कौमारिकाखण्डः - अध्यायः १७
भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.
॥ नारद उवाच ॥
ततस्तयोः समायोगः सेनयोरुभयोरभूत् ॥
युगांते समनुप्राप्ते यथा क्षुब्धसमुद्रयोः ॥१॥
सुरासुराणां संमर्दे तस्मिन्परमदारुणे ॥
तुमुलं सुमहत्क्रांते सेनयोरुभयोरपि ॥२॥
गर्जतां देवदैत्यानां शंखभेरीरवेण च ॥
तूर्याणां चैव निर्घोषैर्मातंगानां च बृंहितैः ॥३॥
हेषितैर्हयवृंदानां रथनेमिस्वनेन च ॥
घोषेण चैव तूर्याणां युगांत इव चाभवत् ॥४॥
रोषेणाबिपरीतांगास्त्यक्तजीवितचेतसः ॥
समसज्जन्त तेन्योन्यं प्रक्रमेणातिलोहिताः ॥५॥
रथा रथैः समासक्ता गजाश्चापि महागजैः ॥
पत्तयः पत्तिभिश्चैव हयाश्चापि महाहयैः ॥६॥
ततः प्रासाशनिगदाभिंडिपालपरश्वधैः ॥
शक्तिभिः पट्टिशैः शूलैर्मुद्गरैः कणयैर्गुडैः ॥७॥
चक्रैश्च शक्तिभिश्चैव तोमरैरंकुशैरपि ॥
कर्णिनालीकनाराचवत्सदंतार्द्धचंद्रकैः ॥८॥
भल्लैर्वेतसपत्रैश्च शुकतुंडैश्च निर्मलैः ॥
वृष्टिभिश्चाद्भुताकारैर्गगनं समपद्यत ॥९॥
संप्रच्छाद्य दिशः सर्वास्तमोमयमिवाभवत् ॥
प्राज्ञायंत न तेऽन्योन्यं तस्मिंस्तमसि संकुले ॥१०॥
अदृश्यभूतास्तमसि न्यकृंतंत परस्परम् ॥
ततो भुजैर्ध्वजैश्छत्रैः शिरोभिश्च सकुंडलैः ॥११॥
गजैस्तुरंगैः पादातैः पतद्भिः पतितैरपि ॥
आकाशशिरसो भ्रष्टैः पंकजैरिव भूश्चिता ॥१२॥
भग्नदंता भिन्नकुंभाश्छिन्नदीर्घमहाकराः ॥
गजाः शैलनिभाः पेतुर्धरण्यां रुधिरस्रवाः ॥१३॥
भग्नैषाश्च रथाः पेतुर्भग्नाक्षाः शकलीकृताः ॥
पत्तयः कोटिशः पेतुस्तुरंगाश्च सहस्रशः ॥१४॥
ततः शोणितनद्यश्च हर्षदाः पिशिताशिनाम् ॥
वैतालानंददायिन्यो व्यजायंत सहस३शः ॥१५॥
तस्मिंस्तथाविधे युद्धे सेनानीर्ग्रसनोऽरिहा ॥
बाणवर्षेण महता देवसैन्यमकंपयत् ॥१६॥
ततो ग्रसनमालोक्य यमः क्रोधविमूर्छितः ॥
ववर्ष शरवर्षेण विशेषादग्निवर्चसा ॥१७॥
स विद्धो बहुभिर्षाणैर्ग्रसनोऽतिपराक्रमः ॥
कृतप्रतिकृताकांक्षी धनुरानम्य भैरवम् ॥१८॥
शरैः सहस्रैश्च पञ्चलक्षैश्चैव व्यताडयत् ॥
ग्रसनेन विमुक्तांस्ताञ्छरान्सोपि निवार्य च ॥१९॥
बाणवृष्टिभिरुग्राभिर्यमो ग्रसनमर्दयत् ॥
कृतांतशरवृष्टीनां संततीः प्रतिसर्पतीः ॥
चिच्छेद शरवर्षेण ग्रसनो दानवेश्वरः ॥२०॥
विफलां तां समालोक्य यमः स्वशरसंततिम् ॥२१॥
प्राहिणोन्मुद्गरं दीप्तं ग्रसनस्य रथं प्रति ॥
स तं मुद्गरमायांतमुत्पत्य रथसत्तमात् ॥२२॥
जग्राह वामहस्तेन लीलया ग्रसनोऽरिहा ॥
तेनैव मुद्गरेणाथ यमस्य महिषं रुषा ॥२३॥
ताडयामास वेगेन स पपात महीतले ॥
उत्पत्याथ यमस्तस्मान्महिषान्निपतिष्यतः ॥२४॥
प्रासेन ताडयामास ग्रसनं वदने दृढम् ॥
स तु प्राप्तप्रहारेण मूर्छितो न्यपतद्भुवि ॥२५॥
ग्रसनं पतित दृष्ट्वा जंभो भीमपराक्रमः ॥
यमस्य भिंडिपालेन प्रहारमकरोद्धृदि ॥२६॥
यमस्तेन प्रहारेण सुस्राव रुधिरं मुखात् ॥
अतिगाढ प्रहारार्त्तः कृतांतोमूर्छितोऽभवत् ॥२७॥
कृतांतमर्दितं दृष्ट्वा गदापाणिर्धनादिपः ॥
वृतो यक्षायुतगणैर्जंभं प्रत्युद्ययौ रुषआ ॥२८॥
जंभो रुषा तमायांतं दानवा नीकसंवृतः ॥
जग्राह वाक्यं राज्ञस्तु यता स्निग्धेन भाषितम् ॥२९॥
ग्रसनो लब्धसंज्ञोऽथ यमस्य प्राहिणोद्गदाम् ॥
मणिहेमपरिष्कारां गुर्वी परिघमर्दिनीम् ॥३०॥
तामापतंतीं संप्रेक्ष्य गदां महिषवाहनः ॥
गदायाः प्रतिघातार्थं जगज्ज्वलनभैरवम् ॥३१॥
दंडं मुमोच कोपेन ज्वालामालासमाकुलम् ॥
स गदां वियति प्राप्य ररासांबुधरोद्धतम् ॥३२॥
संवट्टश्चाभवत्ताभ्यां शैलाभ्यामिव दुःसहः ॥
ताभ्यां निष्पेषनिर्ह्राद जडीकृतदिगंतरम् ॥३३॥
जगद्व्याकुलतां यातं प्रलयागमशंकया ॥
क्षणात्प्रशांतनिर्ह्रादं ज्वलदुल्कासमाचितम् ॥३४॥
निष्पेषणं तयोर्भीमम भूद्गनगोचरम् ॥
निहत्याथ गदां दण्डस्ततो ग्रसनमूर्धनि ॥३५॥
पपात पौरुषं हत्वा यथा दैवं पुरार्जितम् ॥
सतु तेन प्रहारेण दृष्ट्वा सतिमिरादिशः ॥३६॥
पपात भूमौ निःसंज्ञो भूमिरेणुविभूषितः ॥
ततो हाहारवो घोरः सेनयोरुभयोरभूत् ॥३७॥
ततो महूर्तमात्रेण ग्रसनः प्राप्य चेतनाम् ॥
अपश्यत्स्वां तनुं ध्वस्तां विलोलाभरणांबराम् ॥३८॥
स चापि चिंतयामास कृतप्रतिकृतक्रियाम् ॥
धिगस्तु पौरुषं मह्यं प्रभोरग्रेसरः कथम् ॥३९॥
मय्याश्रितानि सैन्यानि जिते मयि जितानि च ॥
असंभावितरूपो हि सज्जनो मोदते सुखम् ॥४०॥
संभावितस्त्वशक्तश्चेत्तस्य नायं परोऽपि वा ॥
एवं संचिंत्य वेगेन समुत्तस्थौ महाबलः ॥४१॥
मुद्गरं कालदण्डाभं गृहीत्वा गिरिसंनिभम् ॥
ग्रसनो घोरसंकल्पः संदष्टौष्ठपुटच्छदः ॥४२॥
रथेन त्वरितोऽगच्छदाससादांतकं रणे ॥
समासाद्य यमं युद्धे ग्रसनो भ्राम्य मुद्गरम् ॥४३॥
वेगेन महता रौद्रं चिक्षेप यममूर्धनि ॥
विलोक्य मुद्गरं दीप्तं यमः संभ्रांतलोचनः ॥४४॥
वंचयामास दुर्द्धर्षं मुद्गरं तं महाबलः ॥
तस्मिन्नपसृते दूरं चंडानां भीमकर्मणाम् ॥४५॥
याम्यानां किंकराणां च अयुतं निष्पिपेष ह ॥
ततस्तदयुतं दृष्ट्वा हतं किंकरवाहिनी ॥४६॥
दशार्बुदमिता क्रुद्धा ग्रसनायान्वधावत ॥
ग्रसनस्तु समालोक्य तां किंकरमयां शुभाम् ॥४७॥
मेने यमसहस्राणि तादृग्रूपबला हि सा ॥
विगाह्य ग्रसनं सेना ववर्ष शरवृष्टिभिः ॥४८॥
कल्पांतघोरसंकाशो बभूव स महारणः ॥
केचिच्छैलेन बिभिदुः केचिद्बाणैरजिह्यगैः ॥४९॥
पिपिषुर्गदया केचित्कोचिन्मुद्गरवृष्टिभिः ॥
केचित्प्रासप्रहारैश्च ताडयामासुरुद्धताः ॥५०॥
अपरे किंकरास्तस्य ललंबुर्बाहुमंडले ॥
शिलाभिरपरे जघ्नुर्द्रुमैरन्ये महोच्छ्रयैः ॥५१॥
तस्यापरे च गात्रेषु दशनांश्चन्यपातयन् ॥
अपरे मुष्टिभिः पृष्ठं किंकरास्ताडयंति च ॥५२॥
एवं चाभिद्रुतस्तैः स ग्रसनः क्रोधमूर्छितः ॥
उत्साद्य गात्रं भूपृष्ठे निष्पिपेष सहस्रशः ॥५३॥
कांश्चिदुत्थाय जघ्नेऽसौ मुष्टिभिः किंकरान्रणे ॥
कांश्चित्पादप्रहारेण धावन्नन्यानचूर्णयत् ॥५४॥
क्षणैकेन स तान्निन्ये यमलोकायभारत ॥
स च किंकरयुद्धेन ववृधेऽग्निरिवैधसा ॥५५॥
तमालोक्य यमोऽश्रांतं श्रांतंस्तांश्च हतान्स्वकान् ॥
आजगाम समुद्यम्य दंडं महिषवाहनः ॥५६॥
ग्रसनस्तु तमायांतमाजघ्ने गदयोरसि ॥
अचिंतयित्वा तत्कर्म ग्रसनस्यांतकोऽरिहा ॥५७॥
व्याघ्रान्दंडेन संजघ्ने स रथान्न्य पतद्भुवि ॥
ततः क्षणेन चोत्थाय संचिंत्यात्मानमुद्धतः ॥५८॥
वायुवेगेन सहसा ययौ यमरथं प्रति ॥
पदातिः स रथं तं च समारुह्य यमं तदा ॥५९॥
योधयामास बाहुभ्यामाकृष्य बलिनां वरः ॥
यमोऽपि शस्त्राण्युत्सृज्च बाहुयुद्धे प्रवर्तते ॥६०॥
ग्रसनं कटिवस्त्रे तु यमं गृह्य बलोत्कटः ॥
भ्रामयामास वेगेन संभ्रमाविष्टचेतसम् ॥६१॥
विमोच्याथ यमः कष्टात्कंठेऽवष्टभ्य चासुरम् ॥
बाहुभ्यां भ्रामयामास सोऽप्यात्मानममोचयत् ॥६२॥
ततो जघ्नतुरन्योन्यं मुष्टिभिर्निर्दयौ च तौ ॥
दैत्येंद्रस्यातिवीर्यत्वात्परिश्रांततरो यमः ॥६३॥
स्कंधे निधाय दैत्यस्य मुखं विश्रांतिमैच्छत ॥
तमा लक्ष्य ततो दैत्यः श्रांतमुत्पाट्य चौजसा ॥६४॥
निष्पिपेष महीपृष्ठे विनिघ्नन्पार्ष्णिपाणिभिः ॥
ततो यमस्य वदनात्सुस्राव रुधिरं बहु ॥६५॥
निर्जीवमिति तं दृष्ट्वा ततः संत्यज्य दानवः ॥
जयं प्राप्योद्धतं नादं मुक्त्वा संत्रास्य देवताः ॥६६॥
स्वकं सैन्यं समासाद्य तस्थौ गिरिरिवाचलः ॥६७॥
नादेन तस्य ग्रसनस्य संख्ये महायुधैश्चार्दितसर्वगात्राः ॥
गते कृथांते वसुधां च निष्प्रभे चकंपिरे कांदिशिकाः सुरास्ते ॥६८॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्त्र्यां संहितायां प्रथमे माहेश्वरखण्डे कौमारिकाखण्डे तारकसैन्यदेवसैन्ययोर्मध्ये यमग्रसनयोर्युद्धवर्णनं नाम सप्तदशोऽध्यायः ॥१७॥
N/A
References : N/A
Last Updated : July 23, 2024
TOP