संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|माहेश्वरखण्ड|कौमारिकाखण्डः|
अध्यायः ०१

कौमारिकाखण्डः - अध्यायः ०१

भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.


श्रीगणेशाय नमः ॥
ॐ नमो बृहस्पतये ॥
नमतस्मै ब्रह्मणे ॥
विष्णवे नमः ॥

॥ श्रीमुनय ऊचुः ॥
दक्षिणार्णवतीरेषु यानि तीर्थानि पंच च ॥
तानि ब्रूहि विशालाक्ष वर्णयंत्यति तानि च ॥१॥
सर्वतीर्थफलं येषु नारदाद्य वदंति च ॥
तेषां चरितमाहात्म्यं श्रोतुमिच्छामहे वयम् ॥२॥
॥ उग्रश्रवा उवाच ॥
श्रृणुध्वचत्यद्भुतपुण्यसत्कथं कुमारनाथस्य महाप्रभावम् ॥
द्वैपायनो यन्मम चाह पूर्वं हर्षाबुरोमोद्गमचर्चितांगः ॥३॥
कुमारगीता गाथात्र श्रूयतां मुनिसत्तमाः ॥
या सर्वदेवैर्मुनिभिः पितृभिश्च प्रपूजिता ॥४॥
मध्वाचारस्तं भतीर्थं यो निषेवेत मानवः ॥
नियतं तस्य वासः स्याद्ब्रह्मलोके यथा मम ॥५॥
ब्रह्मलोकाद्विष्णुलोकस्तस्मादपि शिवस्य च ॥
पुत्राप्रियत्वात्तस्यापि गुहलोको महत्तमः ॥६॥
अत्राश्चर्यकथा या च फाल्गुनस्य पुरेरिता ॥
नारदेन मुनिश्रेष्ठास्तां वो वक्ष्यामि विस्तरात् ॥७॥
पुरा निमित्ते कस्मिंश्चित्करीटी मणिकूटतः ॥
समुद्रे दक्षिणेऽभ्यागात्स्नातुं तीर्थानि पंच च ॥८॥
वर्जयंति सदा यानि भयात्तीर्थानि तापसाः ॥
कुमारेशस्य पूर्वं च तीर्थमस्ति मुनेः प्रियम् ॥९॥
स्तंभेशस्य द्वितीयं च सौभद्रस्य मुनेः प्रियम् ॥
बर्करेश्वरमन्यच्च पौलोमीप्रियमुत्तमम् ॥१०॥
चतुर्थं च महाकालं करंधम नृपप्रिययम् ॥
भरद्वाजस्य तीर्थं च सिद्धेशाख्यं हि पंचमम् ॥११॥
एतानि पंच तीर्थानि ददर्श कुरुपुंगवः ॥
तपस्विभिर्वर्जितानि महापुण्यानि तानि च ॥१२॥
दृष्ट्वा पार्श्वे नारदीयानपृच्छत महामुनीन् ॥
तीर्थानीमानि रम्याणि प्रभावाद्भुतवंति च ॥१३॥
किमर्थं ब्रूत वर्ज्यंते सदैव ब्रह्मवादिभिः ॥
 ॥तापसा ऊचुः ॥
ग्राहः पंच वसंत्येषु हरंति च तपोधनान् ॥१४॥
अत एतानि वर्ज्यंते तीर्थानि कुरुनंदन ॥
इति श्रुत्वा महाबाहुर्गमनाय मनो दधे ॥१५॥
ततस्तं तापसाः प्रोचुत्हंतुं नार्हसि फाल्गुन ॥
बहवो भक्षिता ग्राहै राजानो मुनयस्तथा ॥१६॥
तत्त्व द्वारशवर्षाणि तीर्थानामर्बुदेष्वपि ॥
स्नातः किमेतैस्तीर्थैस्ते मा पतंगव्रतो भव ॥१७॥
 ॥अर्जुन उवाच ॥
यदुक्तं करुणासारैः सारं किं तदिहोच्यताम् ॥
धर्मार्थी मनुजो यश्च न स वार्यो महात्मभिः ॥१८॥
धर्मकामं हि मनुजं यो वारयति मंदधीः ॥
तदाश्रितस्य जगतो निःश्वासैर्भस्मसाद्भवेत् ॥१९॥
यज्जीवितं चाचिरांशुसमानक्षणभंगुरम् ॥
तच्चेद्धर्मकृते याति यातु दोषोऽस्ति को ननु ॥२०॥
जीवितं च धनं दाराः पुत्राः क्षेत्रगृहाणि च ॥
यान्ति येषआं धर्मकृते त एव भुवि मानवाः ॥२१॥
 ॥तापसा ऊचुः ॥
एवं ते ब्रुवतः पार्थ दीर्घमायुः प्रवर्धताम् ॥
सदा धर्मे रतिर्भूयाद्याहि स्वं कुरु वांछितम् ॥२२॥
एवमुक्तः प्रणम्यैतानाशीर्भिरभिसंस्तुतः ॥
जगाम तानि तीर्थानि द्रष्टुं भरतसत्तमः ॥२३॥
ततः सौभद्रमासाद्य महर्षेस्तीर्थुमुत्तमम् ॥
विगाह्य तरसा वीरः स्नानं चक्रे परंतपः ॥२४॥
अथ तं पुरुषव्याघ्रमंतर्जलचरो महान् ॥
निजग्राह जले ग्राहः कुंतीपुत्रं धनंजयम् ॥२५॥
तमादायैव कौतेयो विस्फुरंतं जलेचरम् ॥
उदतिष्ठन्महाबाहुर्बलेन बलिनां वरः ॥२६॥
उद्धृतश्चैव तु ग्राहः सोऽर्जुनेन यशस्विना ॥
बभूव नारी कल्याणी सर्वाभरणभूषिता ॥२७॥
दीप्यमानशिखा विप्रा दिव्यरूपा मनोरमा ॥
तदद्भुतं महद्दृष्ट्वा कुंतीपुत्रो धनंजयः ॥२८॥
तां स्त्रियं परमप्रीत इदं वचनमब्रवीत् ॥
का वै त्वमसि कल्याणि कुतो वा जलचारिणी ॥२९॥
किमर्थं च महात्पापमिदं कृतवती ह्यसि ॥
 ॥नार्युवाच ॥
अप्सरा ह्यस्मि कौतेय देवारण्यनिवासिनी ॥३०॥
इष्टा धनपतेर्नित्यं वर्चानाम महाबल ॥
मम सख्यश्चतस्रोऽन्याः सर्वाः कामगमाः शुभाः ॥३१॥
ताभिः सार्धं प्रयातास्मि देवराजनिवेशनात् ॥
ततः पश्यामहे सर्वा ब्राह्मणं चानिकेतनम् ॥३२॥
रूपवंतमधीयानमेकमेकांतचारिणम् ॥
तस्य वै तपसा वीर तद्वनं तेजसावृतम् ॥३३॥
आदित्य इव तं देशं कृत्स्नमेवान्व भासयत् ॥
तस्य दृष्ट्वा तपस्तादृग्रूपं चाद्भुतदर्शनम् ॥३४॥
अवतीर्णास्ति तं देशं तपोविघ्नचिकीर्षया ॥
अहं च सौरभेयी च सामेयी बुद्बुदालता ॥३५॥
यौगपद्येन तं विप्रमभ्यगच्छाम भारत ॥
गायंत्यो ललमानाश्च लोभयंत्यश्च तं द्विजम् ॥३६॥
स च नास्मासु कृतवान्मनोवीरः कथंचन ॥
नाकंपत महातेजाः स्थितस्तपसि निर्मले ॥३७॥
सोऽशपत्कुपितोऽस्मासु ब्राह्मणः क्षत्रियर्षभ ॥
ग्राहभूता जले यूयं भविष्यथ शतं समाः ॥३८॥
ततो वयं प्रव्यथिताः सर्वा भरतसत्तम ॥
आयाताः शरणं विप्रं तपोधनमकल्मषम्३९॥
रूपेण वयसा चैव कंदर्पेण च दर्पिताः ॥
अयुक्तं कृतवत्यः स्म क्षंतुमर्हसि नो द्विज ॥४०॥
एष एव वधोऽस्माकं स पर्याप्तस्तपोधन ॥
यद्वयं शंसितात्मानं प्रलोब्धुं त्वामुपागताः ॥४१॥
अवध्याश्च स्त्रियः सृष्टा मन्यंते धर्मचिंतकाः ॥
तस्माद्धर्मेण धर्मज्ञ एष वादो मनीषिणाम् ॥४२॥
शरणं च प्रपन्नानां शिष्टाः कुर्वंति पालनम् ॥
शरण्यं त्वां प्रपन्नाः स्मस्तस्मात्त्वं क्षंतुमर्हसि ॥४३॥
एवमुक्तस्तु धर्मात्मा ब्राह्मणः शुभकर्मकृत् ॥
प्रसादं कृतवाञ्छूररविसोमसमप्रभः ॥४४॥
 ॥ब्राह्मण उवाच ॥
भवतीनां चरित्रेण परिमुह्यामि चेतसि ॥
अहो धार्ष्ट्यमहो मोहो यत्पापाय प्रवर्तनम् ॥४५॥
मस्त कस्थायिनं मृत्युं यदि पश्येदयं जनः ॥
आहारोऽपि न रोचेत किमुताकार्यकारिता ॥४६॥
आहो मानुष्यकं जन्म सर्वजन्मसु दुर्लभम् ॥
तृणवत्क्रियते कैश्चिद्योषिन्मूढैर्दुराधरैः ॥४७॥
तान्वयं समपृच्छामो जनिर्वः किंनिमित्ततः ॥
को वा लाभो विचार्यैतन्मनासा सह प्रोच्यताम् ॥४८॥
न चैताः परिनिन्दामो जनिर्यार्भ्यः प्रवर्तते ॥
केवलं तान्विनिंदामो ये च तासु निरर्गलाः ॥४९॥
यतः पद्मभुवा सृष्टं मिथुनं विश्ववृद्धये ॥
तत्तथा परिपाल्यं वै नात्र दोषोऽस्ति कश्चन ॥५०॥
या बांधवैः प्रदत्ता स्याद्वह्निद्विजसमागमे ॥
गार्हस्थ्यपालनं धन्यं तया साकं हि सर्वदम् ॥५१॥
यथाप्रकृति पुंयोमो यत्नेनापि परस्परम् ॥
साध्यामानो गुणाय स्यादगुणायाप्यसाधितः ॥५२॥
एवं यत्नात्साध्यमानं स्वकं गार्हस्थ्यमुत्तमम् ॥
गुणाय महते भूयादगुणायाप्यसाधितम् ॥५३॥
पुरे पंचमुखे द्वाःस्थ एकादशभटैर्युतः ॥
साकं नार्या बह्वपत्यः स कथं स्यादचेतनः ॥५४॥
यश्चस्त्रिया समायोगः पंचयज्ञादिकर्मभिः ॥
विश्वोपकृतये सृष्टा मूढैर्हा साध्यतेऽन्यथा ॥५५॥
अहो श्रृणुध्वं नो चेद्वः शुश्रूषा जायते शुभा ॥
तथापि बाहुमुद्धृत्य रोरूयामः श्रृणोति कः ॥५६॥
षड्धातुसारं तद्वीर्यं समानं परिहाय च ॥
विनिक्षेपे कुयोनौ तु तस्येदं प्रोक्तवान्यमः ॥५७॥
प्रथमं चौषधीद्रोग्धा आत्मद्रोग्धा ततः पुनः ॥
पितृद्रोग्धा विश्वद्रोग्धा यात्यंधं शाश्वतीः समाः ॥५८॥
मनुष्यं पितरो देवा मुनयो मानवास्तथा ॥
भृतानि चोपजीवंति तदर्थं नियतो भवेत् ॥५९॥
वचसा मनसा चैव जिह्वया करश्रोत्रकैः ॥
दांतमाहुर्हि सत्तीर्थं काकतीर्थमतः परम् ॥६०॥
काकप्राये नरे यस्मिन्रमंते तामसा जनाः ॥
हंसोऽयमिति देवानां कोऽर्थस्तेन विचिंत्यताम् ॥६१॥
एवंविधं हि विश्वस्य निर्माणं स्मरतोहृदि ॥
अपि कृते त्रिलोक्याश्च कथं पापे रमेन्मनः ॥६२॥
तदिदं चान्यमर्त्यानां शास्त्रदृष्टमहो स्त्रियः ॥
यमलोके मया दृष्टं मुह्ये प्रत्यक्षतः कथम् ॥६३॥
भवतीषु च कः कोपो ये यदर्थे हि निर्मिताः ॥
ते तमर्थं प्रकुर्वंति सत्यमस्तुभमेव च ॥६४॥
शतं सहस्रं विश्वं च सर्वमक्षय वाचकम् ॥
परिमाणं शतं त्वेव नैतदक्षय्यवाचकम् ॥६५॥
यदा च वो ग्राहभूता गृह्णतीः पुरुषाञ्जले ॥
उत्कर्षति जलात्कश्चित्स्थले पुरुषसत्तमः ॥६६॥
तदा यूयं पुनः सर्वाः स्वं रूपं प्रतिपत्स्यथ ॥
अनृतं नोक्तपूर्वं मे हसतापि कदाचन ॥
कल्याणस्य सुपृक्तस्य शुद्धिस्तद्वद्वरा हि वः ॥६७॥
 ॥नार्युवाच ॥
ततोभिवाद्य तं विप्रं कृत्वा चैव प्रदक्षिणम् ॥६८॥
अचिंतयामापसृत्य तस्माद्देशात्सुदुःखिताः ॥
क्व नु नाम वयं सर्वाः कालेनाल्पेन तं नरम् ॥६९॥
समागच्छेम यो नः स्वं रूपमापादयेत्पुनः ॥
ता वयं चिंतयित्वेह मुहूर्तादिव भारत ॥७०॥
दृष्टवत्यो महाभागं देवर्षिमथ नारदम् ॥
सर्वा दृष्टाः स्म तं दृष्ट्वा देवर्षिममितद्युतिम् ॥७१॥
अभिवाद्य च तं पार्थ स्थिताः स्मो व्यथिताननाः ॥
स नोऽपृच्छद्दृःखमूलमुक्तवत्यो वयं च तम् ॥७२॥
श्रुत्वा तच्च यथातत्त्वमिदं वचनमब्रवीत् ॥
दक्षिणे सागरेऽनूपे पंच तीर्थानि संतिवै ॥७३॥
पुण्यानि रमणीयानि तानि गच्छत मा चिरम् ॥
तत्रस्थाः पुरुषव्याघ्रः पांडवो वो धनंजयः ॥७४॥
मोक्षयिष्यति शुद्धात्मा दुःखा दस्मान्न संशयः ॥
तस्य सर्वा वयं वीर श्रुत्वा वाक्यमिहागताः ॥७५॥
त्वमिदं सत्यवचनं कर्तुमर्हसि पांडव ॥
त्वद्विधानां हि साधूनां जन्म दीनोपकारकम् ॥७६॥
श्रुत्वेति वचनं तस्याः सस्नौ तीर्थेष्वनुक्रमात् ॥
ग्राहभूताश्चोज्जहार यथापूर्वाः स पांडवः ॥७७॥
ततः प्रणम्य ता वीरं प्रोच्यमाना जयाशिषः ॥
गंतुं कृताभिलाषाश्च प्राह पार्थो धनंजयः ॥७८॥
एष मे हृदि संदेहः सुदृढः परिवर्तते ॥
कस्माद्वोनारदमुनिरनुजज्ञे प्रवासितुम् ॥७९॥
सर्वः कोऽप्यतिहीनोऽपि स्वपूज्यस्यार्थसाधकः ॥
स्वपूज्यतीर्थेष्वावासं प्रोक्तवान्नारदः कथम् ॥८०॥
तथैव नवदुर्गासु सतीष्वतिबलासु च ॥
सिद्धेशे सिद्धगणपे चापि वोऽत्र स्थितिः कथम् ॥८१॥
एकैक एषां शक्तो हि अपि देवान्निवारितुम् ॥
तीर्थसंरोधकारिण्यः सर्वा नावारयत्कथम् ॥८२॥
इति चिंतयते मह्यं भृशं दोलायते मनः ॥
महन्मे कौतुकं जातं सत्यं वा वक्तुमर्हथ ॥८३॥
 ॥अप्सरस ऊचुः ॥
योग्यं पृच्छसि कौन्तेय पुनः पश्योत्तरां दिशम् ॥८४॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां प्रथमे माहेश्वरखण्डे कौमारिकाखंडे पार्थेन पञ्चाप्सरः समुद्धरणंनाम प्रथमोऽध्यायः ॥१॥

N/A

References : N/A
Last Updated : July 21, 2024

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP