येनैते नाशिता दोषा नारदं तं नमाम्यहम् ॥३७॥
वीतसंमोहदोषो यो दृढभक्तिश्च श्रेयसि ॥
सुनयं सत्रपं तं च नारदं प्रणमाम्यहम् ॥३८॥
असक्तः सर्वसंगेषु यः सक्तात्मेति लक्ष्यते ॥
अदीर्घसंशंयो वाग्ग्मी नारदं तं नमाम्यहम् ॥३९॥
न त्यजत्यागमं किंचिद्यस्तपो नोपजीवति ॥
अवंध्यकालो यस्यात्मा तमहं नौमि नारदम् ॥४०॥
कृतश्रमं कृतप्रज्ञं न च तृप्तं समाधितः ॥
नित्यं यत्नात्प्रमत्तं च नारदं तं नमाम्यहम् ॥४१॥
न हृष्यत्यर्थलाभेन योऽलाभे न व्यथत्यपि ॥
स्थिरबुद्धिरसक्तात्मा तमहं नौमि नारदम् ॥४२॥
तं सर्वगुणसंपन्नं दक्षं शुचिमकातरम् ॥
कालज्ञं च नयज्ञं च शरणं यामि नारदम् ॥४३॥
इमं स्तवं नारदस्य नित्यं राजन्पठाम्यहम् ॥
तेन मे परमा प्रीतिं करोति मुनिसत्तमः ॥४४॥
अन्योपि यः शुचिर्भूत्वा नित्यमेतां स्तुतिं जपेत् ॥
अचिरात्तस्य देवर्षिः प्रसादं कुरुते परम् ॥४५॥
एतान्गुणान्नारदस्य त्वमथाकर्ण्य पार्थिव ॥
जप नित्यं स्तवं पुण्यं प्रीतस्ते भविता मुनिः ॥४६॥
 ॥ बाभ्रव्य उवाच
इति कृष्णमुखाच्छ्रुत्वा नारदस्य गुणान्नृपः ॥
बभूव परमप्री तश्चक्रे तच्च तथा वचः ॥४७॥
ततो नारदमानर्च दत्त्वा दानं च पुष्कलम् ॥
नारदीयद्विजाग्र्याणां नारदः प्रीयतामिति ॥४८॥
ययौ द्वारवतीं कृष्णः सभ्रातृजातिबांधवः ॥
तीर्थयात्रामिमां कृत्वा विधिवत्पुरुषोत्तमः ॥४९॥
तथा त्वमपि कौरव्य नारदस्य गुणानिमान् ॥
श्रुत्वा श्रद्धामयो भूत्वा शृणु कृत्यं यदत्र च ॥५०॥
कार्तिके शुक्लद्वादश्यां प्रबोधिन्यामसौ मुनिः ॥
विष्णोर्ध्यानसमाधेश्च प्रबुद्धो जायते सदा ॥५१॥
तस्मिन्दिने नारदेन निर्मितेऽत्रैव कूपके ॥
स्नानं कृत्वा प्रयत्नेन श्राद्धं कुर्यात्समाहितः ॥५२॥
तपो दानं जपश्चात्र कूपे भवति चाक्षयम् ॥५३॥
इदं विष्ण्विति मंत्रेण ततो विष्णुं प्रबोधयेत् ॥
नारदं च मुनिं पश्चान्मन्त्रेणानेन पांडव ॥५४॥
योगनिद्रा यथा त्यक्ता हरिणा मुनिसत्तम ॥
तथा लोकोपकाराय भवानपि परित्यज ॥५५॥
इति मंत्रेण चोत्थाप्य नारदं परिपूजयेत् ॥
कृष्णप्रोदितया स्तुत्या छत्रधोत्रार्चनैः शुभैः ॥५६॥
शक्त्या द्विजानां देयं च छत्रं धोत्रं कमंडलुम् ॥
प्रणम्य ब्राह्मणान्भक्त्या नारदः प्रीयतामिति ॥५७॥
एवं कृते प्रसादात्स मुनेः पापेन मुच्यते ॥
जायते न कलिस्तस्य न चासौख्यं भवेदिह ॥५८
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां प्रथमे माहेश्वरखण्डे कौमारिकाखण्डे नारदमाहात्म्यवर्णनंनाम चतुःपंचाशत्तमोऽध्यायः ॥५४॥

N/A

References : N/A
Last Updated : July 23, 2024

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP