संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|माहेश्वरखण्ड|कौमारिकाखण्डः|
अध्यायः ०६

कौमारिकाखण्डः - अध्यायः ०६

भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.


 ॥श्रीनारद उवाच ॥
इति श्रुत्वा फाल्गुनाहं रोमांचपुलकीकृतः ॥
स्वरूपं प्रकटीकृत्य ब्राह्मणानिदमब्रवम् ॥१॥
अहो धन्यः पितास्माकं यस्य सृष्टस्य पालकाः ॥
युष्मद्विधा ब्राह्मणेंद्राः सत्यमाह पुरा हरिः ॥२॥
मत्तोऽप्यनंतात्परतः परस्मात्समस्तभूताधिपतेर्न किंचित् ॥
तेषां किमुस्यादितरेण येषां द्विजेश्वराणां मम मार्गवादिनाम् ॥३॥
तत्सर्वथाद्या धन्योऽस्मि संप्राप्तं जन्मनः फलम् ॥
यद्भवन्तो मया दृष्टाः पापोपद्रववर्जिताः ॥४॥
ततस्ते सहसोत्थाय शातातपपुरोगमाः ॥
अर्घ्यपाद्यादिसत्कारैः पूजयामासुर्मां द्विजाः ॥५॥
प्रोक्तवन्तश्च मां पार्थ वचः साधुजनो चितम् ॥
धन्या वयं हि देवर्षे त्वमस्मान्यदिहागतः ॥६॥
कुतो वाऽऽगमनं तुभ्यं गन्तव्यं वा क्व सांप्रतम् ॥
अत्राप्यागमने कार्यमुच्यतां मुनिसत्तम ॥७॥
श्रुत्वा प्रीतिकरं वाक्यं द्विजानामिति पांडव ॥
प्रत्यवोचं मुनीन्द्रांस्ताञ्छ्रूयतां द्विजसत्तमाः ॥८॥
अहं हि ब्रह्मणो वाक्याद्विप्राणां स्थानकं शुभम् ॥
दातुकामो महातीर्थे महीसागरसंगमे ॥९॥
परीक्षन्ब्राह्मणानत्र प्राप्तो यूयं परीक्षिताः ॥
अहं वः स्थायिष्यामि चानुजानीत तद्द्विजाः ॥१०॥
एवमुक्तो विलोक्यैव द्विजाञ्छातातपोऽब्रवीत् ॥
देवानामपि दुष्प्राप्यं सत्यं नारद भारतम् ॥११॥
किं पुनश्चापि तत्रैव मही सागरसंगमः ॥
यत्र स्नातो महातीर्थफलं सर्वमुपाश्नुते ॥१२॥
पुनरेको महान्दोषो बिभीमो नितरां यतः ॥
तत्र चौराः सुबहवो निर्घृणाः प्रियसाहसाः ॥१३॥
स्पर्शेषु षोडशं चैकविंशं गृह्णंति नो धनम् ॥
धनेन तेन हीनानां कीदृशं जन्म नो भवेत् ॥१४॥
वरं बुभुक्षया वासो मा चौरकरगा वयम् ॥
 ॥अर्जुन उवाच ॥
अद्भुतं वर्ण्यते विप्र के हि चौराः प्रकीर्तिताः ॥१५॥
किं धनं च हरंत्येते येभ्यो बिभ्यति ब्राह्मणाः ॥
॥ नारद उवाच ॥
कामक्रोधादयश्चौरास्तप एव धनं तथा ॥१६॥
तस्यापहारभीतास्ते मामूचुरिति ब्राह्मणाः ॥
तानहं प्राब्रवं पश्चाद्वि जानीत द्विजोत्तमाः ॥१७॥
जाग्रतां तु मनुष्याणां चौराः कुर्वंति किं खलाः ॥
भयभीतश्चालसश्च तथा चाशुचिरेव यः ॥१८॥
तेन किं नाम संसाध्यं भूमिस्तं ग्रसते नरम् ॥१९॥
 ॥शातातप उवाच ॥
वयं चौरभयाद्भीतास्ते हरंति धनं महत् ॥
कर्तुं तदा कथं शक्यमंग जागरणं तथा ॥२०॥
खलाश्चौरा गताः क्वापि ततो नत्वाऽऽगता वयम् ॥
तस्मासर्वं संत्यजामो भयभीता वयं मुने ॥२१॥
प्रतिग्रहश्च वै घोरः षष्ठांऽशफलदस्तथा ॥
एवं ब्रुवति तस्मिंश्च हारीतोनाम चाब्रवीत् ॥२२॥
मूढबुद्ध्या हि को नाम महीसागरसंगमम् ॥
त्यजेच्च यत्र मोक्षश्च स्वर्गश्च करगोऽथ वा ॥२३॥
कलापादिषु ग्रामेषु को वसेत विचक्षणः ॥
यदि वासः स्तम्भतीर्थे क्षणार्धमपि लभ्यते ॥२४॥
भयं च चौरजं सर्वं किं करिष्यति तत्र न ॥
कुमारनाथं मनसि पालकं कुर्वतां दृढम् ॥२५॥
साहसं च विना भूतिर्न कथंचन प्राप्यते ॥
तस्मान्नारद तत्राहमायास्ये तव वाक्यतः ॥२६॥
षड्विंशतिसहस्राणि ब्राह्मणा मे परिग्रहे ॥
षट्कर्मनिरताः शुद्धा लोभदम्भविवर्जिताः ॥२७॥
तैः सार्धमागमिष्यामि ममेदं मतमुत्तमम् ॥
इत्युक्ते वचने तांश्च कृत्वाहं दंडमूर्धनि ॥२८॥
निवृत्तः सहसा पार्थ खेचरोऽतिमुदान्वितः ॥
शतयोजनमात्रं तु हिममार्गमतीत्य च ॥२९॥
केदारं समुपायातो युक्तस्तैर्द्विजसत्तमैः ॥
आकाशेन सुशक्यश्च बिलेनाथ स देशकः ॥३०॥
अतिक्रांतुं नान्यथा च तथा स्कंदप्रसादतः ॥३१॥
 ॥अर्जुन उवाच ॥
क्व कलापं च तद्ग्रामं कथं शक्यं बिलेन च ॥
कथं स्कंदप्रसादः स्यादेतन्मे ब्रूहि नारद ॥३२॥
॥ नारद उवाच ॥
केदाराद्धिमसंयुक्तं योजनानां शतं स्मृतम् ॥
तदंते योजनशतं विस्तृतं तत्कलापकम् ॥३३॥
तदंते योजनशतं वासुकार्णव मुच्यते ॥
शतयोजनमात्रः स भूमिस्वर्गस्ततः स्मृतः ॥३४॥
बिलेन च यथा शक्यं गंतुं तत्र श्रृणुष्व तत् ॥
निरन्नं वै निरुदकं देवमाराधयेद्गुहम् ॥३५॥
दक्षिणायां दिशि ततो निष्पापं मन्यते यदा ॥
तदा गुहोऽस्य स्वप्ने गच्छेति भारत ॥३६॥
ततो गुहात्पश्चिमतो बिलमस्ति बृहत्तरम् ॥
तत्र प्रविश्य गंतव्यं क्रमाणां शतसप्तकम् ॥३७॥
तत्र मारकतं लिंगमस्ति सूर्यसमप्रभम् ॥
तदग्रे मृत्तिका चास्ति स्वर्णवर्णा सुनिर्मला ॥३८॥
नमस्कृत्य च तल्लिंगं गृहीत्वा मृत्तिकां च ताम् ॥
आगंतव्यं स्तंभतीर्थे समाराध्य कुमारकम् ॥३९॥
कोलं वा कूपतो ग्राह्यं भूतायां निशि तज्जलम् ॥
तेनोदकेन मृत्तिकया कृत्वा नेत्रद्वयाञ्जनम् ॥४०॥
उद्वर्तनं च देहस्य कदाचित्षष्टिमे पदे ॥
नेत्रांजनप्रभावाच्च बिलं पश्यति शोभनम् ॥४१॥
तन्मध्येन ततो याति गात्रोद्वर्त्तप्रभावतः ॥
कारीषैर्नाम चात्युग्रैर्भक्ष्यते नैव कीटकैः ॥४२॥
बिलमध्ये च संपश्यन्सिद्धान्भास्करसन्निभान् ॥
यात्येवं यात्यसौ पार्थ कलापं ग्राममुत्तमम् ॥४३॥
तत्र वर्षसहस्राणि चत्वार्यायुःप्रकीर्तितम् ॥
फलानां भोजनं च स्यात्पुनः पुण्यं च नार्ज्जयेत् ॥४४॥
इत्येतत्कथितं तुभ्यमतश्चाभूच्छृणुष्व तत् ॥
तपः सामर्थ्यतः सूक्ष्मान्दण्डस्याग्रे निधाय तान् ॥४५॥
द्विजानहं समायातो महीसागरसंगमम् ॥४६॥
तदोत्तार्य मया मुक्तास्तीरे पुण्यजलाशये ॥
ततो मया कृतं स्नानं सह तैर्द्विजसत्तमैः ॥४७॥
निःशेषदोषदावाग्नौ महीसागरसंगमे ॥
पितॄणां देवतानां च कृत्वा तर्पणसत्क्रियाः ॥४८॥
जपमानाः परं जप्यं निविष्टाः संगमे वयम् ॥
भास्करं समवेक्षंतश्चिंतयंतो हरिं हृदि।.४९॥
तस्मिंश्चैवांतरे पार्थ देवाः शक्रपुरोगमाः ॥
आदित्याद्या ग्रहाः सर्वे लोकपालाश्च संगताः ॥५०॥
देवानां योनयो ह्यष्टौ गंधर्वाप्सरसां गणाः ॥
महोत्सवे ततस्तस्मिन्गीतवादित्र उत्तमे ॥५१॥
पादप्रक्षालनं कर्तुं विप्राणामुद्यतस्त्वहम् ॥
तस्मिन्काले चाश्रृणवमहमातिथ्यवाक्यताम् ॥५२॥
सामध्वनिसमायुक्तां तृतीयस्वरनादिताम् ॥
अतीव मनसो रम्यां शिव भक्तिमिवोत्तमाम् ॥५३॥
विप्रैरुत्थाय संपृष्टः कस्त्वं विप्र क्व चागतः ॥
किं वा प्रार्थयसे ब्रूहि यत्ते मनसि रोचते ॥५४॥
 ॥विप्र उवाच ॥
मुनिः कपिलनामाहं नारदाय निवेद्यताम् ॥
आगतः प्रार्थनायैव तच्छ्रुत्वाहमथाब्रवम् ॥५५॥
धन्योहं यदिहायातः कपिल त्वं महामुने ॥
नास्त्यदेयं तवास्माभिः पात्रं नास्ति तवाधिकम् ॥५६॥
 ॥कपिल उवाच ॥
ब्रह्मपुत्र त्वया देयं यदि मे त्वं श्रृणुष्व तत् ॥
अष्टौ विप्रसहस्राणि मम देहीति नारद ॥५७॥
भूमिदानं करिष्यामि कलापग्रामवासिनाम् ॥
ब्राह्मणानामहं चैषां तदिदं क्रियतां विभो ॥५८॥
ततो मया प्रतिज्ञातमेवमस्तु महामुने ॥
त्वयापि क्रियतां स्थानं कापिलं कपिलोत्तमम् ॥५९॥
श्राद्धे वा प्राप्तकाले वा ह्यतिथिर्विमुखीभवेत् ॥
यस्याश्रममुपायातस्यस्य सर्वं हि निष्फलम् ॥६०॥
स गच्छेद्रौरवाँल्लोकान्योऽतिथिं नाभिपूजयेत् ॥
अतिथिः पूजितो येन स देवैरपि पूज्यते ॥६१॥
दानैर्यज्ञैस्त तस्तस्मिन्भोजितः कपिलो मुनिः ॥
ततो महामुनिः श्रीमान्हारीतो ह्वयितस्तदा ॥६२॥
पादप्रक्षालनार्थाय सिद्धदेवसमागमे ॥
हारीतश्च पुरस्कृत्य वामपादं तदा स्थितः ॥६३॥
ततो हासो महाञ्जज्ञे सिद्धाप्सरः सुपर्वणाम् ॥
विचिंत्य बहुधा पृथ्वीं साधु साधुकृता द्विजाः ॥६४॥
ततो ममापि मनसि शोकवेगो महानभूत् ॥
सत्यां चैव तथा मेने गाथां पूर्वबुधेरिताम् ॥६५॥
सर्वेष्वपि च कार्येषु हेतिशब्दो विगर्हितः ॥
कुर्वतामतिकार्याणि शिलापातो ध्रुवं भवेत् ॥६६॥
ततोहमब्रंवं विप्रान्यूयं मूर्खा भविष्यथ ॥
धनधान्याल्पसंयुक्ता दारिद्र्यकलिलावृताः ॥६७॥
एवमुक्ते प्रहस्यैव हारीतः प्राब्रवीदिदम् ॥
तवैवेयं मुने हानिर्यदस्माञ्छपते भवान् ॥६८॥
कः शापो दीयते तुभ्यं शापोयमयमेव ते ॥
ततो विमृश्य भूयोऽहब्रवं किमहंद्विज ॥६९॥
तथाविधस्य भवतो वामपादप्रदानतः ॥७०॥
 ॥हारीत उवाच ॥
श्रृणु तत्कारणं धीमञ्छून्यता मे यतो भवेत् ॥७१॥
इति चिंतयतश्चित्ते हा दुःखोऽयं प्रतिग्रहः ॥
प्रतिग्रहेण विप्राणां ब्राह्म्यं तेजो हि शाम्यति ॥७२॥
महादानं हि गृह्णानो ब्राह्मणः स्वं शुभं हि यत् ॥
ददाति दातुर्दाता च अशुभं यच्छति स्वकम् ॥७३॥
दाता प्रतिग्रहीता च वचनं हि परस्परम् ॥
मन्यतेऽधःकरो यस्य सोऽल्पबुद्धिः प्रहीयते ॥७४॥
इति चिंतयतो मह्यं शून्यताभूद्धि नारद ॥
निद्रार्तश्च भयार्तश्च कामार्तः शोकपीडितः ॥७५॥
हृतस्वश्चान्यचित्तश्च शून्याह्येते भवंति च ॥
तदेषु मतिमान्कोपं न कुर्वीत यदि त्वया ॥७६॥
कृतः कोपस्ततस्तुभ्यमेवं हानिरियं मुने ॥
ततस्तापान्वितश्चाहं तान्वि प्रानब्रवं पुनः ॥७७॥
धिङ्मामस्तु च दुर्बुद्धिमविमृश्यार्थकारिणम् ॥
कुर्वतामविमृश्यैव तत्किमस्ति न यद्भवेत् ॥७८॥
सहसा न क्रियां कुर्यात्पदमेतन्महापदाम् ॥
विमृश्यकारिणं धीरं वृणते सर्वसंपदः ॥७९॥
सत्यमाह महाबुद्धिश्चिरकारी पुरा हि सः ॥
पुरा हि ब्राह्मणः कश्चित्प्रख्यातों गिरसां कुले ॥८०॥
चिरकारि महाप्राज्ञो गौतमस्याभवत्सुतः ॥
चिरेण सर्वकार्याणि यो विमृश्य प्रपद्यते ॥८१॥
चिरकार्याभिसंपतेश्चिरकारी तथोच्यते ॥
अलसग्रहणं प्राप्तो दुर्मेधावी तथोच्यते ॥८२॥
बुद्धिलाघवयुक्तेन जनेनादीर्घदर्शिना ॥
व्यभिचारेण कस्मिन्स व्यतिक्रम्या परान्सुतान् ॥८३॥
पित्रोक्तः कुपितेनाथ जहीमां जननीमिति ॥
स तथेति चिरेणोक्तः स्वभावाच्चिरकारकः ॥८४॥
विमृश्य चिरकारित्वाच्चिं तयामास वै चिरम् ॥
पितुराज्ञां कथं कुर्यां न हन्यां मातरं कथम् ॥८५॥
कथं धर्मच्छलेनास्मिन्निमज्जेयमसाधुवत् ॥
पितुराज्ञा परो धर्मो ह्यधर्मो मातृरक्षणम् ॥८६॥
अस्वतंत्रं च पुत्रत्वं किं तु मां नात्र पीडयेत् ॥
स्त्रियं हत्वा मातरं च को हि जातु सुखी भवेत् ॥८७॥
पितरं चाप्यवज्ञाय कः प्रतिष्ठामवाप्नुयात् ॥
अनवज्ञा पितुर्युक्ता युक्तं मातुश्च रक्षणम् ॥८८॥
क्षमायोग्यावुभावेतौ नातिवर्तेत वै कथम् ॥
पिता ह्यात्मानमाधत्ते जायायां जज्ञिवानिति ॥८९॥
शीलचारित्रगोत्रस्य धारणार्थं कुलस्य च ॥
सोऽहमात्मा स्वयं पित्रा पुत्रत्वे परिकल्पितः ॥९०॥
जातकर्मणि यत्प्राह पिता यच्चोपकर्मणि ॥
पर्याप्तः स दृढीकारः पितुर्गौरवलिप्सया ॥९१॥
शरीरादीनि देयानि पिता त्वेकः प्रयच्चति ॥
तस्मात्पितुर्वचः कार्यं न विचार्यं कथंचन ॥९२॥
पातकान्यपि चूर्यंते पितुर्वचनकारिणः ॥
पिता स्वर्गः पिता धर्मः पिता परमकं तपः ॥९३॥
पितरि प्रीतिमापन्ने सर्वाः प्रीणंति देवताः ॥
आशिषस्ता भजंत्येनं पुरुषं प्राह याः पिता ॥९४॥
निष्कृतिः सर्वपापानां पिता यदभिनंदति ॥
मुच्यते बंधनात्पुष्पं फलं वृंतात्प्रमुच्यते ॥९५॥
क्लिश्यन्नपि सुतः स्नेहं पिता स्नेहं न मुंचति ॥
एतद्विचिंत्यतं तावत्पुत्रस्य पितृगौरवम् ॥९६॥
पिता नाल्पतरं स्थानं चिंतयिष्यामि मातरम् ॥
यो ह्ययं मयि संघातो मर्त्यत्वे पांचभौतिकः ॥९७॥
अस्य मे जननी हेतुः पावकस्य यथारणिः ॥
माता देहारणिः पुंसः सर्वस्यार्थस्य निर्वृतिः ॥९८॥
मातृलाभे सनाथत्वमनाथत्वं विपर्यये ॥
न स शोचति नाप्येनं स्थावर्यमपि कर्षति ॥९९॥
श्रिया हीनोऽपि यो गेहे अंबेति प्रतिपद्यते ॥
पुत्रपौत्रसमापन्नो जननीं यः समाश्रितः ॥१००॥
अपि वर्षशतस्यांते स द्विहायनवच्चरेत् ॥
समर्थं वाऽसमर्थं वा कृशं वाप्यकृशं तथा ॥१०१॥
रक्षयेच्च सुतं माता नान्यः पोष्यविधानतः ॥
तदा स वृद्धो भवति तदा भवति दुःखितः ॥१०२॥
तदा शुन्यं जगत्तस्य यदा मात्रा वियुज्यते ॥
नास्ति मातृसमा च्छाया नास्ति मातृसमा गतिः ॥१०३॥
नास्ति मातृसमं त्राणं नास्ति मातृसमा प्रपा ॥
कुक्षिसंधारणाद्धात्री जननाज्जननी तथा ॥१०४॥
अंगानां वर्धनादंबा वीरसूत्वे च वीरसूः ॥
शिशोः शुश्रूषणाच्छ्वश्रूर्माता स्यान्माननात्तथा ॥१०५॥
देवतानां समावापमेकत्वं पितरं विदुः
मर्त्यानां देवतानां च पूगो नात्येति मातरम् ॥१०६॥
पतिता गुरवस्त्याज्या माता च न कथंचन ॥
गर्भधारणपोषाभ्यां तेन माता गरीयसी ॥१०७॥
एवं स कौशिकीतीरे बलिं राजानमीक्षतीम् ॥
स्त्रीवृत्तिं चिरकालत्वाद्धन्तुं दिष्टः स्वमातरम् ॥१०८॥
विमृश्य चिरकालं हि चिंतांतं नाभ्यपद्यत ॥
एतस्मिन्नंतरे शक्रो रूपमास्थितः ॥१०९॥
गायन्गाखामुपायातः पितुस्तस्याश्रमांतिके ॥
अनृना हि स्त्रियः सर्वाः सूत्रकारो यदब्रवीत् ॥११०॥
अतस्ताभ्यः फलं ग्राह्यं न स्याद्दोषेक्षणः सुधीः ॥
इति श्रुत्वा तमानर्च मेधातिथिरुदारधीः ॥१११॥
दुःखितश्चिंतयन्प्राप्तो भृशमश्रूणि वर्तयन् ॥
अहोऽहमीर्ष्ययाक्षिप्तो मग्नोऽहं दुःखसागरे ॥११२॥
हत्वा नारीं च साध्वीं च को नु मां तारयिष्यति ॥
सत्वरेण मयाज्ञप्तश्चिरकारी ह्युदारधीः ॥११३॥
यद्ययं चिरकारी स्यात्स मां त्रायेत पातकात् ॥
चिरकारिक भद्रं ते भद्रं ते चिरकारिक ॥११४॥
यदद्य चिरकारी त्वं ततोऽसि चिरकारिकः ॥
त्राहि मां मातरं चैव तपो यच्चार्जितं मया ॥११५॥
आत्मानं पातके विष्टं शुभाह्व चिरकारिक ॥
एवं स दुःखितः प्राप्तो गौतमोऽचिंतयत्तदा ॥११६॥
चिरकारिकं ददर्शाथ पुत्रं मातुरुपांतिके ॥
चिरकारी तु पितरं दृष्ट्वा परमदुःखितः ॥११७॥
शस्त्रं त्यक्त्वा स्थितो मूर्ध्ना प्रसादायोपचक्रमे ॥
मेधातिथिः सुतं दृष्ट्वा शिरसा पतितं भुवि ॥११८॥
पत्नीं चैव तु जीवंतीं परामभ्यगमन्मुदम् ॥
हन्यादिति न सा वेद शस्त्रपाणौ स्थिते सुते ॥११९॥
बुद्धिरासीत्सुतं दृष्ट्वा पितुश्चरणयोर्नतम् ॥
शस्त्रग्रहणचापल्यं संवृणोति भयादिति ॥१२०॥
ततः पित्रा चिरं स्मृत्वा चिरं चाघ्राय मूर्धनि ॥
चिरं दोर्भ्यां परिष्वज्य चिरंजीवेत्यु दाहृतः ॥१२१॥
चिरं मुदान्वितः पुत्रं मेधातिथिरथाब्रवीत् ॥
चिरकारिक भद्रं ते चिरकारी भवेच्चिरम् ॥१२२॥
चिराय यत्कृतं सौम्य चिरमस्मिन् दुःखितः ॥
गाथाश्चाप्यब्रवीद्विद्वान्गौतमो मुनिसत्तमः ॥१२३॥
चिरेण मंत्रं संधीयाच्चिरेम च कृतं त्यजेत् ॥
चिरेण विहतं मित्रं चिरं धारणमर्हति ॥१२४॥
रोगे दर्पे च माने च द्रोहे पापे च कर्मणि ॥
अप्रिये चैव कर्तव्ये चिरकारी प्रशस्यते ॥१२५॥
बंधूनां सुहृदां चैव भृत्यानां स्त्रीजनस्य च ॥
अव्यक्तेष्वपराधेषु चिरकारी प्रशस्यते ॥१२६॥
चिरं धर्मान्निषेवेत कुर्याच्चान्वेषणं चिरम् ॥
चिरमन्वास्य विदुषश्चिरमिष्टानुपास्य च ॥१२७॥
चिरं विनीय चात्मानं चिरं यात्यनवज्ञताम् ॥
ब्रुवतश्च परस्यापि वाक्यं धर्मोपसंहितम् ॥१२८॥
चिरं पृच्छेच्च श्रृणुयाच्चिरं न परिभूयते ॥
धर्मे शत्रौ शस्त्रहस्ते पात्रे च निकटस्थिते ॥१२९॥
भये च साधुपूजायां चिरकारी न शस्यते ॥
एवमुक्त्वा पुत्रभार्यासहितः प्राप्य चाश्रमम् ॥१३०॥
ततश्चिरमुपास्याथ दिवं यातिश्चिरं मुनिः ॥
वयं त्वेवं ब्रुवन्तोऽपि मोहेनैवं प्रतारिताः ॥१३१॥
कलौ च भवतां विप्रा मच्छापो निपतिष्यति ॥
केचित्सदा भविष्यंति विप्राः सर्वगुणैर्युताः ॥१३२॥
पादप्रक्षालनं कृत्वा ततोऽहं धर्मवर्मणः ॥
समीपे साक्षिणो देवान्कृत्वा संकल्पमाचरम् ॥१३३॥
कांचनैरर्नोप्रदानैश्च गृहदानैर्धनादिभिः ॥
भार्याभूषणवस्त्रैश्च कृतार्था ब्राह्मणाः कृताः ॥१३४॥
ततः करं समुद्यम्य प्राहेन्द्रो देवसंगमे ॥
हरांगरुद्धवामार्द्ध यावद्देवी गिरेः सुता ॥१३५॥
गणाधीशो वयं यावद्यावत्त्रिभुवनं त्विदम् ॥
तावन्नन्द्यादिदे स्थानं नारदस्थापितं सुराः ॥१३६॥
ब्रह्मशापो रुद्रशापो विष्णुशापस्तथैव च ॥
द्विजशापस्तथा भूयादिदं स्थानं विलुंपतः ॥१३७॥
ततस्तथेति तैः सर्वैर्हृष्टैस्तत्र तथोदितम् ॥
एवं मया स्थापिते स्थानकेऽस्मिन्संस्थापयामास च कापिलं मुनिः ॥
स्थाने उभे देवकृते प्रसन्नास्ततो ययुर्देवता देवसद्म ॥१३८॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां प्रथमे माहेश्वरखण्डे कौमारिकाखंडे नारीयस्थानप्रतिष्ठावर्णनंनाम षष्ठोऽध्यायः ॥६॥

N/A

References : N/A
Last Updated : July 22, 2024

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP